[व] इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः ॥ 1 ॥
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर परत्यक्षम आगमॊ वेति किं तयॊः कारणं भवेत ॥ 2 ॥
[भ] नास्त्य अत्र संशयः कश चिद इति मे वर्तते मतिः शृणु वक्ष्यामि ते पराज्ञ सम्यक तवम अनुपृच्छसि ॥ 3 ॥
संशयः सुगमॊ राजन निर्णयस तव अत्र दुर्गमः दृष्टं शरुतम अनन्तं हि यत्र संशय दर्शनम ॥ 4 ॥
परत्यक्षं कारणं दृष्टं हेतुकाः पराज्ञमानिनः नास्तीत्य एवं वयवस्यन्ति सत्यं संशयम एव च तद अयुक्तं वयवस्यन्ति बालाः पण्डितमानिनः ॥ 5 ॥
अथ चेन मन्यसे चैकं कारणं किं भवेद इति शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च पराणयात्राम अनेकां च कल्पयानेन भारत ॥ 6 ॥
तत्परेणैव नान्येन शक्यं हय एतत तु कारणम हेतूनाम अन्तम आसाद्य विपुलं जञानम उत्तमम जयॊतिः सर्वस्य लॊकस्य विपुलं परतिपद्यते ॥ 7 ॥
तत्त्वेनागमनं राजन हेत्वन्तगममं तथा अग्राह्यम अनिबद्धं च वाचः संपरिवर्जनम ॥ 8 ॥
[य] परत्यक्षं लॊकतः सिद्धं लॊकाश चागम पूर्वकाः शिष्टाचारॊ बहुविधॊ बरूहि तन मे पितामह ॥ 9 ॥
[भ] धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः संस्था यत्नैर अपि कृता कालेन परिभिद्यते ॥ 10 ॥
अधर्मा धर्मरूपेण तेणैः कूपा इवावृताः ततस तैर भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ 11 ॥
अवृत्त्या ये च भिन्दन्ति शरुतत्यागपरायणाः धर्मविद्वेषिणॊ मन्दा इत्य उक्तास ते न संशयः ॥ 12 ॥
अतृप्यन्तस तु साधूनां य एवागम बुद्धयः परम इत्य एव संतुष्टास तान उपास्स्व च पृच्छ च ॥ 13 ॥
कामार्थौ पृष्ठतः कृत्वा लॊभमॊहानुसारिणौ धर्म इत्य एव संबुद्धास तान उपास्स्व च पृच्छ च ॥ 14 ॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः आचारः कारणं चैव धर्मश चैव तरयं पुनः ॥ 15 ॥
[य] पुनर एवेह मे बुद्धिः संशये परिमुह्यते अपारे मार्गमाणस्य परं तीरम अपश्यतः ॥ 16 ॥
वेदाः परत्यक्षम आचारः परमाणं तत तरयं यदि पृथक्त्वं लभ्यते चैषां धर्मश चैकस तरयं कथम ॥ 17 ॥
[भ] धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः यद्य एवं मन्यसे राजंस तरिधा धर्मविचारणा ॥ 18 ॥
एक एवेति जानीहि तरिधा तस्य परदर्शनम पृथक्त्वे चैव मे बुद्धिस तरयाणाम अपि वै तथा ॥ 19 ॥
उक्तॊ मार्गस तरयाणां च तत तथैव समाचर जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात ॥ 20 ॥
सदैव भरतश्रेष्ठ मा ते भूद अत्र संशयः अन्धॊ जड इवाशङ्कॊ यद बरवीमि तद आचर ॥ 21 ॥
अहिंसा सत्यम अक्रॊधॊ दानम एतच चतुष्टयम अजातशत्रॊ सवस्व धर्म एष सनातनः ॥ 22 ॥
बराह्मणेषु च वृत्तिर या पितृपैतामहॊचिता ताम अन्वेहि महाबाहॊ सवर्गस्यैते हि देशिकाः ॥ 23 ॥
परमाणम अप्रमाणं वै यः कुर्याद अबुधॊ नरः न स परमाणताम अर्हॊ विवाद जननॊ हि सः ॥ 24 ॥
बराह्मणान एव सेवस्व सत्कृत्य बहु मन्य च एतेष्व एव तव इमे लॊकाः कृत्स्ना इति निबॊध तान ॥ 25 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 147
Reach this point to mark the section finished.
Continue to अध्याय 148