धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 140

  1. [भ] इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह ॥ 1 ॥

  2. असुरैर निर्जिता देवा निरुत्साहाश च ते कृताः यज्ञाश चैषां हृताः सर्वे पितृभ्यश च सवधा तथा ॥ 2 ॥

  3. कर्मेज्या मानवानां च दानवैर हैहयर्षभ भरष्टैश्वर्यास ततॊ देवाश चेरुः पृथ्वीम इति शरुतिः ॥ 3 ॥

  4. ततः कदा चित ते राजन दीप्तम आदित्यवर्चसम ददृशुस तेजसा युक्तम अगस्त्यं विपुलव्रतम ॥ 4 ॥

  5. अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम इदम ऊचुर महात्मानं वाक्यं काले जनाधिप ॥ 5 ॥

  6. दानवैर युधि भग्नाः सम तथैश्वर्याच च भरंशिताः तद अस्मान नॊ भयात तीव्रात तराहि तवं मुनिपुंगव ॥ 6 ॥

  7. इत्य उक्तः स तदा देवैर अगस्त्यः कुपितॊ ऽभवत परजज्वाल च तेजस्वी कालाग्निर इव संक्षये ॥ 7 ॥

  8. तेन दीप्तांशु जालेन निर्दग्धा दानवास तदा अन्तरिक्षान महाराज नयपतन्त सहस्रशः ॥ 8 ॥

  9. दह्यमानास तु ते दैत्यास तस्यागस्त्यस्य तेजसा उभौ लॊकौ परित्यज्य ययुः काष्ठां सम दक्षिणाम ॥ 9 ॥

  10. बलिस तु यजते यज्ञम अश्वमेधं महीं गतः ये ऽनये सवस्था महीस्थाश च ते न दग्धा महासुराः ॥ 10 ॥

  11. ततॊ लॊका पुनः पराप्ताः सुरैः शान्तं च तद रजः अथैनम अब्रुवन देवा भूमिष्ठान असुराञ जहि ॥ 11 ॥

  12. इत्य उक्त आह देवान स न शक्नॊमि महीगतान दग्धुं तपॊ हि कषीयेन मे धक्ष्यामीति च पार्थिव ॥ 12 ॥

  13. एवं दग्धा भगवता दानवाः सवेन तेजसा अगस्त्येन तदा राजंस तपसा भावितात्मना ॥ 13 ॥

  14. ईदृशश चाप्य अगस्त्यॊ हि कथितस ते मयानघ बरवीम्य अहं बरूहि वा तवम अगस्त्यात कषत्रियं वरम ॥ 14 ॥

  15. इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत शृणु राजन वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ 15 ॥

  16. आदित्याः सत्रम आसन्त सरॊ वै मानसं परति वसिष्ठं मनसा गत्वा शरुत्वा तत्रास्य गॊचरम ॥ 16 ॥

  17. यजमानांस तु तान दृष्ट्वा वयग्रान दीक्षानुकर्शितान हन्तुम इच्छन्ति शैलाभाः खलिनॊ नाम दानवाः ॥ 17 ॥

  18. अदूरात तु ततस तेषां बरह्मदत्तवरं सरः हता हता वै ते तत्र जीवन्त्य आप्लुत्य दानवाः ॥ 18 ॥

  19. ते परगृह्य महाघॊरान परतान परिघान दरुमान विक्षॊभयन्तः सलिलम उत्थिताः शतयॊजनम ॥ 19 ॥

  20. अभ्यद्रवन्त देवांस ते सहस्राणि दशैव ह ततस तैर अर्दिता देवाः शरणं वासवं ययुः ॥ 20 ॥

  21. स च तैर वयथितः शक्रॊ वसिष्ठं शरणं ययौ ततॊ ऽभयं ददौ तेभ्यॊ वसिष्ठॊ भगवान ऋषिः ॥ 21 ॥

  22. तथा तान दुःखिताञ जानन्न आनृशंस्य परॊ मुनिः अयत्नेनादहत सर्वान खलिनः सवेन तेजसा ॥ 22 ॥

  23. कैलासं परथितां चापि नदीं गङ्गां महातपाः आनयत तत सरॊ दिव्यं तया भिन्नं च तत सरः ॥ 23 ॥

  24. सरॊ भिन्नं तया नद्या सरयूः सा ततॊ ऽभवत हताश च खलिनॊ यत्र स देशः खलिनॊ ऽभवत ॥ 24 ॥

  25. एवं सेन्द्रा वसिष्ठेन रक्षितास तरिदिवौकसः बरह्मदत्तवराश चैव हता दैत्या महात्मना ॥ 25 ॥

  26. एतत कर्म वसिष्ठस्य कथितं ते मयानघ बरवीम्य अहं बरूहि वा तवं वसिष्ठात कषत्रियं वरम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 141

Previous: अध्याय 139