धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 148

  1. [य] ये च धर्मम असूयन्ति ये चैनं पर्युपासते बरवीतु भगवान एतत कव ते गच्छन्ति तादृशाः ॥ 1 ॥

  2. [भ] रजसा तमसा चैव समवस्तीर्ण चेतसः नरकं परतिपद्यन्ते धर्मविद्वेषिणॊ नराः ॥ 2 ॥

  3. ये तु धर्मं महाराज सततं पर्युपासते सत्यार्जव पराः सन्तस ते वै सवर्गभुजॊ नराः ॥ 3 ॥

  4. धर्म एव रतिस तेषाम आचार्यॊपासनाद भवेत देवलॊकं परपद्यन्ते ये धर्मं पर्युपासते ॥ 4 ॥

  5. मनुष्या यदि वा देवाः शरीरम उपताप्य वै धर्मिणः सुखम एधन्ते लॊभद्वेषविवर्जिताः ॥ 5 ॥

  6. परथमं बरह्मणः पुत्रं धर्मम आहुर मनीषिणः धर्मिणः पर्युपासन्ते फलं पक्वम इवाशयः ॥ 6 ॥

  7. [य] असितां कीदृशं रूपं साधवः किं च कुर्वते बरवीतु मे भवान एतत सन्तॊ ऽसन्तश च कीदृशाः ॥ 7 ॥

  8. [भ] दुराचाराश च दुर्धर्षा दुर्मुखाश चाप्य असाधवः साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम ॥ 8 ॥

  9. राजमार्गे गवां मध्ये गॊष्ठमध्ये च धर्मिणः नॊपसेवन्ति राजेन्द्र सर्गं मूत्र पुरीषयॊः ॥ 9 ॥

  10. पञ्चानाम अशनं दत्त्वा शेषम अश्नन्ति साधवः न जल्पन्ति च भुञ्जाना न निद्रान्त्य आर्द्र पाणयः ॥ 10 ॥

  11. चित्रभानुम अनड्वाहं देवं गॊष्ठं चतुष्पथम बराह्मणं धार्मिकं चैत्यं ते कुर्वन्ति परदक्षिणम ॥ 11 ॥

  12. वृद्धानां भारतप्तानां सत्रीणां बालातुरस्य च बराह्मणानां गवां राज्ञां पन्थानं ददते च ते ॥ 12 ॥

  13. अतिथीनां च सर्वेषां परेष्याणां सवजनस्य च तथा शरण कामानां गॊप्ता सत्यात सवागत परदः ॥ 13 ॥

  14. सायंप्रातर मनुष्याणाम अशनं देवनिर्मितम नान्तरा भॊजनं दृष्टम उपवासविधिर हि सः ॥ 14 ॥

  15. लॊम काले यथा वह्निः कालम एव परतीक्षते ऋतुकाले तथा नारी ऋतम एव परतीक्षते न चान्यां गच्छते यस तु बरह्मचर्यं हि तत समृतम ॥ 15 ॥

  16. अमृतं बराह्मणा गाव इत्य एतत तरयम एकतः तस्माद गॊब्राह्मणं नित्यम अर्चयेत यथाविधि ॥ 16 ॥

  17. यजुषा संस्कृतं मांसम उपभुञ्जन न दुष्यति पृष्ठमांसं वृथा मांसं पुत्रमांसं च तत समम ॥ 17 ॥

  18. सवदेशे परदेशे वाप्य अतिथिं नॊपवासयेत कर्म वै सफलं कृत्वा गुरूणां परतिपादयेत ॥ 18 ॥

  19. गुरुभ्य आसनं देयम अभिवाद्याभिपूज्य च गुरून अभ्यर्च्य वर्धन्ते आयुषा यशसा शरिया ॥ 19 ॥

  20. वृद्धान नातिवदेज जातु न च संप्रेषयेद अपि नासीनः सयात सथितेष्व एवम आयुर अस्य न रिष्यते ॥ 20 ॥

  21. न नग्नाम ईक्षते नारीं न विद्वान पुरुषान अपि मैथुनं सततं गुप्तम आहारं च समाचरेत ॥ 21 ॥

  22. तीर्थानां गुररस तीर्थं शुचीनां हृदयं शुचि दर्शनानां परं जञानं संतॊषः परमं सुखम ॥ 22 ॥

  23. सायंप्रातश च वृद्धानां शृणुयात पुष्कला गिरः शरुतम आप्नॊति हि नरः सततं वृद्धसेवया ॥ 23 ॥

  24. सवाध्याये भॊजने चैव दक्षिणं पाणिम उद्धरेत यच्छेद वान मनसी नित्यम इन्द्रियाणां च विभ्रमम ॥ 24 ॥

  25. संस्कृतं पायसं नित्यं यवागूं कृसरं हविः अष्टकाः पितृदैवत्या वृद्धानाम अभिपूजनम ॥ 25 ॥

  26. शमश्रुकर्मणि मङ्गल्यं कषुतानाम अभिनन्दनम वयाधितानां च सर्वेषाम आयुषः परतिनन्दनम ॥ 26 ॥

  27. न जातु तवम इति बरूयाद आपन्नॊ ऽपि महत्तरम तवं कारॊ वा वधॊ वेति विद्वत्सु न विशिष्यते अवराणां समानानां शिष्याणां च समाचरेत ॥ 27 ॥

  28. पापम आचक्षते नित्यं हृदयं पापकर्मिणाम जञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ 28 ॥

  29. जञानपूर्वं कृतं कर्मच छादयन्ते हय असाधवः न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः पापेनाभिहतः पापः पापम एवाभिजायते ॥ 29 ॥

  30. यथा वार्धुषिकॊ वृद्धिं देहभेदे परतीक्षते धर्मेणापिहितं पापं धर्मम एवाभिवर्धयेत ॥ 30 ॥

  31. यथा लवणम अम्भॊभिर आप्लुतं परविलीयते परायश्चित्त हतं पापं तथा सद्यः परणश्यति ॥ 31 ॥

  32. तस्मात पापं न गूहेत गूहमानं विवर्धते कृत्वा तु साधुष्व आख्येयं ते तत परशमयन्त्य उत ॥ 32 ॥

  33. आशया संचितं दरव्यं यत काले नॊपभुज्यते अन्ये चैतत परपद्यन्ते वियॊगे तस्य देहिनः ॥ 33 ॥

  34. मानसं सर्वभूतानां धर्मम आहुर मनीषिणः तस्मात सर्वाणि भूतानि धर्मम एव समासते ॥ 34 ॥

  35. एक एव चरेद धर्मं न धर्मध्वजिकॊ भवेत धर्मवाणिजका हय एते ये धर्मम उपभुञ्जते ॥ 35 ॥

  36. अर्चेद देवान अदम्भेन सेवेतामायया गुरून निधिं निदध्यात पारत्र्यं यात्रार्थं दानशब्दितम ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 149

Previous: अध्याय 147