धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 149

  1. [य] नाभाग धेयः पराप्नॊति धनं सुबलवान अपि भागधेयान्वितस तव अर्थान कृशॊ बालश च विन्दति ॥ 1 ॥

  2. नालाभ काले लभते परयत्ने ऽपि कृते सति लाभकाले ऽपरयत्नेन लभते विपुलं धनम कृतयत्नाफलाश चैव दृश्यन्ते शतशॊ नराः ॥ 2 ॥

  3. यदि यत्नॊ भवेन मर्त्यः स सर्वं फलम आप्नुयात नालभ्यं चॊपलभ्येत नृणां भरतसत्तम ॥ 3 ॥

  4. यदा परयत्नं कृतवान दृश्यते हय अफलॊ नरः मार्गन नयशतैर अर्थान अमार्गंश चापरः सुखी ॥ 4 ॥

  5. अकार्यम असकृत कृत्वा दृश्यन्ते हय अधना नराः धनयुक्तास तव अधर्मस्था दृश्यन्ते चापरे जनाः ॥ 5 ॥

  6. अधीत्य नीतिं यस्माच च नीतियुक्तॊ न दृश्यते अनभिज्ञश च साचिव्यं गमितः केन हेतुना विद्या युक्तॊ हय अविद्यश च धनवान दुर्गतस तथा ॥ 6 ॥

  7. यदि विद्याम उपाश्रित्य नरः सुखम अवाप्नुयात न विद्वान विद्यया हीनं वृत्त्यर्थम उपसंश्रयेत ॥ 7 ॥

  8. यथा पिपासां जयति पुरुषः पराप्य वै जलम दृष्टार्थॊ विद्ययाप्य एवम अविद्यां परजहेन नरः ॥ 8 ॥

  9. नाप्राप्तकालॊ मरियते विद्धः शरशतैर अपि तृणाग्रेणापि संस्पृष्टः पराप्तकालॊ न जीवति ॥ 9 ॥

  10. [भ] ईहमानः समारम्भान यदि नासादयेद धनम उग्रं तपः समारॊहेन न हय अनुप्तं पररॊहति ॥ 10 ॥

  11. दानेन भॊगी भवति मेधावी वृद्धसेवया अहिंसया च दीर्घायुर इति पराहुर मनीषिणः ॥ 11 ॥

  12. तस्माद दद्यान न याचेत पूजयेद धार्मिकान अपि सवाभाषी परिय कृच छुद्धः सर्वसत्त्वाविहिंसकः ॥ 12 ॥

  13. यदा परमाण परभवः सवभावश च सुखासुखे मश कीट पिपीलानां सथिरॊ भव युधिष्ठिर ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 150

Previous: अध्याय 148