धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 133

  1. [उ] किं शीलाः किं समाचाराः पुरुषाः कैश च कर्मभिः सवर्गं समभिपद्यन्ते संप्रदानेन केन वा ॥ 1 ॥

  2. [म] दाता बराह्मण सत्कर्ता दीनान्ध कृपणादिषु भक्ष्यभॊज्यान्न पानानां वाससां च परदायकः ॥ 2 ॥

  3. परतिश्रयान सभाः कूपान परपाः पुष्करिणीस तथा नैत्यकानि च सर्वाणि किम इच्छकम अतीव च ॥ 3 ॥

  4. आसनं शयनं यानं धनं रत्नं गृहांस तथा सस्यजातानि सर्वाणि गाः कषेत्राण्य अथ यॊषितः ॥ 4 ॥

  5. सुप्रतीतमना नित्यं यः परयच्छति मानवः एवं भूतॊ मृतॊ देवि देवलॊके ऽभिजायते ॥ 5 ॥

  6. तत्रॊष्य सुचिरं कालं भुक्त्वा भॊगान अनुत्तमान सहाप्सरॊभिर मुदितॊ रमित्वा नन्दनादिषु ॥ 6 ॥

  7. तस्मात सवर्गाच चयुतॊ लॊकान मानुषेषूपजायते महाभॊगे कुले देवि धनधान्य समाचिते ॥ 7 ॥

  8. तत्र कामगुणैः सर्वैः समुपेतॊ मुदा युतः महाभॊगॊ महाकॊशॊ धनी भवति मानवः ॥ 8 ॥

  9. एते देवि महाभॊगाः पराणिनॊ दानशीलिनः बरह्मणा वै पुरा परॊक्ताः सर्वस्य परियदर्शनाः ॥ 9 ॥

  10. अपरे मानवा देवि परदानकृपणा दविजैः याचिता न परयच्छन्ति विद्यमाने ऽपय अबुद्धयः ॥ 10 ॥

  11. दीनान्ध कृपणान दृष्ट्वा भिक्षुकान अतिथीन अपि याच्यमाना निवर्तन्ते जिह्वा लॊभसमन्विताः ॥ 11 ॥

  12. न धनानि न वासांसि न भॊगान न च काञ्चनम न गावॊ नान्न विकृतिं परयच्छन्ति कदा चन ॥ 12 ॥

  13. अप्रवृत्तास तु ये लुब्धा नास्तिका दानवर्जिताः एवं भूता नरा देवि निरयं यान्त्य अबुद्धयः ॥ 13 ॥

  14. ते चेन मनुष्यतां यान्ति यदा कालस्य पर्ययात धनरिक्ते कुले जन्म लभन्ते सवल्प बुद्धयः ॥ 14 ॥

  15. कषुत्पिपासापरीताश च सर्वभॊग बहिष्कृताः निराशाः सर्वभॊगेभ्यॊ जीवन्त्य अधम जीविकाम ॥ 15 ॥

  16. अल्पभॊग कुले जाता अल्पभॊग रता नराः अनेन कर्मणा देवि भवन्त्य अधनिनॊ नराः ॥ 16 ॥

  17. अपरे सतम्भितॊ नित्यं मानिनः पापतॊ रताः आसनार्हस्य ये पीठं न परयच्छन्त्य अचेतसः ॥ 17 ॥

  18. मार्हार्हस्य च ये मार्गं न यच्छन्त्य अल्पबुद्धयः पाद्यार्हस्य च ये पाद्यं न ददत्य अल्पबुद्धयः ॥ 18 ॥

  19. अर्घार्हान न च सत्कारैर अर्चयन्ति यथाविधि अर्घ्यम आचमनीयं वा न यच्छन्त्य अल्पबुद्धयः ॥ 19 ॥

  20. गुरुं चाभिगतं परेम्णा गुरुवन न बुभूषते अभिमान परवृत्तेन लॊभेन समवस्थिताः ॥ 20 ॥

  21. संमान्यांश चावमन्यन्ते वृद्धान परिभवन्ति च एवंविधा नरा देवि सर्वे निरयगामिनः ॥ 21 ॥

  22. ते वै यदि नरास तस्मान निरयाद उत्तरन्ति वै वर्षपूगैस ततॊ जन्म लभन्ते कुत्सिते कुले ॥ 22 ॥

  23. शवपाकपुल्कसादीनां कुत्सितानाम अचेतसाम कुलेषु तेषु जायन्ते गुरु वृद्धापचायिनः ॥ 23 ॥

  24. न सतम्भी नच मानी यॊ देवता दविज पूजकः लॊकपूज्यॊ नमस्कर्ता परश्रितॊ मधुरं वदन ॥ 24 ॥

  25. सर्ववर्णप्रिय करः सर्वभूतहितः सदा अद्वेषी सुमुखः शलक्ष्णः सनिग्धवाणी परदः सदा ॥ 25 ॥

  26. सवागतेनैव सर्वेषां भूतानाम अविहिंसकः यथार्ह सत्क्रिया पूर्वम अर्चयन्न उपतिष्ठति ॥ 26 ॥

  27. मार्गार्हाय ददन मार्गं गुरुं गुरुवद अर्चयन अतिथिप्रग्रह रतस तथाभ्यागत पूजकः ॥ 27 ॥

  28. एवं भूतॊ नरॊ देवि सवर्गतिं परतिपद्यते ततॊ मानुषतां पराप्य विशिष्ट कुलजॊ भवेत ॥ 28 ॥

  29. तत्रासौ विपुलैर भॊगैः सर्वरत्नसमायुतः यथार्ह दाता चार्हेषु धर्मचर्या परॊ भवेत ॥ 29 ॥

  30. संमतः सर्वभूतानां सर्वलॊकनमस्कृतः सवकर्मफलम आप्नॊति सवयम एव नरः सदा ॥ 30 ॥

  31. उदात्त कुलजातीय उदात्ताभिजनः सदा एष धर्मॊ मया परॊक्तॊ विधात्रा सवयम ईरितः ॥ 31 ॥

  32. यस तु रौद्रसमाचारः सर्वसत्त्वभयंकरः हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ 32 ॥

  33. लॊष्टैः सतम्भैर उपायैर वा जन्तून बाधति शॊभने हिंसार्थं निकृतिप्रज्ञः परॊद्वेजयति चैव ह ॥ 33 ॥

  34. उपक्रामति जन्तूंश च उद्वेग जननः सदा एवं शीलसमाचारॊ निरयं परतिपद्यते ॥ 34 ॥

  35. स चेन मानुषतां गच्छेद यदि कालस्य पर्ययात बह्व आबाध परिक्लिष्टे सॊ ऽधमे जायते कुले ॥ 35 ॥

  36. लॊकद्वेष्यॊ ऽधमः पुंसां सवयं कर्मकृतैः फलैः एष देवि मनुष्येषु बॊद्धव्यॊ जञातिबन्धुषु ॥ 36 ॥

  37. अपरः सर्वभूतानि दयावान अनुपश्यति मैत्र दृष्टिः पितृसमॊ निर्वैरॊ नियतेन्द्रियः ॥ 37 ॥

  38. नॊद्वेजयति भूतानि न विहिंसयते तथा हस्तपादैः सुनियतैर विश्वास्यः सर्वजन्तुषु ॥ 38 ॥

  39. न रज्ज्वा न च दण्डेन न लॊष्टैर नायुधेन च उद्वेजयति भूतानि शलक्ष्णकर्मा दयापरः ॥ 39 ॥

  40. एवं शीलसमाचारः सवर्गे समुपजायते तत्रासौ भवने दिव्ये मुदा वसति देववत ॥ 40 ॥

  41. स चेत कर्म कषयान मर्त्यॊ मनुष्येषूपजायते अल्पाबाधॊ निरीतीकः स जातः सुखम एधते ॥ 41 ॥

  42. सुखभागी निरायासॊ निरुद्वेगः सदा नरः एष देवि सतां मार्गॊ बाधा यत्र न विद्यते ॥ 42 ॥

  43. इमे मनुष्या दृश्यन्ते ऊहापॊह विशारदाः जञानविज्ञानसंपन्नाः परज्ञावन्तॊ ऽरथकॊविदाः दुष्प्रज्ञाश चापरे देव जञानविज्ञानवर्जिताः ॥ 43 ॥

  44. केन कर्म विपाकेन परज्ञावान पुरुषॊ भवेत अल्पप्रज्ञॊ विरूपाक्षकथं भवति मानवः एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥ 44 ॥

  45. जात्यन्धाश चापरे देव रॊगार्ताश चापरे तथा नराः कलीबाश च दृश्यन्ते कारणं बरूहि तत्र वै ॥ 45 ॥

  46. [म] बराह्मणान वेदविदुषः सिद्धान धर्मविदस तथा परिपृच्छन्त्य अहर अहः कुशलाकुशलं तथा ॥ 46 ॥

  47. वर्जयन्त्य अशुभं कर्म सेवमानाः शुभं तथा लभन्ते सवर्गतिं नित्यम इह लॊके सुखं तथा ॥ 47 ॥

  48. स चेन मानुषतां याति मेधावी तत्र जायते शरुतं परज्ञानुगं चास्य कल्याणम उपजायते ॥ 48 ॥

  49. परदारेषु ये मूढाश चक्षुर दुष्टं परयुञ्जते तेन दुष्टस्वभावेन जात्यन्धास ते भवन्ति ह ॥ 49 ॥

  50. मनसा तु परदुष्टेन नग्नां पश्यन्ति ये सत्रियम रॊगार्तास ते भवन्तीह नरा दुष्कृतकर्मिणः ॥ 50 ॥

  51. ये तु मूढा दुराचारा वियॊनौ मैथुने रताः पुरुषेषु सुदुष्प्रज्ञाः कलीबत्वम उपयान्ति ते ॥ 51 ॥

  52. पशूंश च ये बन्धयन्ति ये चैव गुरुतल्पगाः परकीर्णमैथुना ये च कलीबा जायन्ति ते नराः ॥ 52 ॥

  53. [उ] सावद्यं किं नु वै कर्म निरवद्य तथैव च शरेयः कुर्वन्न अवाप्नॊति मानवॊ देव सत्तम ॥ 53 ॥

  54. [म] शरेयांसं मार्गम आतिष्ठन सदा यः पृच्छते दविजान धर्मान्वेषी गुणाकाङ्क्षी सस्वर्गं समुपाश्नुते ॥ 54 ॥

  55. यदि मानुषतां देवि कदा चित स निगच्छति मेधावी धारणा युक्तः पराज्ञस तत्राभिजायते ॥ 55 ॥

  56. एष देवि सतां धर्मॊ मन्तव्यॊ भूतिकारकः नृणां हितार्थाय तव मया वै समुदाहृतः ॥ 56 ॥

  57. [उ] अपरे सवल्पविज्ञाना धर्मविद्वेषिणॊ नराः बराह्मणान वेदविदुषॊ नेच्छन्ति परिसर्पितुम ॥ 57 ॥

  58. वरतवन्तॊ नराः के चिच छरद्धा दमपरायणाः अव्रता भरष्टनियमास तथान्ये राक्षसॊपमाः ॥ 58 ॥

  59. यज्वानश च तथैवान्ये निर्हॊमाश च तथापरे केन कर्म विपाकेन भवन्तीह वदस्व मे ॥ 59 ॥

  60. [म] आगमाल लॊकधर्माणां मर्यादाः पूर्वनिर्मिताः परामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ॥ 60 ॥

  61. अधर्मं धर्मम इत्य आहुर ये च मॊहवशं गताः अव्रता नष्टमर्यादास ते परॊक्ता बरह्मराक्षसाः ॥ 61 ॥

  62. ते चेत कालकृतॊद्यॊगात संभवन्तीह मानुषाः निर्हॊमा निर्वषट्कारास ते भवन्ति नराधमाः ॥ 62 ॥

  63. एष देवि मया सर्वः संशयच छेदनाय ते कुशलाकुशलॊ नॄणां वयाख्यातॊ धर्मसागरः ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 134

Previous: अध्याय 132