[वा] युधिष्ठिर महाबाहॊ महाभाग्यं महात्मनः रुद्राय बहुरूपाय बहु नाम्ने निबॊध मे ॥ 1 ॥
वदन्त्य अग्निं महादेवं तथा सथाणुं महेश्वरम एकाक्षं तर्यम्बकं चैव विश्वरूपं शिवं तथा ॥ 2 ॥
दवे तनू तस्य देवस्य वेद जञा बराह्मणा विदुः घॊराम अन्यां शिवाम अन्यां ते तनू बहुधा पुनः ॥ 3 ॥
उग्रा घॊरा तनूर यास्य सॊ ऽगनिर विद्युत स भास्करः शिवा सौम्या च या तस्य धर्मस तव आपॊ ऽथ चन्द्रमाः ॥ 4 ॥
आत्मनॊ ऽरधं तु तस्याग्निर उच्यते भरतर्षभ बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तथा ॥ 5 ॥
यास्य घॊरतमा मूर्तिर जगत संहरते तया ईश्वरत्वान महत्त्वाच च महेश्वर इति समृतः ॥ 6 ॥
यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते ॥ 7 ॥
देवानां सुमहान यच च यच चास्य विषयॊ महान यच च विश्वं महत पाति महादेवस ततः समृतः ॥ 8 ॥
समेधयति यन नित्यं सर्वार्थान सर्वकर्मभिः शिवम इच्छन मनुष्याणां तस्माद एष शिवः समृतः ॥ 9 ॥
दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत सथिरलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः ॥ 10 ॥
यद अस्य बहुधा रूपं भूतं भव्यं भवत तथा सथावरं जङ्गमं चैव बहुरूपस ततः समृतः ॥ 11 ॥
धूम्रं रूपं च यत तस्य धूर्जटीत्य अत उच्यते विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः ॥ 12 ॥
सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा चक्षुषः परभवस तेजॊ नास्त्य अन्तॊ ऽथास्य चक्षुषाम ॥ 13 ॥
सर्वथा यत पशून पाति तैश च यद रमते पुनः तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः ॥ 14 ॥
नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम महयन्त्य अस्य लॊकाश च महेश्वर इति समृतः ॥ 15 ॥
विग्रहं पूजयेद यॊ वै लिङ्गं वापि महात्मनः लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते ॥ 16 ॥
ऋषयश चापि देवाश च गन्धर्वाप्सरसस तथा लिङ्गम एवार्चयन्ति सम यत तद ऊर्ध्वं समास्थितम ॥ 17 ॥
पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः सुखं ददाति परीतात्मा भक्तानां भक्त वत्सलः ॥ 18 ॥
एष एव शमशानेषु देवॊ वसति नित्यशः यजन्ते तं जनास तत्र वीर सथाननिषेविणम ॥ 19 ॥
विषमस्थः शरीरेषु स मृत्युः पराणिनाम इह स च वायुः शरीरेषु पराणॊ ऽपानः शरीरिणाम ॥ 20 ॥
तस्य घॊराणि रूपाणि दीप्तानि च बहूनि च लॊके यान्य अस्य पूज्यन्ते विप्रास तानि विदुर बुधाः ॥ 21 ॥
नामधेयानि वेदेषु बहून्य अस्य यथार्थतः निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा ॥ 22 ॥
वेदे चास्य विदुर विप्राः शतरुद्रीयम उत्तमम वयासाद अनन्तरं यच चाप्य उपस्थानं महात्मनः ॥ 23 ॥
परदाता सर्वलॊकानां विश्वं चाप्य उच्यते महत जयेष्ठभूतं वदन्त्य एनं बराह्मणा ऋषयॊ ऽपरे ॥ 24 ॥
परथमॊ हय एष देवानां मुखाद अग्निर अजायत गरहैर बहुविधैः पराणान संरुद्धान उत्सृजत्य अपि ॥ 25 ॥
स मॊचयति पुण्यात्मा शरण्यः शरणा गतान आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान ॥ 26 ॥
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः शक्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते ॥ 27 ॥
स एवाभ्यधिकॊ नित्यं तरैलॊक्यस्य शुभाशुभे ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते ॥ 28 ॥
महेश्वरश च लॊकानां महताम ईश्वरश च सः बहुभिर विविधै रूपैर विश्वं वयाप्तम इदं जगत तस्य देवस्य यद वक्त्रं समुद्रे वडवामुखम ॥ 29 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 146
Reach this point to mark the section finished.
Continue to अध्याय 147