धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 139

  1. [वायु] इमां भूमिं बराह्मणेभ्यॊ दित्सुर वै दक्षिणां पुरा अङ्गॊ नाम नृपॊ राजंस ततश चिन्तां मही ययौ ॥ 1 ॥

  2. धारणीं सर्वभूतानाम अयं पराप्य वरॊ नृपः कथम इच्छति मां दातुं दविजेभ्यॊ बरह्मणः सुताम ॥ 2 ॥

  3. साहं तयक्त्वा गमिष्यामि भूमित्वं बरह्मणः पदम अयं सराष्ट्रॊ नृपतिर मा भूद इति ततॊ ऽगमत ॥ 3 ॥

  4. ततस तां कश्यपॊ दृष्ट्वा वरजन्तीं पृथिवीं तदा परविवेश महीं सद्यॊ मुक्त्वात्मानं समाहितः ॥ 4 ॥

  5. रुद्धा सा सर्वतॊ जज्ञे तृणौषधि समन्विता धर्मॊत्तरा नष्टभया भूमिर आसीत ततॊ नृप ॥ 5 ॥

  6. एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः तरिंशतं कश्यपॊ राजन भूमिर आसीद अतन्द्रितः ॥ 6 ॥

  7. अथागम्य महाराज नमस्कृत्य च कश्यपम पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥ 7 ॥

  8. एष राजन्न ईदृशॊ वै बराह्मणः कश्यपॊ ऽभवत अन्यं परब्रूहि वापि तवं कश्यपात कषत्रियं वरम ॥ 8 ॥

  9. तूष्णीं बभूव नृपतिः पवनस तव अब्रवीत पुनः शृणु राजन्न उतथ्यस्य जातस्याङ्गिरसे कुले ॥ 9 ॥

  10. भद्रा सॊमस्य दुहिता रूपेण परमा मता तस्यास तुल्यं पतिं सॊम उतथ्यं समपश्यत ॥ 10 ॥

  11. सा च तीव्रं तपस तेपे महाभागा यशस्विनी उतथ्यं तु महाभागं तत कृते ऽवरयत तदा ॥ 11 ॥

  12. तत आहूय सॊतथ्यं ददाव अत्र यशस्विनीम भार्यार्थे स च जग्राह विधिवद भूरिदक्षिण ॥ 12 ॥

  13. तां तव अकामयत शरीमान वरुणः पूर्वम एव ह स चागम्य वनप्रस्थं यमुनायां जहार ताम ॥ 13 ॥

  14. जलेश्वरस तु हृत्वा ताम अनयत सवपुरं परति परमाद्भुतसंकाशं षट सहस्रशतह्रदम ॥ 14 ॥

  15. न हि रम्यतरं किं चित तस्माद अन्यत पुरॊत्तमम परासादैर अप्सरॊभिश च दिव्यैः कामैश च शॊभितम तत्र देवस तया सार्धं रेमे राजञ जलेश्वरः ॥ 15 ॥

  16. अथाख्यातम उतथ्याय ततः पत्न्य अवमर्दनम ॥ 16 ॥

  17. तच छरुत्वा नारदात सर्वम उतथ्यॊ नारदं तदा परॊवाच गच्छ बरूहि तवं वरुणं परुषं वचः मद्वाक्यान मुञ्च मे भार्यां कस्माद वा हृतवान असि ॥ 17 ॥

  18. लॊकपालॊ ऽसि लॊकानां न लॊकस्य विलॊपकः सॊमेन दत्ता भार्या मे तवया चापहृताद्य वै ॥ 18 ॥

  19. इत्य उक्तॊ वचनात तस्य नारदेन जलेश्वरः मुञ्च भार्याम उतथ्यस्येत्य अथ तं वरुणॊ ऽबरवीत ममैषा सुप्रिया भार्या नैनाम उत्स्रष्टुम उत्सहे ॥ 19 ॥

  20. इत्य उक्तॊ वरुणेनाथ नारदः पराप्य तं मुनिम उतथ्यम अब्रवीद वाक्यं नातिहृष्टमना इव ॥ 20 ॥

  21. गले गृहीत्वा कषिप्तॊ ऽसमि वरुणेन महामुने न परयच्छति ते भार्यां यत ते कार्यं कुरुष्व तत ॥ 21 ॥

  22. नारदस्य वचः शरुत्वा करुद्धः पराज्वलद अङ्गिराः अपिबत तेजसा वारि विष्टभ्य सुमहातपाः ॥ 22 ॥

  23. पीयमाने च सर्वस्मिंस तॊये वै सलिलेश्वरः सुहृद्भिः कषिप्यमाणॊ ऽपि नैवामुञ्चत तां तदा ॥ 23 ॥

  24. ततः करुद्धॊ ऽबरवीद भूमिम उतथ्यॊ बराह्मणॊत्तमः दर्शयस्व सथलं भद्रे षट सहस्रशतह्रदम ॥ 24 ॥

  25. ततस तद इरिणं जातं समुद्रश चापसर्पितः तस्माद देशान नदीं चैव परॊवाचासौ दविजॊत्तमः ॥ 25 ॥

  26. अदृश्या गच्छ भीरु तवं सरस्वति मरुं परति अपुण्य एष भवतु देशस तयक्तस तवया शुभे ॥ 26 ॥

  27. तस्मिन संचूर्णिते देशे भद्राम आदाय वारिपः अददाच छरणं गत्वा भार्याम आङ्गिरसाय वै ॥ 27 ॥

  28. परतिगृह्य तु तां भार्याम उतथ्यः सुमनाभवत मुमॊच च जगद दुःखाद वरुणं चैव हैहय ॥ 28 ॥

  29. ततः स लब्ध्वा तां भार्यां वरुणं पराह धर्मवित उतथ्यः सुमहातेजा यत तच छृणु नराधिप ॥ 29 ॥

  30. मयैषा तपसा पराप्ता करॊशतस ते जलाधिप इत्य उक्त्वा ताम उपादाय सवम एव भवनं ययौ ॥ 30 ॥

  31. एष राजन्न ईदृशॊ वै उतथ्यॊ बराह्मणर्षभः बरवीम्य अहं बरूहि वा तवम उतथ्यात कषत्रियं वरम ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 140

Previous: अध्याय 138