धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 143

  1. [य] बराह्मणान अर्चसे राजन सततं संशितव्रतान कं तु कर्मॊदयं दृष्ट्वा तान अर्चसि नराधिप ॥ 1 ॥

  2. कां वा बराह्मण पूजायां वयुष्टिं दृष्ट्वा महाव्रत तान अर्चसि महाबाहॊ सर्वम एतद वदस्व मे ॥ 2 ॥

  3. [भ] एष ते केशचः सर्वम आख्यास्यति महामतिः वयुष्टं बराह्मण पूजायां दृष्टव्युष्टिर महाव्रताः ॥ 3 ॥

  4. बलं शरॊत्रे वान मनश चक्षुषी च; जञानं तथा न विशुद्धं ममाद्य देहन्यासॊ नातिचिरान मतॊ मे; न चातितूर्णं सविताद्य याति ॥ 4 ॥

  5. उक्ता धर्मा ये पुराणे महान्तॊ; बराह्मणानां कषत्रियाणां विशां च पौराणं ये दण्ड्दम उपासते च; शेषं कृष्णाद उपशिक्षस्व पार्थ ॥ 5 ॥

  6. अहं हय एन वेद्मि तत्त्वेन कृष्णं; यॊ ऽयं हि यच चास्य बलं पुराणम अमेयात्मा केशवः कौरवेन्द्र; सॊ ऽयं धर्मं वक्ष्यति संशयेषु ॥ 6 ॥

  7. कृष्णः पृथ्वीम असृजत खं दिवं च; वराहॊ ऽयं भीमबलः पुराणः अस्य चाधॊ ऽथान्तरिक्षं दिवं च; दिशश चतस्रः परदिशश चतस्रः सृष्टिस तथैवेयम अनुप्रसूता; स निर्ममे विश्वम इदं पुराणम ॥ 7 ॥

  8. अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रॊत्पन्नः सवयम एवामितौजाः येनाच्छिन्नं तत तमः पार्थ घॊरं; यत तत तिष्ठत्य अर्णवं तर्जयानम ॥ 8 ॥

  9. कृते यॊगे धर्म आसीत समग्रस; तरेताकाले जञानम अनुप्रपन्नः बलं तव आसीद दवापरे पार्थ कृष्णः; कलाव अधर्मः कषितिम आजगाम ॥ 9 ॥

  10. स पूर्वदेवॊ निजघान दैत्यान; स पूर्वदेवश च बभूव सम्राट स भूतानां भावनॊ भूतभव्यः; स विश्वस्यास्य जगतश चापि गॊप्ता ॥ 10 ॥

  11. यदा धर्मॊ गलायति वै सुराणां; तदा कृष्णॊ जायते मानुषेषु धर्मे सथित्वा स तु वै भावितात्मा; परांश च लॊकान अपरांश च याति ॥ 11 ॥

  12. तयाज्यांस तयक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ कृतं करिष्यत करियते च देवॊ; मुहुः सॊमं विद्धि च शक्रम एतम ॥ 12 ॥

  13. स विश्वकर्मा स च विश्वरूपः; स विश्वभृद विश्वकृग विश्वजिच च स शूलभृच छॊणित भृत करालस; तं कर्म भिर विदितं वै सतुवन्ति ॥ 13 ॥

  14. तं गन्धर्वाप्सरसश च नित्यम; उपतिष्ठन्ते विबुधानां शतानि तं राक्षसाश च परिसंवहन्ते; रायः पॊषः स विजिगीषुर एकः ॥ 14 ॥

  15. तम अध्वरे शंसितारः सतुवन्ति; रथंतरे सामगाश च सतुवन्ति तं बराह्मणा बरह्म मन्त्रैः सतुवन्ति; तस्मै हविर अध्वर्यवः कल्पयन्ति ॥ 15 ॥

  16. स पौराणीं बरह्म गुहां परविष्टॊ; मही सत्रं भारताग्रे ददर्श स चैव गाम उद्दधाराग्र्य कर्मा; विक्षॊभ्य दैत्यान उरगान दानवांश च ॥ 16 ॥

  17. तस्य भक्षान विविधान वेदयन्ति; तम एवाजौ वाहनं वेदयन्ति तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ॥ 17 ॥

  18. स कुम्भरेताः ससृजे पुराणं; यत्रॊत्पन्नम ऋषिम आहुर वसिष्ठम स मातरिश्वा विभुर अश्ववाजी; स रश्मिमान सविता चादि देवः ॥ 18 ॥

  19. तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर विजितानीह तरीणि स देवानां मानुषाणां पितॄणां; तम एवाहुर यज्ञविदां वितानम ॥ 19 ॥

  20. स एव कालं विभजन्न उदेति; तस्यॊत्तरं दक्षिणं चायने दवे तस्य एवॊर्ध्वं तिर्यग अधश चरन्ति; गभस्तयॊ मेदिनीं तापयन्तः ॥ 20 ॥

  21. तं बराह्मणा वेद विदॊ जुषन्ति; तस्यादित्यॊ भाम उपयुज्य भाति स मासि मास्य अध्वर कृद विधत्ते; तम अध्वरे वेद विदः पठन्ति ॥ 21 ॥

  22. स एकयुक चक्रम इदं तरिनाभि; सप्ताश्वयुक्तं वहते वै तरिधामा महातेजाः सर्वगः सर्वसिंहः; कृष्णॊ लॊकान धारयते तथैकः अश्नन्न अनश्नंश च तथैव धीरः; कृष्णं सदा पार्थ कर्तारम एहि ॥ 22 ॥

  23. स एकदा कक्षगतॊ महात्मा; तृप्तॊ विभुः खाण्डवे धूमकेतुः स राक्षसान उरगांश चावजित्य; सर्वत्र गः सर्वम अग्नौ जुहॊति ॥ 23 ॥

  24. स एवाश्वः शवेतम अश्वं परयच्छत; स एवाश्वान अथ सर्वांश चकार तरिवन्धुरस तस्य रथस तरिचक्रस; तरिवृच छिराश चतुरस्रश च तस्य ॥ 24 ॥

  25. स विहायॊ वयदधात पञ्च नाभिः; स निर्ममे गां दिवम अन्तरिक्षम एवं रम्यान असृजत पर्वतांश च; हृषीकेशॊ ऽमितदीप्ताग्नितेजाः ॥ 25 ॥

  26. स लङ्घयन वै सरितॊ जिघांसन; स तं वज्रं परहरन्तं निरास स महेन्द्रः सतूयते वै महाध्वरे; विप्रैर एकॊ ऋक सहस्रैः पुराणैः ॥ 26 ॥

  27. दुर्वासा वै तेन नान्येन शक्यॊ; गृहे राजन वासयितुं महौजाः तम एवाहुर ऋषिम एकं पुराणं; स विश्वकृद विदधात्य आत्मभावान ॥ 27 ॥

  28. वेदांश च यॊ वेदयते ऽधिदेवॊ; विधींश च यश चाश्रयते पुराणान कामे वेदे लौकिके यत फलं च; विष्वक्सेनेन सर्वम एतत परतीहि ॥ 28 ॥

  29. जयॊतींषि शुक्लानि च सर्वलॊके; तरयॊ लॊका लॊकपात्रास तरयश च तरयॊ ऽगनयॊ वयाहृतयश च तिस्रः; सर्वे देवा देवकीपुत्र एव ॥ 29 ॥

  30. संवत्सरः स ऋतुः सॊ ऽरधमासः; सॊ ऽहॊरात्रः सकला वै स काष्ठाः मात्रा मुहूर्ताश च लवाः कषणाश च; विष्वक्सेने सर्वम एतत परतीहि ॥ 30 ॥

  31. चन्द्रादित्यौ गरहनक्षत्रताराः; सर्वाणि दर्शान्य अथ पौर्णमास्यः नक्षत्रयॊगा ऋतवश च पार्थ; विष्वक्सेनात सर्वम एतत परसूतम ॥ 31 ॥

  32. रुद्रादित्या वसवॊ ऽथाश्विनौ च; साध्या विश्वे मरुतां षड गणाश च परजापतिर देव मातादितिश च; सर्वे कृष्णाद ऋषयश चैव सप्त ॥ 32 ॥

  33. वायुर भूत्वा विक्षिपते च विश्वम; अग्निर भूत्वा दहते विश्वरूपः आपॊ भूत्वा मज्जयते च सर्वं; बरह्मा भूत्वा सृजते विश्वसंघान ॥ 33 ॥

  34. वेद्यं च यद वेदयते च वेदान; विधिश च यश चाश्रयते विधेयान धर्मे च वेदे व बले च सर्वं; चराचरं केशवं तवं परतीहि ॥ 34 ॥

  35. जयॊतिर भूतः परमॊ ऽसौ पुरस्तात; परकाशयन परभया विश्वरूपः अपः सृष्ट्वा हय आत्मभूर आत्मयॊनिः; पुराकरॊत सर्वम एवाथ विश्वम ॥ 35 ॥

  36. ऋतून उत्पातान विविधान्य अद्भुतानि; मेघान विद्युत सर्वम ऐरावतं च सर्वं कृष्णात सथावरं जङ्गमं च; विश्वाख्याताद विष्णुम एनं परतीहि ॥ 36 ॥

  37. विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति ततः परद्युम्नम अनिरुद्धं चतुर्थम; आज्ञापयत्य आत्मयॊनिर महात्मा ॥ 37 ॥

  38. स पञ्चधा पञ्चजनॊपपन्नं; संचॊदयन विश्वम इदं सिसृक्षुः ततश चकारावनि मारुतौ च; खं जयॊतिर आपश च तथैव पार्थ ॥ 38 ॥

  39. स सथावरं जङ्गमं चैवम एतच; चतुर्विधं लॊकम इमं च कृत्वा ततॊ भूमिं वयदधात पञ्च बीजां; दयौः पृथिव्यां धास्यति भूरि वारि तेन विश्वं कृतम एतद धि राजन; स जीवयत्य आत्मनैवात्म यॊनिः ॥ 39 ॥

  40. ततॊ देवान असुरान मानुषांश च; लॊकान ऋषींश चाथ पितॄन परजाश च समासेन विविधान पराणिलॊकान; सर्वान सदा भूतपतिः सिसृक्षुः ॥ 40 ॥

  41. शुभाशुभं सथावरं जङ्गमं च; विष्वक्सेनात सर्वम एतत परतीहि यद वर्तते यच च भविष्यतीह; सर्वम एतत केशवं तवं परतीहि ॥ 41 ॥

  42. मृत्युश चैव पराणिनाम अन्तकाले; साक्षात कृष्णः शाश्वतॊ धर्मवाहः भूतं च यच चेह न विद्म किं चिद; विष्वक्सेनात सर्वम एतत परतीहि ॥ 42 ॥

  43. यत परशस्तं च लॊकेषु पुण्यं यच च शुभाशुभम तत सर्वं केशवॊ ऽचिन्त्यॊ विपरीतम अतॊ भवेत ॥ 43 ॥

  44. एतादृशः केशवॊ ऽयं सवयं भूर; नारायणः परमश चाव्ययश च मध्यं चास्य जगतस तस्थुषश च; सर्वेषां भूतानां परभवश चाप्ययश च ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 144

Previous: अध्याय 142