धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 130

  1. [उमा] देशेषु रमणीयेषु गिरीणां निर्झरेषु च सरवन्तीनां च कुञ्जेषु पर्वतॊपवनेषु च ॥ 1 ॥

  2. देशेषु च विचित्रेषु फलवत्सु समाहिताः मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥ 2 ॥

  3. तेषाम अपि विधिं पुण्यं शरॊतुम इच्छामि शंकर वानप्रस्थेषु देवेश सवशरीरॊपजीविषु ॥ 3 ॥

  4. [महेष्वर] वानप्रस्थेषु यॊ धर्मस तं मे शृणु समाहिता शरुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ 4 ॥

  5. संसिद्धैर नियतैः सद्भिर वनवासम उपागतैः वानप्रस्थैर इदं कर्म कर्तव्यं शृणु यादृशम ॥ 5 ॥

  6. तरिकालम अभिषेकार्थः पितृदेवार्चनं करिया अग्निहॊत्रपरिस्पन्द इष्टि हॊमविधिस तथा ॥ 6 ॥

  7. नीवार गरहणं चैव फलमूलनिषेवणम इङ्गुदैर अण्ड तैलानां सनेहार्थं च निषेवणम ॥ 7 ॥

  8. यॊगचर्या कृतैः सिद्धैः कामक्रॊधविवर्जनम वीरशय्याम उपासद्भिर वीर सथानॊपसेविभिः ॥ 8 ॥

  9. युक्तैर यॊगवहैः सद्भिर गरीष्मे पञ्चतपैस तथा मण्डूकयॊगनियतैर यथान्याय निषेविभिः ॥ 9 ॥

  10. वीरासन गतैर नित्यं सथण्डिले शयनैस तथा शीतयॊगॊ ऽगनियॊगश च चर्तव्यॊ धर्मबुद्धिभिः ॥ 10 ॥

  11. अब्भक्षैर वायुभक्षैश च शैवालॊत्तर भॊजनैः अश्मकुट्टैस तथा दान्तैः संप्रक्षालैस तथापरैः ॥ 11 ॥

  12. चीरवल्कल संवीतैर मृगचर्म निवासिभिः कार्या यात्रा यथाकालं यथा धर्मं यथाविधि ॥ 12 ॥

  13. वननित्यैर वनचरैर वनपैर वनगॊचरैः वनं गुरुम इवासाद्य वस्तव्यं वनजीविभिः ॥ 13 ॥

  14. तेषां हॊमक्रिया धर्मः पञ्च यज्ञनिषेवणम नागपञ्चमयज्ञस्य वेदॊक्तस्यानुपालनम ॥ 14 ॥

  15. अष्टमी यज्ञपरता चातुर्मास्य निषेवणम पौर्णमास्यां तु यॊ यज्ञॊ नित्ययज्ञस तथैव च ॥ 15 ॥

  16. विमुक्ता दारसंयॊगैर विमुक्ताः सर्वसंकरैः विमुक्ताः सर्वपापैश च चरन्ति मुनयॊ वने ॥ 16 ॥

  17. सरुग्भाण्ड परमा नित्यं तरेताग्निशरणाः सदा सन्तः सत्पथ नित्या ये ते यान्ति परमां गतिम ॥ 17 ॥

  18. बरह्मलॊकं महापुण्यं सॊमलॊकं च शाश्वतम गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात ॥ 18 ॥

  19. एष धर्मॊ मया देवि वान परस्थाश्रिताः शुभः विस्तरेणार्थ संपन्नॊ यथा सथूलम उदाहृतः ॥ 19 ॥

  20. [उ] भगवन देवदेवेश सर्वभूतनमस्कृत यॊ धर्मॊ मुनिसंघस्य सिद्धिवादेषु तं वद ॥ 20 ॥

  21. सिद्धिवादेषु संसिद्धास तथा वननिवासिनः सवैरिणॊ दारसंयुक्तास तेषां धर्मः कथं समृतः ॥ 21 ॥

  22. [म] सवैरिणस तापसा देवि सर्वे दारविहारिणः तेषां मौण्ड्यं कषायश च वासरात्रिश च कारणम ॥ 22 ॥

  23. तरिकालम अभिषेकश च हॊत्रं तव ऋषिकृतं महत समाधिः सत्पथ सथानं यथॊदित निषेवणम ॥ 23 ॥

  24. ये च ते पूर्वकथिता धर्मा वननिवासिनाम यदि सेवन्ति धर्मास तान आप्नुवन्ति तपःफलम ॥ 24 ॥

  25. ये च दम्पति धर्माणः सवदारनियतेन्द्रियाः चरन्ति विधिदृष्टं तद ऋतुकालाभिगामिनः ॥ 25 ॥

  26. तेषाम ऋषिकृतॊ धर्मॊ धर्मिणाम उपपद्यते न कामकारात कामॊ ऽनयः संसेव्यॊ धर्मदर्शिभिः ॥ 26 ॥

  27. सर्वभूतेषु यः सम्यग ददात्य अभयदक्षिणाम हिंसा रॊषविमुक्तात्मा स वै धर्मेण युज्यते ॥ 27 ॥

  28. सर्वभूतानुकम्पी यः सर्वभूतार्जव वरतः सर्वभूतात्मभूतश च स वै धर्मेण युज्यते ॥ 28 ॥

  29. सर्ववेदेषु वा सनानं सर्वभूतेषु चार्जवम उभे एते समे सयाताम आर्जवं वा विशिष्यते ॥ 29 ॥

  30. आर्जवं धर्म इत्य आहुर अधर्मॊ जिह्म उच्यते आर्जवेनेह संयुक्तॊ नरॊ धर्मेण युज्यते ॥ 30 ॥

  31. आर्जवॊ भुवने नित्यं वसत्य अमर संनिधौ तस्माद आर्जवनित्यः सयाद य इच्छेद धर्मम आत्मनः ॥ 31 ॥

  32. कषान्तॊ दान्तॊ जितक्रॊधॊ धर्मभूतॊ ऽविहिंसकः धर्मे रतमना नित्यं नरॊ धर्मेण युज्यते ॥ 32 ॥

  33. वयपेततन्द्रॊ धर्मात्मा शक्या सत्पथम आश्रितः चारित्रपरमॊ बुद्धॊ बरह्मभूयाय कल्पते ॥ 33 ॥

  34. [उ] आश्रमाभिरता देव तापसा ये तपॊधनाः दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ 34 ॥

  35. राजानॊ राजपुत्राश च निर्धना वा महाधनाः कर्मणा केन भगवन पराप्नुवन्ति महाफलम ॥ 35 ॥

  36. नित्यं सथानम उपागम्य दिव्यचन्दन रूषिताः केन वा कर्मणा देव भवन्ति वनगॊचराः ॥ 36 ॥

  37. एतं मे संशयं देव तपश्चर्या गतं शुभम शंस सर्वम अशेषेण तर्यक्ष तरिपुरनाशन ॥ 37 ॥

  38. [म] उपवासव्रतैर दान्ता अहिंस्राः सत्यवादिनः संसिद्धाः परेत्य गन्धर्वैः सह मॊदन्त्य अनामयाः ॥ 38 ॥

  39. मण्डूकयॊगशयनॊ यथास्थानं यथाविधि दीक्षां चरति धर्मात्मा स नागैः सह मॊदते ॥ 39 ॥

  40. शष्पं मृगमुखॊत्सृष्टं यॊ मृगैः सह सेवते दीक्षितॊ वै मुदा युक्तः स गच्छत्य अमरावतीम ॥ 40 ॥

  41. शैवालं शीर्णपर्णं वा तद वरतॊ यॊ निषेवते शीतयॊगवहॊ नित्यं स गच्छेत परमां गतिम ॥ 41 ॥

  42. वायुभक्षॊ ऽमबुभक्षॊ वा फलमूलाशनॊ ऽपि वा यक्षेष्व ऐश्वर्यम आधाय मॊदते ऽपसरसां गणैः ॥ 42 ॥

  43. अग्नियॊगवहॊ गरीष्मे विधिदृष्टेन कर्मणा चीर्त्वा दवादश वर्षाणि राजा भवति पार्थिवः ॥ 43 ॥

  44. आहारनियमं कृत्वा मुनिर दवादश वार्षिकम मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥ 44 ॥

  45. सथण्डिले शुद्धम आकाशं परिगृह्य समन्ततः परविश्य च मुदा युक्तॊ दीक्षां दवादश वार्षिकीम ॥ 45 ॥

  46. सथण्डिलस्य फलान्य आहुर यानानि शयनानि च गृहाणि च महार्हाणि चन्द्र शुभ्राणि भामिनि ॥ 46 ॥

  47. आत्मानम उपजीवन यॊ नियतॊ नियताशनः देहं वानशने तयक्त्वा सस्वर्गं समुपाश्नुते ॥ 47 ॥

  48. आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम तयक्त्वा महार्णवे देहं वारुणं लॊकम अश्नुते ॥ 48 ॥

  49. आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम अश्मना चरणौ भित्त्वा गुह्यकेषु स मॊदते ॥ 49 ॥

  50. साधयित्वात्मनात्मानं निर्द्वंद्वॊ निष्परिग्रहः चीर्त्वा दवादश वर्षाणि दीक्षाम एकां मनॊगताम सवग लॊकम अवाप्नॊति देवैश च सह मॊदते ॥ 50 ॥

  51. आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम हुत्वाग्नौ देहम उत्सृज्य वह्नि लॊके महीयते ॥ 51 ॥

  52. यस तु देवि यथान्यायं दीक्षितॊ नियतॊ दविजः आत्मन्य आत्मानम आधाय निर्द्वंद्वॊ निष्परिग्रहः ॥ 52 ॥

  53. चीर्त्वा दवादश वर्षाणि दीक्षाम एकां मनॊगताम अरणी सहितं सकन्धे बद्ध्वा गच्छत्य अनावृतः ॥ 53 ॥

  54. वीराध्वान मना नित्यं वीरासन रतस तथा वीर सथायी च सततं स वीर गतिम आप्नुयात ॥ 54 ॥

  55. स शक्र लॊकगॊ नित्यं सर्वकामपुरस्कृतः दिव्यपुष्पसमाकीर्णॊ दिव्यचन्दन भूषितः सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ 55 ॥

  56. वीरलॊकगतॊ वीरॊ वीर यॊगवहः सदा सत्त्वस्थः सर्वम उत्सृज्य दीक्षितॊ नियतः शुचिः वीराध्वानं परपद्येद यस तस्य लॊकाः सनातनाः ॥ 56 ॥

  57. कामगेन विमानेन स वै चरति चछन्दतः शक्र लॊकगतः शरीमान मॊदते च निरामयः ॥ 57 ॥

Reach this point to mark the section finished.

Continue to अध्याय 131

Previous: अध्याय 129