धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 136

  1. [य] के पूज्याः के नमः कार्याः कथं वर्तेत केषु च किमाचारः कीदृशेषु पितामह न रिष्यते ॥ 1 ॥

  2. [भ] बराह्मणानां परिभवः सादयेद अपि देवताः बराह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ॥ 2 ॥

  3. ते पूज्यास ते नमः कार्या वर्तेथास तेषु पुत्रवत ते हि लॊकान इमान सर्वान धारयन्ति मनीषिणः ॥ 3 ॥

  4. बराह्मणाः सर्वलॊकानां महान्तॊ धर्मसेतवः धनत्यागाभिरामाश च वाक संयमरताश च ये ॥ 4 ॥

  5. रमणीयाश च भूतानां निधानं च धृतव्रताः परणेतारश च लॊकानां शास्त्राणां च यशस्विनः ॥ 5 ॥

  6. तपॊ येषां धनं नित्यं वाक चैव विपुलं बलम परभवश चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 6 ॥

  7. धर्मकामाः सथिता धर्मे सुकृतैर धर्मसेतवः यान उपाश्रित्य जीवन्ति परजाः सर्वाश चतुर्विधाः ॥ 7 ॥

  8. पन्थानः सर्वनेतारॊ यज्ञवाहाः सनातनाः पितृपैतामहीं गुर्वीम उद्वहन्ति धुरं सदा ॥ 8 ॥

  9. धुरि ये नावसीदन्ति विषमे सद गवा इव पितृदेवातिथि मुखा हव्यकव्याग्र भॊजिनः ॥ 9 ॥

  10. भॊजनाद एव ये लॊकांस तरायन्ते महतॊ भयात दीपाः सर्वस्य लॊकस्य चक्षुश चक्षुष्मताम अपि ॥ 10 ॥

  11. सर्वशिल्पादि निधयॊ निपुणाः सूक्ष्मदर्शिनः गतिज्ञाः सर्वभूतानाम अध्यात्मगतिचिन्तकाः ॥ 11 ॥

  12. आदिमध्यावसानानां जञातारश छिन्नसंशयाः परावरविशेषज्ञा गन्तारः परमां गतिम ॥ 12 ॥

  13. विमुक्ता धुत पाप्मानॊ निर्द्वंद्वा निष्परिग्रहाः मानार्हा मानिता नित्यं जञानविद्भिर महात्मभिः ॥ 13 ॥

  14. चन्दने मलपङ्के च भॊजने ऽभॊजने समाः समं येषां दुकूलं च शाण कषौमाजिनानि च ॥ 14 ॥

  15. तिष्ठेयुर अप्य अभुञ्जाना बहूनि दिवसान्य अपि शॊषयेयुश च गात्राणि सवाध्यायैः संयतेन्द्रियाः ॥ 15 ॥

  16. अदैवं दैवतं कुर्युर दैवतं चाप्य अदैवतम लॊकान अन्यान सृजेयुश च लॊकपालांश च कॊपिताः ॥ 16 ॥

  17. अपेयः सागरॊ येषाम अभिशापान महात्मनाम येषां कॊपाग्निर अद्यापि दंडके नॊपशाम्यति ॥ 17 ॥

  18. देवानाम अपि ये देवाः कारणं कारणस्य च परमाणस्य परमाणं च कस तान अभिभवेद बुधः ॥ 18 ॥

  19. येषां वृद्धश च बालश च सर्वः संमानम अर्हति तपॊ विद्या विशेषत तु मानयन्ति परस्परम ॥ 19 ॥

  20. अविद्वान बराह्मणॊ देवः पात्रं वै पावनं महत विद्वान भूयस्तरॊ देवः पूर्णसागर संनिभः ॥ 20 ॥

  21. अविद्वांश चैव विद्वांश च बराह्मणॊ दैवतं महत परणीतश चाप्रणीतश च यथाग्निर दैवतं महत ॥ 21 ॥

  22. शमशाने हय अपि तेजस्वी पावकॊ नैव दुष्यति हविर यज्ञेषु च वहन भूय एवाभिशॊभते ॥ 22 ॥

  23. एवं यद्य अप्य अनिष्टेषु वर्तते सर्वकर्मसु सर्वथा बराह्मणॊ मान्यॊ दैवतं विद्धि तत्परम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 137

Previous: अध्याय 135