धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 135

  1. [व] शरुत्वा धर्मान अशेषेण पावनानि च सर्वशः युधिष्ठिरः शांतनवं पुनर एवाभ्यभाषत ॥ 1 ॥

  2. किम एकं दैवतं लॊके किं वाप्य एकं परायणम सतुवन्तः कं कम अर्चन्तः पराप्नुयुर मानवाः शुभम ॥ 2 ॥

  3. कॊ धर्मः सर्वधर्माणां भवतः परमॊ मतः किं जपन मुच्यते जन्तु जन्म संसारबन्धनात ॥ 3 ॥

  4. [भ] जगत परभुं देवदेवम अनन्तं पुरुषॊत्तमम सतुवन नाम सहस्रेण पुरुषः सततॊत्थितः ॥ 4 ॥

  5. तम एव चार्चयन नित्यं भक्त्या पुरुषम अव्ययम धयायन सतुवन नमस्यंश च यजमानस तम एव च ॥ 5 ॥

  6. अनादि निधनं विष्णुं सर्वलॊकमहेश्वरम लॊकाध्यक्षं सतुवन नित्यं सर्वदुःखातिगॊ भवेत ॥ 6 ॥

  7. बरह्मण्यं सर्वधर्मज्ञं लॊकानां कीर्तिवर्धनम लॊकनाथं महद भूतं सर्वभूतभवॊद्भवम ॥ 7 ॥

  8. एष मे सर्वधर्माणां धर्मॊ ऽधिकतमॊ मतः यद भक्त्या पुण्डरीकाक्षं सतवैर अर्चेन नरः सदा ॥ 8 ॥

  9. परमं यॊ महत तेजः परमं यॊ महत तपः परमं यॊ महद बरह्म परमं यः परायणम ॥ 9 ॥

  10. पवित्राणां पवित्रं यॊ मङ्गलानां च मङ्गलम दैवतं देवतानां च भूतानां यॊ ऽवययः पिता ॥ 10 ॥

  11. यतः सर्वाणि भूतानि भवन्त्य आदि युगागमे यस्मिंश च परलयं यान्ति पुनर एव युगक्षये ॥ 11 ॥

  12. तस्य लॊकप्रधानस्य जगन नाथस्य भूपते विष्णॊर नाम सहस्रं मे शृणु पापभयापहम ॥ 12 ॥

  13. यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 13 ॥

  14. विश्वं विष्णुर वषट्कारॊ भूतभव्य भवत परभुः भूतकृद भूतभृद भावॊ भूतात्मा भूतभावनः ॥ 14 ॥

  15. पूतात्मा परमात्मा च मुक्तानां परमा गतिः अव्ययः पुरुषः साक्षी कषेत्रज्ञॊ ऽकषर एव च ॥ 15 ॥

  16. यॊगॊ यॊगविदां नेता परधानपुरुषेश्वरः नारसिंह वपुः शरीमान केशवः पुरुषॊत्तमः ॥ 16 ॥

  17. सर्वः शर्वः शिवः सथाणुर भूतादिर निधिर अव्ययः संभवॊ भावनॊ भर्ता परभवः परभुर ईश्वरः ॥ 17 ॥

  18. सवयम्भूः संभुर आदित्यः पुष्कराक्षॊ महास्वनः अनादि निधनॊ धाता विधाता धातुर उत्तमः ॥ 18 ॥

  19. अप्रमेयॊ हृषीकेशः पद्मनाभॊ ऽमरप्रभुः विश्वकर्मा मनुस तवष्टा सथविष्ठः सथविरॊ धरुवः ॥ 19 ॥

  20. अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः परतर्दनः परभूतस तरिककुब धाम पवित्रं मङ्गलं परम ॥ 20 ॥

  21. ईशानः पराणदः पराणॊ जयेष्ठः शरेष्ठः परजापतिः हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः ॥ 21 ॥

  22. ईश्वरॊ विक्रमी धन्वी मेधावी विक्रमः करमः अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिर आत्मवान ॥ 22 ॥

  23. सुरेशः शरणं शर्म विश्वरेताः परजा भवः अहः संवत्सरॊ वयालः परत्ययः सर्वदर्शनः ॥ 23 ॥

  24. अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर अच्युतः वृषा कपिर अमेयात्मा सर्वयॊगविनिःसृतः ॥ 24 ॥

  25. वरुर वसु मनाः सत्यः समात्मा संमितः समः अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः ॥ 25 ॥

  26. रुद्रॊ बहु शिरा बभ्रुर विश्वयॊनिः शुचि शरवाः अमृतः शाश्वतः सथाणुर वरारॊहॊ महातपाः ॥ 26 ॥

  27. सर्वगः सर्वविद भानुर विष्वक्सेनॊ जनार्दनः वेदॊ वेदविद अव्यङ्गॊ वेदाङ्गॊ वेदवित कविः ॥ 27 ॥

  28. लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश चतुर्दंष्ट्रश चतुर्भुजः ॥ 28 ॥

  29. भराजिष्णुर भॊजनं भॊक्ता सहिष्णुर जगद आदिजः अनघॊ विजयॊ जेता विश्वयॊनिः पुनर वसुः ॥ 29 ॥

  30. उपेन्द्रॊ वामनः परंशुर अमॊघः शुचिर ऊर्जितः अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः ॥ 30 ॥

  31. वेद्यॊ वैद्यः सदा यॊगी वीरहा माधवॊ मधुः अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः ॥ 31 ॥

  32. महाबुद्धिर महावीर्यॊ महाशक्तिर महाद्युतिः अनिर्देश्य वपु शरीमान अमेयात्मा महाद्रिधृक ॥ 32 ॥

  33. महेष्वासॊ मही भर्ता शरीनिवासः सतां गतिः अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदां पतिः ॥ 33 ॥

  34. मरीचिर दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः हिरण्यनाभः सुतपाः पद्मनाभ परजापतिः ॥ 34 ॥

  35. अमृत्युः सर्वदृक सिंहः संधाता संधिमान सथिरः अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 35 ॥

  36. गुरुर गुरुतमॊ धाम सत्यः सत्यपराक्रमः निमिषॊ ऽनिमिषः सरग्वी वाचस्पतिर उदारधीः ॥ 36 ॥

  37. अग्रणीर गरामणीः शरीमान नयायॊ नेता समीरणः सहस्रमूर्ध विश्वात्मा सहस्राक्षः सहस्रपात ॥ 37 ॥

  38. आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः अहः संवर्तकॊ वह्निर अनिलॊ धरणीधरः ॥ 38 ॥

  39. सुप्रसादः परसन्नात्मा विश्वधृग विश्वभुग विभुः सत्कर्ता सत्कृतः साधुर जह्नुर नारायणॊ नरः ॥ 39 ॥

  40. असंख्येयॊ ऽपरमेयात्मा विशिष्टः शिष्टकृच छुचिः सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ 40 ॥

  41. वृषाही वृषभॊ विष्णुर वृषपर्वा वृषॊदरः वर्धनॊ वर्धमानश च विविक्तः शरुतिसागरः ॥ 41 ॥

  42. सुभुजॊ दुर्धरॊ वाग्मी महेन्द्रॊ वसुदॊ वसुः नैकरूपॊ बृहद रूपः शिपिविष्टः परकाशनः ॥ 42 ॥

  43. ओजस तेजॊ दयुतिधरः परकाशात्मा परतापनः ऋद्धः सपष्टाक्षरॊ मन्त्रश चन्द्रांशुर भास्करद्युतिः ॥ 43 ॥

  44. अमृताश्मूद्भवॊ भानुः शशबिन्दुः सुरेश्वरः औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 44 ॥

  45. भूतभव्य भवन नाथः पवनः पावनॊ ऽनिलः कामहा कामकृत कान्तः कामः कामप्रदः परभुः ॥ 45 ॥

  46. युगादि कृद युगावर्तॊ नैकमायॊ महाशनः अदृश्यॊ वयक्तरूपश च सहस्रजिद अनन्तजित ॥ 46 ॥

  47. इष्टॊ विशिष्टः शिष्टेष्टः शिखण्डी नहुषॊ वृषः करॊधहा करॊधकृत कर्ता विश्वबाहुर महीधरः ॥ 47 ॥

  48. अच्युतः परथितः पराणः पराणदॊ वासवानुजः अपां निधिर अधिष्ठानम अप्रमत्तः परतिष्ठितः ॥ 48 ॥

  49. सकन्दः सकन्द धरॊ धुर्यॊ वरदॊ वायुवाहनः वासुदेवॊ बृहद भानुर आदिदेवः पुरंदरः ॥ 49 ॥

  50. अशॊकस तारणस तारः शूरः शौरिर जनेश्वरः अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 50 ॥

  51. पद्मनाभॊ ऽरविन्दाक्षः पद्मगर्भः शरीरभृत महर्द्धिर ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः ॥ 51 ॥

  52. अतुलः शरभॊ भीमः समयज्ञॊ हविर हरिः सर्वलक्षणलक्षण्यॊ लक्ष्मीवान समितिंजयः ॥ 52 ॥

  53. विक्षरॊ रॊहितॊ मार्गॊ हेतुर दामॊदरः सहः महीधरॊ महाभागॊ वेगवान अमिताशनः ॥ 53 ॥

  54. उद्भवः कषॊभणॊ देवः शरीगर्भः परमेश्वरः करणं कारणं कर्ता विकर्ता गहने गुहः ॥ 54 ॥

  55. वयवसायॊ वयवस्थानः संस्थानः सथानदॊ धरुवः परर्द्धिः परमः सपष्टस तुष्टः पुष्टः शुभेक्षणः ॥ 55 ॥

  56. रामॊ विरामॊ विरतॊ मार्गॊ नेयॊ नयॊ ऽनयः वीरः शक्तिमतां शरेष्ठॊ धर्मॊ धर्मविद उत्तमः ॥ 56 ॥

  57. वैकुण्ठः पुरुषः पराणः पराणदः परणवः पृथुः हिरण्यगर्भः शत्रुघ्नॊ वयाप्तॊ वायुर अधॊक्षजः ॥ 57 ॥

  58. ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः ॥ 58 ॥

  59. विस्तारः सथावरः सथाणुः परमाणं बीजम अव्ययम अर्थॊ ऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः ॥ 59 ॥

  60. अनिर्विण्णः सथविष्ठॊ भूर धर्मयूपॊ महामखः नक्षत्रनेमिर नक्षत्री कषमः कषामः समीहनः ॥ 60 ॥

  61. यज्ञ इज्यॊ महेज्यश च करतुः सत्रं सतां गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ जञानम उत्तमम ॥ 61 ॥

  62. सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत मनॊहरॊ जितक्रॊधॊ वीरबाहुर विदारणः ॥ 62 ॥

  63. सवापनः सववशॊ वयापी नैकात्मा नैककर्मकृत वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनेश्वरः ॥ 63 ॥

  64. धर्मगुब धर्मकृद धर्मी सद असत कषरम अक्षरम अविज्ञाता सहस्रांशुर विधाता कृतलक्षणः ॥ 64 ॥

  65. गभस्तिनेमिः सत्त्वस्थः सिंहॊ भूतमहेश्वरः आदिदेवॊ महादेवॊ देवेशॊ देवभृद गुरुः ॥ 65 ॥

  66. उत्तरॊ गॊपतिर गॊप्ता जञानगम्यः पुरातनः शरीरभूतभृद भॊक्ता कपीन्द्रॊ भूरिदक्षिणः ॥ 66 ॥

  67. सॊमपॊ ऽमृतपः सॊमः पुरुजित पुरु सत्तमः विनयॊ जयः सत्यसंधॊ दाशार्हः सात्वतां पतिः ॥ 67 ॥

  68. जीवॊ विनयिता साक्षी मुकुन्दॊ ऽमितविक्रमः अम्भॊनिधिर अनन्तात्मा महॊदधि शयॊ ऽनतकः ॥ 68 ॥

  69. अजॊ महार्हः सवाभाव्यॊ जितामित्रः परमॊदनः आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा तरिविक्रमः ॥ 69 ॥

  70. महर्षिः कपिलाचार्यः कृतज्ञॊ मेदिनी पतिः तरिपदस तरिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत ॥ 70 ॥

  71. महावराहॊ गॊविन्दः सुषेणः कनकाङ्गदी गुह्यॊ गभीरॊ गहनॊ गुप्तश चक्रगदाधरः ॥ 71 ॥

  72. वेधाः सवाङ्गॊ ऽजितः कृष्णॊ दृढः संकर्षणॊ ऽचयुतः वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः ॥ 72 ॥

  73. भगवान भगहा नन्दी वनमाली हलायुधः आदित्यॊ जयॊतिर आदित्यः सहिष्णुर गतिसत्तमः ॥ 73 ॥

  74. सुधन्वा खण्ड परशुर दारुणॊ दरविण परदः दिवः सपृक सर्वदृग वयासॊ वाचस्पतिर अयॊनिजः ॥ 74 ॥

  75. तरिसामा सामगः साम निर्वाणं भेषजं भिषक संन्यासकृच छमः शान्तॊ निष्ठा शान्तिः परायणम ॥ 75 ॥

  76. शुभाङ्गः शान्तिदः सरष्टा कुमुदः कुवले शयः गॊहितॊ गॊपतिर गॊप्ता वृषभाक्षॊ वृषप्रियः ॥ 76 ॥

  77. अनिवर्ती निवृत्तात्मा संक्षेप्ता कषेमकृच छिवः शरीवत्स वक्षाः शरीवासः शरीपतिः शरीमतां वरः ॥ 77 ॥

  78. शरीदः शरीशः शरीनिवासः शरीनिधिः शरीविभावनः शरीधरः शरीकरः शरेयः शरीमाँल लॊकत्रयाश्रयः ॥ 78 ॥

  79. सवक्षः सवङ्गः शतानन्दॊ नन्दिर जयॊतिर गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश छिन्नसंशयः ॥ 79 ॥

  80. उदीर्णः सर्वतश चक्षुर अनीशः शाश्वतः सथिरः भूशयॊ भूषणॊ भूतिर विशॊकः शॊकनाशनः ॥ 80 ॥

  81. अर्चिष्मान अर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः अनिरुद्धॊ ऽपरतिरथः परद्युम्नॊ ऽमितविक्रमः ॥ 81 ॥

  82. कालनेमि निहा वीरः शूरः शौरिर जनेश्वरः तरिलॊकात्मा तरिलॊकेशः केशवः केशिहा हरिः ॥ 82 ॥

  83. कामदेवः कामपालः कामी कान्तः कृतागमः अनिर्देश्य वपुर विष्णुर वीरॊ ऽनन्तॊ धनंजयः ॥ 83 ॥

  84. बरह्मण्यॊ बरह्मकृद बरह्मा बरह्म बरह्म विवर्धनः बरह्मविद बराह्मणॊ बराह्मी बरह्मज्ञॊ बराह्मण परियः ॥ 84 ॥

  85. महाक्रमॊ महाकर्मा महातेजा महॊरगः महाक्रतुर महायज्ञ्वा महायज्ञॊ महाहविः ॥ 85 ॥

  86. सतव्यः सतवप्रियः सतॊत्रं सतुतिः सतॊता रणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर अनामयः ॥ 86 ॥

  87. मनॊजवस तीर्थकरॊ वसु रेता वसु परदः वसु परदॊ वासुदेवॊ वसुर वसु मना हविः ॥ 87 ॥

  88. सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत परायणः शूरसेनॊ यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 88 ॥

  89. भूतावासॊ वासुदेवॊ सर्वासु निलयॊ ऽनलः दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊ ऽथापराजितः ॥ 89 ॥

  90. विश्वमूर्तिर महामूर्तिर दीप्तमूर्तिर अमूर्तिमान अनेकमूर्तिर अव्यक्तः शतमूर्तिः शताननः ॥ 90 ॥

  91. एकॊ नैकः सवः कः किं यत तत पदम अनुत्तमम लॊकबन्धुर लॊकनाथॊ माधवॊ भक्त वत्सलः ॥ 91 ॥

  92. सुवर्णवर्णॊ हेमाङ्गॊ वराङ्गश चन्दनाङ्गदी वीरहा विषमः शूण्यॊ घृताशीर अचलश चलः ॥ 92 ॥

  93. अमानी मानदॊ मान्यॊ लॊकस्वामी तरिलॊकधृक सुमेधा मेधजॊ धन्यः सत्यमेधा धराधरः ॥ 93 ॥

  94. तेजॊ वृषॊ दयुतिधरः सर्वशस्त्रभृतां वरः परग्रहॊ निग्रहॊ ऽवयग्रॊ नैकशृङ्गॊ गदाग्रजः ॥ 94 ॥

  95. चतुर्मूर्तिश चतुर्बाहुश चतुर्व्यूहश चतुर्गतिः चतुरात्मा चतुर्भावश चतुर्वेदविद एकपात ॥ 95 ॥

  96. समावर्तॊ निवृत्तात्मा दुर्जयॊ दुरतिक्रमः दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा ॥ 96 ॥

  97. शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 97 ॥

  98. उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज जयी ॥ 98 ॥

  99. सुवर्णबिन्दुर अक्षॊभ्यः सर्ववाग ईश्वरेश्वरः महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः ॥ 99 ॥

  100. कुमुदः कुंदरः कुन्दः पर्जन्यः पवनॊ ऽनिलः अमृतांशॊ ऽमृतवपुः सर्वज्ञः सर्वतॊ मुखः ॥ 100 ॥

  101. सुलभः सुव्रतः सिद्धः शत्रुजीच छत्रुतापनः नयग्रॊधॊदुम्बरॊ ऽशवत्थश चाणूरान्ध्र निषूदनः ॥ 101 ॥

  102. सहस्रार्चिः सप्त जिह्वः सप्तैधाः सप्त वाहनः अमूर्तिर अनघॊ ऽचिन्त्यॊ भयकृद भयनाशनः ॥ 102 ॥

  103. अणुर बृहत कृशः सथूलॊ गुणभृन निर्गुणॊ महान अधृतः सवधृतः सवास्यः पराग्वंशॊ वंशवर्धनः ॥ 103 ॥

  104. भारभृत कथितॊ यॊगी यॊगीशः सर्वकामदः आश्रमः शरमणः कषामः सुपर्णॊ वायुवाहनः ॥ 104 ॥

  105. धनुर्धरॊ धनुर्वेदॊ दण्डॊ दमयिता दमः अपराजितः सर्वसहॊ नियन्ता नियमॊ यमः ॥ 105 ॥

  106. सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः अभिप्रायः परियार्हॊ ऽरहः परियकृत परीतिवर्धनः ॥ 106 ॥

  107. विहायस गतिर जयॊतिः सुरुचिर हुतभुग विभुः रविर विरॊचनः सूर्यः सविता रविलॊचनः ॥ 107 ॥

  108. अनन्तॊ हुतभुग भॊक्ता सुखदॊ नैकदॊ ऽगरजः अनिर्विण्णः सदामर्षी लॊकाधिष्ठानम अद्भुतम ॥ 108 ॥

  109. सनात सनातन तमः कपिलः कपिर अव्ययः सवस्तिदः सवस्तिकृत सवस्ति सवस्तिभुक सवस्ति दक्षिणः ॥ 109 ॥

  110. अरौद्रः कुण्डली चक्री विक्रम्य ऊर्जितशासनः शब्दातिगः शब्दसहः शिशिरः शर्वरी करः ॥ 110 ॥

  111. अक्रूरः पेशलॊ दक्षॊ दक्षिणः कषमिणां वरः विद्वत्तमॊ वीतभयः पुण्यश्रवण कीर्तनः ॥ 111 ॥

  112. उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः ॥ 112 ॥

  113. अनन्तरूपॊ ऽनन्त शरीर जितमन्युर भयापहः चतुरस्रॊ गभीरात्मा विदिशॊ वयादिशॊ दिशः ॥ 113 ॥

  114. अनादिर भूर भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः जननॊ जनजन्मादिर भीमॊ भीमपराक्रमः ॥ 114 ॥

  115. आधार निलयॊ धाता पुष्पहासः परजागरः ऊर्ध्वगः सत्पथाचारः पराणदः परणवः पणः ॥ 115 ॥

  116. परमाणं पराणनिलयः पराणकृत पराणजीवनः तत्त्वं तत्त्वविद एकात्मा जन्ममृत्युजरातिगः ॥ 116 ॥

  117. भूर भुवः सवस्तरुस तारः सविता परपितामहः यज्ञॊ यज्ञपतिर यज्वा यज्ञाङ्गॊ यज्ञवाहनः ॥ 117 ॥

  118. यज्ञभृद यज्ञकृद यज्ञी यज्ञभुग यज्ञसाधनः यज्ञान्त कृद यज्ञगुह्यम अन्नम अन्नाद एव च ॥ 118 ॥

  119. आत्मयॊनिः सवयं जातॊ वैखानः साम गायनः देवकीनन्दनः सरष्टा कषितीशः पापनाशनः ॥ 119 ॥

  120. शङ्खभृन नन्दकी चक्री शार्ङ्गधन्वा गदाधरः रथाङ्गपाणिर अक्षॊभ्यः सर्वप्रहरणायुधः ॥ 120 ॥

  121. इतीदं कीर्तनीयस्य केशवस्य महात्मनः नाम्नां सहस्रं दिव्यानाम अशेषेण परकीर्तितम ॥ 121 ॥

  122. य इदं शृणुयान नित्यं यश चापि परिकीर्तयेत नाशुभं पराप्नुयात किं चित सॊ ऽमुत्रेह च मानवः ॥ 122 ॥

  123. वेदान्तगॊ बराह्मणः सयात कषत्रियॊ विजयी भवेत वैश्यॊ धनसमृद्धः सयाच छूद्रः सुखम अवाप्नुयात ॥ 123 ॥

  124. धर्मार्थी पराप्नुयाद धर्मम अर्थार्थी चार्थम आप्नुयात कामान अवाप्नुयात कामी परजार्थी चाप्नुयात परजाः ॥ 124 ॥

  125. भक्तिमान यः सदॊत्थाय शुचिस तद्गतमानसः सहस्रं वासुदेवस्य नाम्नाम एतत परकीर्तयेत ॥ 125 ॥

  126. यशः पराप्नॊति विपुलं जञातिप्राधान्यम एव च अचलां शरियम आप्नॊति शरेयश चाप्नॊत्य अनुत्तमम ॥ 126 ॥

  127. न भयं कव चिद आप्नॊति वीर्यं तेजश च विन्दति भवत्य अरॊगॊ दयुतिमान बलरूपगुणान्वितः ॥ 127 ॥

  128. रॊगार्तॊ मुच्यते रॊगाद बद्धॊमुच्येत बन्धनात भयन मुच्येत भीतश च मुच्येतापन्न आपदः ॥ 128 ॥

  129. दुर्गाण्य अतितरत्य आशु पुरुषः पुरुषॊत्तमम सतुवन नाम सहस्रेण नित्यं भक्तिसमन्वितः ॥ 129 ॥

  130. वासुदेवाश्रयॊ मर्त्यॊ वासुदेव परायणः सर्वपापविशुद्धात्मा याति बरह्म सनातनम ॥ 130 ॥

  131. न वासुदेव भक्तानाम अशुभं विद्यते कव चित जन्ममृत्युजराव्याधिभयं वाप्य उपजायते ॥ 131 ॥

  132. इमं सतवम अधीयानः शरद्धा भक्तिसमन्वितः युज्येतात्म सुखक्षान्ति शरीधृतिस्मृतिकीर्तिभिः ॥ 132 ॥

  133. न करॊधॊ न च मात्सर्यं न लॊभॊ नाशुभा मतिः भवन्ति कृतपुण्यानां भक्तानां पुरुषॊत्तमे ॥ 133 ॥

  134. दयौः स चन्द्रार्कनक्षत्रा खं दिशॊ भूर महॊदधिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 134 ॥

  135. स सुरासुरगन्धर्वं स यक्षॊरग राक्षसम जगद वशे वर्ततेदं कृष्णस्य स चराचरम ॥ 135 ॥

  136. इन्द्रियाणि मनॊ बुद्धिः सत्त्वं तेजॊबलं धृतिः वासुदेवात्मकान्य आहुः कषेत्रं कषेत्रज्ञ एव च ॥ 136 ॥

  137. सर्वागमानाम आचारः परथमं परिकल्प्यते आचार परभवॊ धर्मॊ धर्मस्य परभुर अच्युतः ॥ 137 ॥

  138. ऋषयः पितरॊ देवमहाभूतानि धातवः जङ्गमाजङ्गमं चेदं जगन नारायणॊद्भवम ॥ 138 ॥

  139. यॊगॊ जञानं तथा संख्यं विद्याः शिल्पानि कर्म च वेदाः शास्त्राणि विज्ञानम एतत सर्वं जनार्दनात ॥ 139 ॥

  140. एकॊ विष्णुर महद भूतं पृथग भूतान्य अनेकशः तरीँल लॊकान वयाप्य भूतात्मा भुङ्क्ते विश्वभुग अव्ययः ॥ 140 ॥

  141. इमं सतवं भगवतॊ विष्णॊर वयासेन कीर्तितम पठेद य इच्छेत पुरुषः शरेयः पराप्तुं सुखानि च ॥ 141 ॥

  142. विश्वेश्वरम अजं देवं जगतः परभवाप्ययम भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम ॥ 142 ॥

Reach this point to mark the section finished.

Continue to अध्याय 136

Previous: अध्याय 134