धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 132

  1. [उ] भगवन सर्वभूतेश सुरासुरनसं कृत धर्माधर्मे नृणां देव बरूहि मे संशयं विभॊ ॥ 1 ॥

  2. कर्मणा मनसा वाचा तरिविधं हि नरः सदा बध्यते बन्धनैः पाशैर मुच्यते ऽपय अथ वा पुनः ॥ 2 ॥

  3. केन शीलेन वा देवकर्मणा कीदृशेन वा समाचारैर गुणैर वाक्यैः सवर्गं यान्तीह मानवाः ॥ 3 ॥

  4. [म] देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते सर्वप्राणि हितः शरश्नः शरूयतां बुद्धिवर्धनः ॥ 4 ॥

  5. सत्यधर्मरताः सन्तः सर्वलिप्सा विवर्जिताः नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ 5 ॥

  6. परलयॊत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥ 6 ॥

  7. कर्मणा मनसा वाचा ये न हिंसन्ति किं चन ये न सज्जन्ति कस्मिंश चिद बध्यन्ते ते न कर्मभिः ॥ 7 ॥

  8. पराणातिपाताद विरताः शीलवन्तॊ दयान्विताः तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ 8 ॥

  9. सर्वभूतदयावन्तॊ विश्वास्याः सर्वजन्तुषु तयक्तहिंसा समाचारास ते नराः सवर्गगामिनः ॥ 9 ॥

  10. परस्वे निर्ममा नित्यं परदारविवर्जकाः धर्मलब्धार्थ भॊक्तारस ते नराः सवर्गगामिनः ॥ 10 ॥

  11. मातृवत सवसृवच चैव नित्यं दुहितृवच च ये परदारेषु वर्तन्ते ते नराः सवर्गगामिनः ॥ 11 ॥

  12. सतैन्यान निवृत्ताः सततं संतुष्टाः सवधनेन च सवभाग्यान्य उपजीवन्ति ते नराः सवर्गगामिनः ॥ 12 ॥

  13. सवदारनिरता ये च ऋतुकालाभिगामिनः अग्राम्यसुखभॊगाश च ते नराः सवर्गगामिनः ॥ 13 ॥

  14. परदारेषु ये नित्यं चारित्रावृत लॊचनाः यतेन्द्रियाः शीलपरास ते नराः सवर्गगामिनः ॥ 14 ॥

  15. एष देवकृतॊ मार्गः सेवितव्यः सदा नरैः अकषाय कृतश चैव मार्गः सेव्यः सदा बुधैः ॥ 15 ॥

  16. दानधर्मतपॊ युक्तः शीलशौचदयात्मकः वृत्त्यर्थं धर्महेतॊर वा सेवितव्यः सदा नरैः सवर्गवासम अभीप्सद्भिर न सेव्यस तव अत उत्तरः ॥ 16 ॥

  17. [उ] वाचाथ बध्यते येन मुच्यते ऽपय अथ वा पुनः तानि कर्माणि मे देव वद भूतपते ऽनघ ॥ 17 ॥

  18. [म] आत्महेतॊः परार्थे वा नर्म हास्याश्रयात तथा ये मृषा न वदन्तीह ते नराः सवर्गगामिनः ॥ 18 ॥

  19. वृत्त्यर्थं धर्महेतॊर वा कामकारात तथैव च अनृतं ये न भाषन्ते ते नराः सवर्गगामिनः ॥ 19 ॥

  20. शलक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम सवागतेनाभिभाषन्ते ते नराः सवर्गगामिनः ॥ 20 ॥

  21. कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम अपैशुन्य रताः सन्तस ते नराः सवर्गगामिनः ॥ 21 ॥

  22. पिशुनां ये न भाषन्ते मित्र भेदकरीं गिरम ऋतां मैत्रीं परभाषन्ते ते नराः सवर्गगामिनः ॥ 22 ॥

  23. वर्जयन्ति सदा सूच्यः परद्रॊहं च मानवाः सर्वभूतसमा दान्तास ते नराः सवर्गगामिनः ॥ 23 ॥

  24. शठप्रलापाद विरता विरुद्ध परिवर्जकाः सौम्य परलापिनॊ नित्यं ते नराः सवर्गगामिनः ॥ 24 ॥

  25. न कॊपाद वयाहरन्ते ये वाचं हृदयदारणीम सान्त्वं वदन्ति करुद्धापि ते नराः सवर्गगामिनः ॥ 25 ॥

  26. एष वाणी कृतॊ देवि धर्मः सेव्यः सदा नरैः शुभः सत्यगुणॊ नित्यं वर्जनीया मृषा बुधैः ॥ 26 ॥

  27. [उ] मनसा बध्यते येन कर्मणा पुरुषः सदा तन मे बरूहि महाभाग देवदेव पिनाक धृक ॥ 27 ॥

  28. [म] मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा सवर्गं गच्छन्ति कल्याणि तन मे कीर्तयतः शृणु ॥ 28 ॥

  29. दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः बध्यते मानवॊ येन शृणु चान्यच छुभानने ॥ 29 ॥

  30. अरण्ये विजने नयस्तं परस्वं वीक्ष्य ये नराः मनसापि न हिंसन्ति ते नराः सवर्गगामिनः ॥ 30 ॥

  31. गरामे गृहे वा यद दरव्यं पारक्यं विजने सथितम नाभिनन्दन्ति वै नित्यं ते नराः सवर्गगामिनः ॥ 31 ॥

  32. तथैव परदारान ये कामवृत्तान रहॊगतान मनसापि न हिंसन्ति ते नराः सवर्गगामिनः ॥ 32 ॥

  33. शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः भजन्ति मैत्राः संगम्य ते नराः सवर्गगामिनः ॥ 33 ॥

  34. शरुतवन्तॊ दयावन्तः शुचयः सत्यसंगराः सवैर अर्थैः परिसंतुष्टास ते नराः सवर्गगामिनः ॥ 34 ॥

  35. अवैरा ये तव अनायासा मैत्र चित्तपराः सदा सर्वभूतदयावन्तस ते नराः सवर्गगामिनः ॥ 35 ॥

  36. शरद्धावन्तॊ दयावन्तश चॊक्षाश चॊक्ष जनप्रियाः धर्माधर्मविदॊ नित्यं ते नराः सवर्गगामिनः ॥ 36 ॥

  37. शुभानाम अशुभानां च कर्मणां फलसंचये विपाकज्ञाश च ये देवि ते नराः सवर्गगामिनः ॥ 37 ॥

  38. नयायॊपेता गुणॊपेता देवद्विज पराः सदा समतां समनुप्राप्तास ते नराः सवर्गगामिनः ॥ 38 ॥

  39. शुभैः कर्मफलैर देवि मयैते परिकीर्तिताः सवर्गमार्गॊपगा भूयः किम अन्यच छरॊतुम इच्छसि ॥ 39 ॥

  40. [उ] महान मे संशयः कश चिन मर्त्यान परति महेश्वर तस्मात तं नैपुणेनाद्य ममाख्यातुं तवम अर्हसि ॥ 40 ॥

  41. केनायुर लभते दीर्घं कर्मणा पुरुषः परभॊ तपसा वापि देवेश केनायुर लभते महत ॥ 41 ॥

  42. कषीणायुः केन भवति कर्मणा भुवि मानवः विपाकं कर्मणां देव वक्तुम अर्हस्य अनिन्दित ॥ 42 ॥

  43. अपरे च महाभॊगा मन भॊगास तथापरे अकुलीनास तथा चान्ये कुलीनाश च तथापरे ॥ 43 ॥

  44. दुर्दर्शाः के चिद आभान्ति नराः काष्ठमया इव परिय दर्शास तथा चान्ये दर्शनाद एव मानवाः ॥ 44 ॥

  45. दुष्प्रज्ञाः के चिद आभान्ति के चिद आभान्ति पण्डिताः महाप्रज्ञास तथैवान्ये जञानविज्ञानदर्शिनः ॥ 45 ॥

  46. अल्पाबाधास तथा के चिन महाबाधास तथापरे दृश्यन्ते पुरुषा देव तन मे शंसितुम अर्हसि ॥ 46 ॥

  47. [म] हन्त ते ऽहं परवक्ष्यामि देवि कर्मफलॊदयम मर्त्यलॊके नराः सर्वे येन सवं भुञ्जते फलम ॥ 47 ॥

  48. पराणातिपाती यॊ रौद्रॊ दण्डहस्तॊद्यतस तथा नित्यम उद्यतदण्डश च हन्ति भूतगणान नरः ॥ 48 ॥

  49. निर्दयः सर्वभूतानां नित्यम उद्वेग कारकः अपि कीट पिपीलानाम अशरण्यः सुनिर्घृणः ॥ 49 ॥

  50. एवं भूतॊ नरॊ देवि निरयं परतिपद्यते विपरीतस तु धर्मात्मा रूपवान अभिजायते ॥ 50 ॥

  51. निरयं याति हिंसात्मा याति सवर्गम अहिंसकः यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥ 51 ॥

  52. अथ चेन निरयात तस्मात समुत्तरति कर्हि चित मानुष्यं लभते चापि हीनायुस तत्र जायते ॥ 52 ॥

  53. पापेन कर्मणा देवि बद्धॊहिंसा रतिर नरः अप्रियः सर्वभूतानां हीनायुर उपजायते ॥ 53 ॥

  54. यस तु शुक्लाभिजातीयः पराणिघात विवर्जकः निक्षिप्तदण्डॊ निर्दण्डॊ न हिनस्ति कदा चन ॥ 54 ॥

  55. न घातयति नॊ हन्ति घनन्तं नैवानुमॊदते सर्वभूतेषु स सनेहॊ यथात्मनि तथापरे ॥ 55 ॥

  56. ईदृशः पुरुषॊत्कर्षॊ देवि देवतम अश्नुते उपपन्नान सुखान भॊगान उपाश्नाति मुदा युतः ॥ 56 ॥

  57. अथ चेन मानुषे लॊके कदा चिद उपपद्यते तत्र दीर्घायुर उत्पन्नः स नरः सुखम एधते ॥ 57 ॥

  58. एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम पराणिहिंसा विमॊक्षेण बरह्मणा समुदीरितः ॥ 58 ॥

Reach this point to mark the section finished.

Continue to अध्याय 133

Previous: अध्याय 131