[य] किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना कथं वै लॊकयात्रां तु किं शीलश च समाचरेत ॥ 1 ॥
[भ] कायेन तरिविधं कर्म वाचा चापि चतुर्विधम मनसा तरिविधं चैव दश कर्म पथांस तयजेत ॥ 2 ॥
पराणातिपातं सतैन्यं च परदानम अथापि च तरीणि पापानि कायेन सर्वतः परिवर्जयेत ॥ 3 ॥
असत परलापं पारुष्यं पैशुन्यम अनृतं तथा चत्वारि वाचा राजेन्द्र न जल्पेन नानुचिन्तयेत ॥ 4 ॥
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम कर्मणां फलम अस्तीति तरिविधं मनसा चरेत ॥ 5 ॥
तस्माद वाक्कायमनसा नाचरेद अशुभं नरः शुभाशुभान्य आचरन हि तस्य तस्याश्नुते फलम ॥ 6 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14