धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 131

  1. [उ] भगवन भग नेत्रघ्न पूष्णॊ दशनपातन दक्षक्रतुहर तर्यक्ष संशयॊ मे महान अयम ॥ 1 ॥

  2. चातुर्वर्ण्यं भगवता पूर्वं सृष्टं सवयम्भुवा केन कर्म विपाकेन वैश्यॊ गच्छति शूद्रताम ॥ 2 ॥

  3. वैश्यॊ वा कषत्रियः केन दविजॊ वा कषत्रियॊ भवेत परतिलॊमः कथं देव शक्यॊ धर्मॊ निषेवितुम ॥ 3 ॥

  4. केन वा कर्मणा विप्रः शूद्रयॊनौ परजायते कषत्रियः शूद्र ताम एति केन वा कर्मणा विभॊ ॥ 4 ॥

  5. एतं मे संशयं देव वद भूतपते ऽनघ तरयॊ वर्णाः परकृत्येह कथं बराह्मण्यम आप्नुयुः ॥ 5 ॥

  6. [म] बराह्मण्यं देवि दुष्प्रापं निसर्गाद बराह्मणः शुभे कषत्रियॊ वैश्यशूद्रौ वा निसर्गाद इति मे मतिः ॥ 6 ॥

  7. कर्मणा दुष्कृतेनेह सथानाद भरश्यति वै दविजः जयेष्ठं वर्णम अनुप्राप्य तस्माद रक्षेत वै दविजः ॥ 7 ॥

  8. सथितॊ बराह्मण धर्मेण बराह्मण्यम उपजीवति कषत्रियॊ वाथ वैश्यॊ वा बरह्मभूयाय गच्छति ॥ 8 ॥

  9. यस तु विप्रत्वम उत्सृज्य कषात्रं धर्मं निषेवते बराह्मण्यात स परिभ्रष्टः कषत्रयॊनौ परजायते ॥ 9 ॥

  10. वैश्यकर्म च यॊ विप्रॊ लॊभमॊहव्यपाश्रयः बराह्मण्यं दुर्लभं पराप्य करॊत्य अल्पमतिः सदा ॥ 10 ॥

  11. स दविजॊ वैश्यताम एति वैश्यॊ वा शूद्रताम इयात सवधर्मात परच्युतॊ विप्रस ततः शूद्रत्वम आप्नुते ॥ 11 ॥

  12. तत्रासौ निरयं पराप्तॊ वर्णभ्रष्टॊ बहिष्कृतः बरह्मलॊकपरिभ्रष्टः शूद्रः समुपजायते ॥ 12 ॥

  13. कषत्रियॊ वा महाभागे वैश्यॊ वा धर्मचारिणि सवानि कर्माण्य अपाहाय शूद्र कर्माणि सेवते ॥ 13 ॥

  14. सथस्थानात स परिभ्रष्टॊ वर्णसंकरतां गतः बराह्मणः कषत्रियॊ वैश्यः शूद्रत्वं याति तादृशः ॥ 14 ॥

  15. यस तु शुद्धस्वधर्मेण जञानविज्ञानवाञ शुचिः धर्मज्ञॊ धर्मनिरतः स धर्मफलम अश्नुते ॥ 15 ॥

  16. इदं चैवापरं देवि बरह्मणा समुदीरितम अध्यात्मं नैष्ठिकं सद्भिर धर्मकामैर निषेव्यते ॥ 16 ॥

  17. उग्रान्नं गर्हितं देवि गणान्नं शराद्धसूतकम घुष्टान्नं गर्हितं देवि देवदेवैर महात्मभिः ॥ 17 ॥

  18. शूद्रान्नं गर्हितं देवि देवदेवैर महात्मभिः पितामह मुखॊत्सृष्टं परमाणम इति मे मतिः ॥ 18 ॥

  19. शूद्रान्नेनावशेषेण जठरे यॊ मरियेत वै आहिताग्निस तथा यज्वा स शूद्र गतिभाग भवेत ॥ 19 ॥

  20. तेन शूद्रान्न शेषेण बरह्म सथानाद अपाकृतः बराह्मणः शूद्रताम एति नास्ति तत्र विचारणा ॥ 20 ॥

  21. यस्यान्नेनावशेषेण जठरे यॊ मरियेत वै तां तां यॊनिं वरजेद विप्रॊ यस्यान्नम उपजीवति ॥ 21 ॥

  22. बराह्मणत्वं शुभं पराप्य दुर्लभं यॊ ऽवमन्यते अभॊज्यान्नानि चाश्नाति स दविजत्वात पतेत वै ॥ 22 ॥

  23. सुरापॊ बरह्महा कषुद्रश चौरॊ भग्नव्रतॊ ऽशुचिः सवाख्याय वर्जितः पापॊ लुभॊ नैकृतिकः शठः ॥ 23 ॥

  24. अव्रती वृषली भर्ता कुण्डाशी सॊमविक्रयी निहीन सेवी विप्रॊ हि पतति बरह्मयॊनितः ॥ 24 ॥

  25. गुरु तल्पी गुरु दवेषी गुरु कुत्सा रतिश च यः बरह्म दविट चापि पतति बराह्मणॊ बरह्मयॊनितः ॥ 25 ॥

  26. एभिस तु कर्म भिर देवि शुभैर आचरितैस तथा शूद्रॊ बराह्मणतां गच्छेद वैश्यः कषत्रियतां वरजेत ॥ 26 ॥

  27. शूद्र कर्माणि सर्वाणि यथान्यायं यथाविधि शुश्रूषां परिचर्यां च जयेष्ठे वर्णे परयत्नतः कुर्याद अविमनाः शूद्रः सततं सत्पथे सथितः ॥ 27 ॥

  28. दैवतद्विज सत्कर्ता सर्वातिथ्य कृतव्रतः ऋतुकालाभिगामी च नियतॊ नियताशनः ॥ 28 ॥

  29. चौक्षश चौक्ष जनान्वेषी शेषान्न कृतभॊजनः वृथा मांसान्य अभुञ्जानः शूद्रॊ वैश्यत्वम ऋच्छति ॥ 29 ॥

  30. ऋतवाग अनहंवादी निर्द्वंद्वः शम कॊविदः यजते नित्ययज्ञैश च सवाध्यायपरमः शुचिः ॥ 30 ॥

  31. दान्तॊ बराह्मण सत्कर्ता सर्ववर्णबुभूषकः गृहस्थ वरतम आतिष्ठन दविकालकृतभॊजनः ॥ 31 ॥

  32. शेषाशी विजिताहारॊ निष्कामॊ निरहं वदः अग्निहॊत्रम उपासंश च जुह्वानश च यथाविधि ॥ 32 ॥

  33. सर्वातिथ्यम उपातिष्ठञ शेषान्न कृतभॊजनः तरेताग्निमन्त्रविहितॊ वैश्यॊ बह्वति वै यदि स वैश्यः कषत्रियकुले शुचौ महति जायते ॥ 33 ॥

  34. स वैश्यः कषत्रियॊ जातॊ जन्मप्रभृति संस्कृतः उपनीतॊ वरतपरॊ दविजॊ भवति सत्कृतः ॥ 34 ॥

  35. ददाति यजते यज्ञैः संस्कृतैर आप्तदक्षिणैः अधीते सवर्गम अन्विच्छंस तरेताग्निशरणः सदा ॥ 35 ॥

  36. आर्तहस्तप्रदॊ नित्यं परजा धर्मेण पालयन सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥ 36 ॥

  37. धर्मदण्डॊ न निर्दण्डॊ धर्मकार्यानुशासकः यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ॥ 37 ॥

  38. गराम्यधर्मान न सेवेन सवच्छन्देनार्थ कॊविदः ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥ 38 ॥

  39. सर्वॊपवासी नियतः सवाध्यायपरमः शुचिः बहिष्कान्तरिते नित्यं शयानॊ ऽगनिगृहे सदा ॥ 39 ॥

  40. सर्वातिथ्यं तरिवर्गस्य कुर्वाणः सुमनाः सदा शूद्राणां चान्न कामानां नित्यं सिद्धम इति बरुवन ॥ 40 ॥

  41. सवार्थाद वा यदि वा कामान न किं चिद उपलक्षयेत पितृदेवातिथि कृते साधनं कुरुते च यः ॥ 41 ॥

  42. सववेश्मनि यथान्यायम उपास्ते भैक्षम एव च तरिकालम अग्निहॊत्रं च जुह्वानॊ वै यथाविधि ॥ 42 ॥

  43. गॊब्राह्मण हितार्थाय रणे चाभिमुखॊ हतः तरेताग्निमन्त्रपूतं वा समाविश्य दविजॊ भवेत ॥ 43 ॥

  44. जञानविज्ञानसंपन्नः संस्कृतॊ वेदपारगः विप्रॊ भवति धर्मात्मा कषत्रियः सवेन कर्मणा ॥ 44 ॥

  45. एतैः कर्मफलैर देवि नयून जातिकुलॊद्भवः शूद्रॊ ऽपय आगमसंपन्नॊ दविजॊ भवति संस्कृतः ॥ 45 ॥

  46. बराह्मणॊ वाप्य असद्वृत्तः सर्वसंकरभॊजनः बराह्मण्यं पुण्यम उत्सृज्य शूद्रॊ भवति तादृशः ॥ 46 ॥

  47. कर्म भिः शुचिभिर देवि शुद्धात्मा विजितेन्द्रियः शूद्रॊ ऽपि दविजवत सेव्य इति बरह्माब्रवीत सवयम ॥ 47 ॥

  48. सवभावकर्म च शुभं यत्र शूद्रे ऽपि तिष्ठति विशुद्धः स दविजातिर वै विज्ञेय इति मे मतिः ॥ 48 ॥

  49. न यॊनिर नापि संस्कारॊ न शरुतं न च संनतिः कारणानि दविजत्वस्य वृत्तम एव तु कारणम ॥ 49 ॥

  50. सर्वॊ ऽयं बराह्मणॊ लॊके वृत्तेन तु विधीयते वृत्ते सथितश च सुश्रॊणिब्राह्मणत्वं निगच्छति ॥ 50 ॥

  51. बराह्मः सवभावः कल्याणि समः सर्वत्र मे मतिः निर्गुणं निर्मलं बरह्म यत्र तिष्ठति स दविजः ॥ 51 ॥

  52. एते यॊनिफला देवि सथानभागनिदर्शकाः सवयं च वरदेनॊक्ता बरह्मणा सृजता परजाः ॥ 52 ॥

  53. बराह्मणॊ हि महत कषेत्रं लॊके चरति पादवत यत तत्र बीजं वपति सा कृषिः पारलौकिकी ॥ 53 ॥

  54. मिताशिना सदा भाव्यं सत्पथालम्बिना सदा बराह्म मारम अतिक्रम्य वर्तितव्यं बुभूषता ॥ 54 ॥

  55. संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना नित्यं सवाध्याययुक्तेन दानाध्ययनजीविना ॥ 55 ॥

  56. एवं भूतॊ हि यॊ विप्रः सततं सत्पथे सथितः आहिताग्निर अधीयानॊ बरह्मभूयाय कल्पते ॥ 56 ॥

  57. बराह्मण्यम एव संप्राप्य रक्षितव्यं यतात्मभिः यॊनिप्रतिग्रहादानैः कर्मभिश च शुचिस्मिते ॥ 57 ॥

  58. एतत ते सर्वम आख्यातं यथा शूद्रॊ भवेद दविजः बराह्मणॊ वा चयुतॊ धर्माद यथा शूद्रत्वम आप्नुते ॥ 58 ॥

Reach this point to mark the section finished.

Continue to अध्याय 132

Previous: अध्याय 130