[उमा] उक्तास तवया पृथग धर्माश चातुर्वर्ण्यहिताः शुभाः सर्वव्यापी तु यॊ धर्मॊ भगवंस तं बरवीहि मे ॥ 1 ॥
[म] बराह्मणा लॊकसारेण सृष्टा धात्रा गुणार्थिना लॊकांस तारयितुं कृत्स्नान मर्त्येषु कषितिदेवताः ॥ 2 ॥
तेषाम इमं परवक्ष्यामि धर्मकर्मफलॊदयम बराह्मणेषु हि यॊ धर्मः स धर्मः परमॊ मतः ॥ 3 ॥
इमे तु लॊकधर्मार्थं तरयः सृष्टाः सवयम्भुवा पृथिव्याः सर्जने नित्यं सृष्टास तान अपि मे शृणु ॥ 4 ॥
वेदॊक्तः परमॊ धर्मः समृतिशास्त्रगतॊ ऽपरः शिष्टाचीर्णः परः परॊक्तस तरयॊ धर्माः सनातनाः ॥ 5 ॥
तरैविद्यॊ बराह्मणॊ विद्वान न चाध्ययन जीवनः तरिकर्मा तरिपरिक्रान्तॊ मैत्र एष समृतॊ दविजः ॥ 6 ॥
षड इमानि तु कर्माणि परॊवाच भुवनेश्वरः वृत्त्यर्थं बराह्मणानां वै शृणु तानि समाहिता ॥ 7 ॥
यजनं याजनं चैव तथा दानप्रतिग्रहौ अध्यापनम अधीतं च षट कर्मा धर्मभाग दविजः ॥ 8 ॥
नित्यस्वाध्यायता धर्मॊ धर्मॊ यज्ञः सनातनः दानं परशस्यते चास्य यथाशक्ति यथाविधि ॥ 9 ॥
अयं तु परमॊ धर्मः परवृत्तः सत्सु नित्यशः गृहस्थता विशुद्धानां धर्मस्य निचयॊ महान ॥ 10 ॥
पञ्च यज्ञविशुद्धात्मा सत्यवाग अनसूयकः दाता बराह्मण सत्कर्ता सुसंमृष्टनिवेशनः ॥ 11 ॥
अमानी च सदा जिह्मः सनिग्धवाणी परदस तथा अतिथ्यभ्यागत रतिः शेषान्न कृतभॊजनः ॥ 12 ॥
पाद्यम अर्घ्यं यथान्यायम आसनं शयनं तथा दीपं परतिश्रयं चापि यॊ ददाति स धार्मिकः ॥ 13 ॥
परातर उत्थाय चाचम्य भॊजनेनॊपमन्त्र्य च सत्कृत्यानुव्रजेद यश च तस्य धर्मः सनातनः ॥ 14 ॥
सर्वातिथ्यं तरिवर्गस्य यथाशक्ति दिवानिशम शूद्र धर्मः समाख्यातस तरिवर्णपरिचारणम ॥ 15 ॥
परवृत्ति लक्षणॊ धर्मॊ गृहस्थेषु विधीयते तम अहं कीर्तयिष्यामि सर्वभूतहितं शुभम ॥ 16 ॥
दातव्यम असकृच छक्या यष्टव्यम असकृत तथा पुष्टि कर्म विधानं च कर्तव्यं भूतिम इच्छता ॥ 17 ॥
धर्मेणार्थः समाहार्यॊ धर्मलब्धं तरिधा धनम कर्तव्यं धर्मपरमं मानवेन परयत्नतः ॥ 18 ॥
एकेनांशेन धर्मार्थश चर्तव्यॊ भूतिम इच्छता एकेनांशेन कामार्थ एकम अंशं विवर्धयेत ॥ 19 ॥
निवृत्ति लक्षणस तव अन्यॊ धर्मॊ मॊक्ष इति समृतः तस्य वृत्तिं परवक्ष्यामि शृणु मे देवि तत्त्वतः ॥ 20 ॥
सर्वभूतदया धर्मॊ न चैकग्रामवासिता आशापाशविमॊक्षश च शस्यते मॊक्षकाङ्क्षिणाम ॥ 21 ॥
न कुण्ड्यां नॊदके सङ्गॊ न वाससि न चासने न तरिदण्डे न शयने नाग्नौ न शरणालये ॥ 22 ॥
अध्यात्मगतचित्तॊ यस तन मनास तत्परायणः युक्तॊ यॊगं परति सदा परतिसंख्यानम एव च ॥ 23 ॥
वृक्षमूलशयॊ नित्यं शून्यागार निवेशनः नदीपुलिनशायी च नदीतीररतिश च यः ॥ 24 ॥
विमुक्तः सर्वसङ्गेषु सनेहबन्धुषु च दविजः आत्मन्य एवात्मनॊ भावं समासज्याटति दविजः ॥ 25 ॥
सथाणुभूतॊ निराहारॊ मॊक्षदृष्टेन कर्मणा परिव्रजति यॊ युक्तस तस्य धर्मः सनातनः ॥ 26 ॥
न चैकत्र चिरासक्तॊ न चैकग्राम गॊचरः युक्तॊ हय अटति निर्मुक्तॊ न चैकपुलिने शयः ॥ 27 ॥
एष मॊक्षविदां धर्मॊ वेदॊक्तः सत्पथः सताम यॊ मार्गम अनुयातीमं पदं तस्य न विद्यते ॥ 28 ॥
चतुर्विधा भिक्षवस ते कुटी चर कृतॊदकः हंसः परमहंसश च यॊ यः पश्चात स उत्तमः ॥ 29 ॥
अतः परतरं नास्ति नाधरं न तिरॊ ऽगरतः अदुःखम असुखं सौम्यम अजरा मरम अव्ययम ॥ 30 ॥
[उमा] गार्हस्थ्यॊ मॊक्षधर्मश च सज्जनाचरितस तवया भाषितॊ मर्त्यलॊकस्य मार्गः शरेयः करॊ महान ॥ 31 ॥
ऋषिधर्मं तु धर्मज्ञ शरॊतुम इच्छाम्य अनुत्तमम सपृहा भवति मे नित्यं तपॊवननिवासिषु ॥ 32 ॥
आज्यधूमॊद्भभॊ गन्धॊ रुणद्धीव तपॊवनम तं दृष्ट्वा मे मनः परीतं महेश्वर सदा भवेत ॥ 33 ॥
एतं मे संशयं देव मुनिधर्मकृतं विभॊ सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे निखिलेन मया पृष्टं महादेव यथातथम ॥ 34 ॥
[म] हन्त ते ऽहं परवक्ष्यामि मुनिधर्मम अनुत्तमम यं कृत्वा मुनयॊ यान्ति सिद्धिं सवतपसा शुभे ॥ 35 ॥
फेनपानाम ऋषीणां यॊ धर्मॊ धर्मविदां सदा तं मे शृणु महाभागे धर्मज्ञे धर्मम आदितः ॥ 36 ॥
उञ्छन्ति सततं तस्मिन बराह्मं फेनॊत्करं शुभम अमृतं बरह्मणा पीतं मधुरं परसृतं दिवि ॥ 37 ॥
एष तेषां विशुद्धानां फेनपानां तपॊधने धर्मचर्या कृतॊ मार्गॊ वालखिल्य गणे शृणु ॥ 38 ॥
वालखिल्यास तपः सिद्दा मुनयः सूर्यमण्डले उञ्छम उञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिम आस्थिताः ॥ 39 ॥
मृगनिर्मॊक वसनाश चीरवल्कल वाससः निर्द्वंद्वाः सत्पथं पराप्ता वालखिल्यास तपॊधनाः ॥ 40 ॥
अङ्गुष्ठ पर्व मात्रास ते सवेष्व अङ्गेषु वयवस्थिताः तपश्चरणम ईहन्ते तेषां धर्मफलं महत ॥ 41 ॥
ते सुरैः समतां यान्ति सुरकार्यार्थ सिद्धये दयॊतयन्तॊ दिशः सर्वास तपसा दग्धकिल्बिषाः ॥ 42 ॥
ये तव अन्ये शुद्धमनसॊ दया धर्मपरायणाः सन्तश चक्रचराः पुण्याः सॊमलॊकचराश च ये ॥ 43 ॥
पितृलॊकसमीपस्थास त उञ्छन्ति यथाविधि संप्रक्षालाश्म कुट्टाश चदन्तॊलूखलिनस तथा ॥ 44 ॥
सॊमपानां च देवानाम ऊष्मपाणां तथैव च उञ्छन्ति ये समीपस्थाः सवभावनियतेन्द्रियाः ॥ 45 ॥
तेषाम अग्निपरिष्यन्दः पितृदेवार्चनं तथा यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥ 46 ॥
एष चक्रचरैर देवि देवलॊकचरैर दविजैः ऋषिधर्मः सदा चीर्णॊ यॊ ऽनयस तम अपि मे शृणु ॥ 47 ॥
सर्वेष्व एवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः कामक्रॊधौ ततः पश्चाज जेतव्याव इति मे मतिः ॥ 48 ॥
अग्निहॊत्रपरिस्पन्दॊ धर्मरात्रि समासनम सॊमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥ 49 ॥
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः सर्वातिथ्यं च कर्तव्यम अन्नेनॊञ्छार्जितेन वै ॥ 50 ॥
निवृत्तिर उपभॊगस्य गॊरसानां च वै रतिः सथण्डिले शयनं यॊगः शाकपर्णनिषेवणम ॥ 51 ॥
फलमूलाशनं वायुर आपः शैवलभक्षणम ऋषीणां नियमा हय एते यैर जयन्त्य अजितां गतिम ॥ 52 ॥
विधूमे नयस्तमुसले वयङ्गारे भुक्तवज जने अतीतपात्र संचारे काले विगतभैक्षके ॥ 53 ॥
अतिथिं काङ्क्षमाणॊ वै शेषान्न कृतभॊजनः सत्यधर्मरतिः कषान्तॊ मुनिधर्मेण युज्यते ॥ 54 ॥
न सतम्भी न च मानी यॊ न परमत्तॊ न विस्मितः मित्रामित्र समॊ मैत्रॊ यः स धर्मविद उत्तमः ॥ 55 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 129
Reach this point to mark the section finished.
Continue to अध्याय 130