[य] बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः ॥ 1 ॥
[वा] शृणुष्वावहितॊ राजन दविजानां भरतर्षभ यथातत्त्वेन वदतॊ गुणान मे कुरुसत्तम ॥ 2 ॥
परद्युम्नः परिपप्रच्छ बराह्मणैः परिकॊपितः किं फलं बराह्मणेष्व अस्ति पूजायां मधुसूदन ईश्वरस्य सतस तस्य इह चैव परत्र च ॥ 3 ॥
सदा दविजातीन संपूज्य किं फलं तत्र मानद एतद बरूहि पितः सर्वं सुमहान संशयॊ ऽतर मे ॥ 4 ॥
इत्य उक्तवचनस तेन परद्युम्नेन तदा तव अहम परत्यब्रुवं महाराज यत तच छृणु समाहितः ॥ 5 ॥
वयुष्टिं बराह्मण पूजायां रौक्मिणेय निबॊध मे एते हि सॊमराजान ईश्वराः सुखदुःखयॊः ॥ 6 ॥
अस्मिँल लॊके रौक्मिणेय तथामुष्मिंश च पुत्रक बराह्मण परमुखं सौख्यं न मे ऽतरास्ति विचारणा ॥ 7 ॥
बराह्मण परमुखं वीर्यम आयुः कीर्तिर यशॊबलम लॊका लॊकेश्वराश चैव सर्वे बराह्मण पूर्वकाः ॥ 8 ॥
तत कथं नाद्रियेयं वै ईश्वरॊ ऽसमीति पुत्रक मा ते मन्युर महाबाहॊ भवत्व अत्र दविजान परति ॥ 9 ॥
बराह्मणॊ हि महद भूतम अस्मिँल लॊके परत्र च भस्म कुर्युर जगद इदं करुद्धाः परत्यक्षदर्शिनः ॥ 10 ॥
अन्यान अपि सृजेयुश च लॊकाँल लॊकेश्वरांस तथा कथं तेषु न वर्तेय सम्यग जञानात सुतेजसः ॥ 11 ॥
अवसन मद्गृहे तात बराह्मणॊ हरि पिङ्गलः चीरवासा बिल्वदण्डी दीर्घश्मश्रु नखादिमान दीर्घ्येभ्यश च मनुष्येभ्यः परमाणाद अधिकॊ भुवि ॥ 12 ॥
स सम संचरते लॊकान ये दिव्या ये च मानुषाः इमा गाथा गायमानश चत्वरेषु सभासु च ॥ 13 ॥
दुर्वाससं वासयेत कॊ बराह्मणं सत्कृतं गृहे परिभाषां च मे शरुत्वा कॊ नु दद्यात परतिश्रयम यॊ मां कश चिद वासयेत न स मां कॊपयेद इह ॥ 14 ॥
तं सम नाद्रियते कश चित ततॊ ऽहं तम अवासयम ॥ 15 ॥
स सम भुङ्क्ते सहस्राणां बहूनाम अन्नम एकदा एकदा समाल्पकं भुङ्क्ते न वैति च पुनर गृहान ॥ 16 ॥
अकस्माच च परहसति तथाकस्मात पररॊदिति न चास्य वयसा तुल्यः पृथिव्याम अभवत तदा ॥ 17 ॥
सॊ ऽसमद आवसथं गत्वा शय्याश चास्तरणानि च कन्याश चालं कृता दग्ध्वा ततॊ वयपगतः सवयम ॥ 18 ॥
अथ माम अब्रवीद भूयः स मुनिः संशितव्रतः कृष्ण पायसम इच्छामि भॊक्तुम इत्य एव स तवरः ॥ 19 ॥
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः सर्वाण्य एवान्न पानानि भक्ष्याश चॊच्चावचास तथा भवन्तु सत्कृतानीति पूर्वम एव परचॊदितः ॥ 20 ॥
ततॊ ऽहं जवलमानं वै पायसं परत्यवेदयम तद भुक्त्वैव तु स कषिप्रं ततॊ वचनम अब्रवीत कषिप्रम अङ्गानि लिम्पस्व पायसेनेति स सम ह ॥ 21 ॥
अविमृश्यैव च ततः कृतवान अस्मि तत तथा तेनॊच्छिष्टेन गात्राणि शिरश चैवाभ्यमृक्षयम ॥ 22 ॥
स ददर्श तदाभ्याशे मातरं ते शुभाननाम ताम अपि समयमानः स पायसेनाभ्यलेपयत ॥ 23 ॥
मुनिः पायसदिग्धाङ्गीं रथे तूर्णम अयॊजयत तम आरुह्य रथं चैव निर्ययौ स गृहान मम ॥ 24 ॥
अग्निवर्णॊ जवलन धीमान स दविजॊ रथदुर्यवत परतॊदेनातुदद बालां रुक्मिणीं मम पश्यतः ॥ 25 ॥
न च मे सतॊकम अप्य आसीद दुःखम ईर्ष्या कृतं तदा ततः स राजमार्गेण महता निर्ययौ बहिः ॥ 26 ॥
तद दृष्ट्वा महद आश्चर्यं दाशार्हा जातमन्यवः तत्राजल्पन मिथः के चित समाभाष्य परस्परम ॥ 27 ॥
बराह्मणा एव जायेरन नान्यॊ वर्णः कथं चन कॊ हय एनं रथम आस्थाय जीवेद अन्यः पुनान इह ॥ 28 ॥
आशीविषविषं तीक्ष्णं ततस तीक्ष्णतरं विषम बरह्माशीविष दग्धस्य नास्ति कश चिच चिकित्सकः ॥ 29 ॥
तस्मिन वरजति दुर्धर्षे परास्खलद रुक्मिणी पथि तां नामर्षयत शरीमांस ततस तूर्णम अचॊदयत ॥ 30 ॥
ततः परमसंक्रुद्धॊ रथात परस्कन्द्य स दविजः पदातिर उत्पथेनैव पराधावद दक्षिणामुखः ॥ 31 ॥
तम उत्पथेन धावन्तम अन्वधावं दविजॊत्तमम तथैव पायसादिग्धः परसीद भगवन्न इति ॥ 32 ॥
ततॊ विलॊक्य तेजस्वी बराह्मणॊ माम उवाच ह जितः करॊधस तवया कृष्ण परकृत्यैव महाभुज ॥ 33 ॥
न ते ऽपराधम इह वै दृष्टवान अस्मि सुव्रत परीतॊ ऽसमि तव गॊविन्द वृणु कामान यथेप्षितान परसन्नस्य च मे तात पश्य वयुष्टिर यथाविधा ॥ 34 ॥
यावद एव मनुष्याणाम अन्ने भावॊ भविष्यति यथैवान्ने तथा तेषां तवयि भावॊ भविष्यति ॥ 35 ॥
यावच च पुण्या लॊकेषु तवयि कीर्तिर भविष्यति तरिषु लॊकेषु तावच च वैशिष्ट्यं परतिपत्स्यसे सुप्रियः सर्वलॊकस्य भविष्यसि जनार्दन ॥ 36 ॥
यत ते भिन्नं च दग्धं च यच च किं चिद विनाशितम सर्वं तथैव दरष्टासि विशिष्टं वा जनार्दन ॥ 37 ॥
यावद एतत परलिप्तं ते गात्रेषु मधुसूदन अतॊ मृत्युभयं नास्ति यावद इच्छा तवाच्युत ॥ 38 ॥
न तु पादतले लिप्ते कस्मात ते पुत्रकाद्य वै नैतन मे परियम इत्य एव स मां परीतॊ ऽबरवीत तदा इत्य उक्तॊ ऽहं शरीरं सवम अपश्यं शरीसमायुतम ॥ 39 ॥
रुक्मिणीं चाब्रवीत परीतः सर्वस्त्रीणां वरं यशः कीर्तिं चानुत्तमां लॊके समवाप्स्यसि शॊभने ॥ 40 ॥
न तवां जरा वा रॊगॊ वा वैवर्ण्यं चापि भामिनि सप्रक्ष्यन्ति पुण्यगन्धा च कृष्णम आराधयिष्यसि ॥ 41 ॥
षॊडशानां सहस्राणां वधूनां केशवस्य ह वरिष्ठा सह लॊक्या च केशवस्य भविष्यसि ॥ 42 ॥
तव मातरम इत्य उक्त्वा ततॊ मां पुनर अब्रवीत परस्थितः सुमहातेजा दुर्वासा वह्निवज जवलन ॥ 43 ॥
एषैव ते बुद्धिर अस्तु बराह्मणान परति केशव इत्य उक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ 44 ॥
तस्मिन्न अन्तर्हिते चाहम उपांशु वरतम आदिशम यत किं चिद बराह्मणॊ बरूयात सर्वं कुर्याम इति परभॊ ॥ 45 ॥
एतद वरतम अहं कृत्वा मात्रा ते सह पुत्रक ततः परमहृष्टात्मा पराविशं गृहम एव च ॥ 46 ॥
परविष्टमात्रश च गृहे सर्वं पश्यामि तन नवम यद भिन्नं यच च वै दग्धं तेन विप्रेण पुत्रक ॥ 47 ॥
ततॊ ऽहं विस्मयं पराप्तः सर्वं दृष्ट्वा नवं दृढम अपूजयं च मनसा रौक्मिणेय दविजं तदा ॥ 48 ॥
इत्य अहं रौक्मिणेयस्य पृच्छतॊ भरत रषभ माहात्म्यं दविजमुख्यस्य सर्वम आख्यातवांस तदा ॥ 49 ॥
तथा तवम अपि कौन्तेय बराह्मणान सततं परभॊ पूजयस्व महाभागान वाग्भिर दानैर्श च नित्यदा ॥ 50 ॥
एवं वयुष्टिम अहं पराप्तॊ बराह्मणानां परसादजाम यच च माम आह भीष्मॊ ऽयं तत सत्यं भरतर्षभ ॥ 51 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 144
Reach this point to mark the section finished.
Continue to अध्याय 145