[भ] इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत शृणु मे हैहय शरेष्ठ कर्मात्रेः सुमहात्मनः ॥ 1 ॥
घॊरे तमस्य अयुध्यन्त सहिता देवदानवाः अविध्यत शरैस तत्र सवर भनुः सॊमभास्करौ ॥ 2 ॥
अथ ते तमसा गरस्ता निहन्यन्ते सम दानवैः देवा नृपतिशार्दूल सहैव बलिभिस तदा ॥ 3 ॥
असुरैर वध्यमानास ते कषीणप्राणा दिवौकसः अपश्यन्त तपस्यन्तम अत्रिं विप्रं महावने ॥ 4 ॥
अथैनम अब्रुवन देवाः शान्तक्रॊधं जितेन्द्रियम असुरैर इषुभिर विद्धौ चन्द्रादित्याव इमाव उभौ ॥ 5 ॥
वयं वध्यामहे चापि शत्रुभिस तमसावृते नाधिगच्छाम शान्तिं च भयात तरायस्व नः परभॊ ॥ 6 ॥
कथं रक्षामि भवतस ते ऽबरुवंश चन्द्रमा भव तिमिरघ्नश च सविता दस्युहा चैव नॊ भव ॥ 7 ॥
एवम उक्तस तदात्रिस तु सॊमवत परियदर्शनः अपश्यत सौम्य भावं च सूर्यस्य परतिदर्शनम ॥ 8 ॥
दृष्ट्वा नातिप्रभं सॊमं तथा सूर्यं च पार्थिव परकाशम अकरॊद अत्रिस तपसा सवेन संयुगे ॥ 9 ॥
जगद वितिमिरं चापि परदीप्तम अकरॊत तदा वयजयच छत्रुसंघांश च देवानां सवेन तेजसा ॥ 10 ॥
अत्रिणा दह्यमानांस तान दृष्ट्वा देवा महासुरान पराक्रमैस ते ऽपि तदा वयत्यघ्नन्न अत्रिरक्षिताः ॥ 11 ॥
उद्भासितश च सविता देवास तराता हतासुराः अत्रिणा तव अथ सॊमत्वं कृतम उत्तमतेजसा ॥ 12 ॥
अद्वितीयेन मुनिना जपता चर्म वाससा फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम ॥ 13 ॥
तस्यापि विस्तरेणॊक्तं कर्मात्रेः सुमहात्मनः बरवीम्य अहं बरूहि वा तवम अत्रितः कषत्रियं वरम ॥ 14 ॥
इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत शृणु राजन महत कर्म चयवनस्य महात्मनः ॥ 15 ॥
अश्विनॊः परतिसंश्रुत्य चयवनः पाकशासनम परॊवाच सहितं देवैः सॊमपाव अश्विनौ कुरु ॥ 16 ॥
[इन्द्र] अस्माभिर वर्जिताव एतौ भवेतां सॊमपौ कथम देवैर न संमिताव एतौ तस्मान मैवं वदस्व नः ॥ 17 ॥
अश्विभ्यां सह नेच्छामः पातुं सॊमं महाव्रत पिबन्त्य अन्ये यथाकामं नाहं पातुम इहॊत्सहे ॥ 18 ॥
[चयवन] न चेत करिष्यसि वचॊ मयॊक्तं बलसूदन मया परमथितः सद्यः सॊमं पास्यसि वै मखे ॥ 19 ॥
ततः कर्म समारब्धं हिताय सहसाश्विनॊः चयवनेन ततॊमन्त्रैर अभिभूताः सुराभवन ॥ 20 ॥
तत तु कर्म समारब्धं दृष्ट्वेन्द्रः करॊधमूर्छितः उद्यम्य विपुलं शैलं चयवनं समुपाद्रवत तथा वज्रेण भगवान अमर्षाकुल लॊचनः ॥ 21 ॥
तम आपतन्तं दृष्ट्वैव चयवनस तपसान्वितः अद्भिः सिक्त्वास्तम्भयत तं स वर्जं सह पर्वतम ॥ 22 ॥
अथेन्द्रस्य महाघॊरं सॊ ऽसृजच छत्रुम एव ह मदं मन्त्राहुति मयं वयादितास्यं महामुनिः ॥ 23 ॥
तस्य दन्तसहस्रं तु बभूव शतयॊजनम दवियॊजनशतास तस्य दंष्ट्राः परमदारुणाः हनुस तस्याभवद भूमाव एकश चास्यास्पृशद दिवम ॥ 24 ॥
जिह्वा मूले सथितास तस्य सर्वे देवाः स वासवाः तिमेर आस्यम अनुप्राप्ता यथामत्स्या महार्णवे ॥ 25 ॥
ते संमन्त्र्य ततॊ देवा मदस्यास्य गतास तदा अब्रुवन सहिताः शक्रं परणमास्मै दविजातये अश्विभ्यां सह सॊमं च पिबामॊ विगतज्वराः ॥ 26 ॥
ततः स परणतः शक्रश चकार चयवनस्य तत चयवनः कृतवांस तौ चाप्य अश्विनौ सॊमपीथिनौ ॥ 27 ॥
ततः पर्त्याहरत कर्म मदं च वयभजन मुनिः अक्षेषु मृगयायां च पाने सत्रीषु च वीर्यवान ॥ 28 ॥
एतैर दॊषैर नरॊ राजन कषयं याति न संशयः तस्माद एतान नरॊ नित्यं दूरतः परिवर्जयेत ॥ 29 ॥
एतत ते चयवनस्यापि कर्म राजन परकीर्तितम बरवीम्य अहं बरूहि वा तवं चयवनात कषत्रियं वरम ॥ 30 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 141
Reach this point to mark the section finished.
Continue to अध्याय 142