धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 138

  1. [वायु] शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः ॥ 1 ॥

  2. तयक्त्वा महीत्वं भूमिस तु सपर्धयाङ्गनृपस्य ह नाशं जगाम तां विप्रॊ वयष्टम्भयत कश्यपः ॥ 2 ॥

  3. अक्षया बराह्मणा राजन दिवि चेह च नित्यदा अपिबत तेजसा हय आपः सवयम एवाङ्गिराः पुरा ॥ 3 ॥

  4. स ताः पिबन कषीरम इव नातृप्यत महातपाः अपूरयन महौघेन महीं सर्वां च पार्थिव ॥ 4 ॥

  5. तस्मिन्न अहं च करुद्धे वै जगत तयक्त्वा ततॊ गतः वयतिष्ठम अग्निहॊत्रे च चिरम अङ्गिरसॊ भयात ॥ 5 ॥

  6. अभिशप्तश च भगवान गौतमेन पुरंदरः अहल्यां कामयानॊ वै धर्मार्थं च न हिंसितः ॥ 6 ॥

  7. तथा समुद्रॊ नृपते पूर्णॊ मृष्टेन वारिणा बराह्मणैर अभिशप्तः सँल लवणॊदः कृतॊ विभॊ ॥ 7 ॥

  8. सुवर्णवर्णॊ निर्धूमः संहतॊर्ध्व शिखः कविः करुद्धेनाङ्गिरसा शप्तॊ गुणैर एतैर इवर्जितः ॥ 8 ॥

  9. मरुतश चूर्णितान पश्य ये ऽहसन्त महॊदधिम सुवर्णधारिणा नित्यम अवशप्ता दविजातिना ॥ 9 ॥

  10. समॊ न तवं दविजातिभ्यः शरेष्ठं विद्धि नराधिप गर्भस्थान बराह्मणान सम्यङ नमस्यति किल परभुः ॥ 10 ॥

  11. दण्डकानां महद राज्यं बराह्मणेन विनाशितम तालजङ्घं महत कषत्रम और्वेणैकेन नाशितम ॥ 11 ॥

  12. तवया च विपुलं राज्यं बलं धर्मः शरुतं तथा दत्तात्रेय परसादेन पराप्तं परमदुर्लभम ॥ 12 ॥

  13. अग्निं तवं यजसे नित्यं कस्माद अर्जुन बराह्मणम स हि सर्वस्य लॊकस्य हव्यवाट किं न वेत्सि तम ॥ 13 ॥

  14. अथ वा बराह्मणश्रेष्ठम अनु भूतानुपालकम कर्तारं जीवलॊकस्य कस्माज जानन विमुह्यसे ॥ 14 ॥

  15. तथा परजापतिर बरह्मा अव्यक्तः परभवाप्ययः येनेदं निखिलं विश्वं जनितं सथावरं चरम ॥ 15 ॥

  16. अण्ड जातं तु बरह्माणं के चिद इच्छन्त्य अपण्डिताः अण्डाद भिन्नाद बभुः शैला दिशॊ ऽमभः पृथिवी दिवम ॥ 16 ॥

  17. दरष्टव्यं नैतद एवं हि कथं जयायस्तमॊ हि सः समृतम आकाशम अण्डं तु तस्माज जातः पितामहः ॥ 17 ॥

  18. तिष्ठेत कथम इति बरूहि न किं चिद धि तदा भवेत अहं कार इति परॊक्तः सर्वतेजॊ गतः परभुः ॥ 18 ॥

  19. नास्त्य अण्डम अस्ति तु बरह्मा स राजँल लॊकभावनः इत्य उक्तः स तदा तूष्णीम अभूद वायुस तम अब्रवीत ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 139

Previous: अध्याय 137