[य] सत्रीपुंसयॊः संप्रयॊगे सपर्शः कस्याधिकॊ भवेत एतन मे संशयं राजन यथावद वक्तुम अर्हसि ॥ 1 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भङ्गाश्वनेन शक्रस्य यथा वैरम अभूत पुरा ॥ 2 ॥
पुरा भङ्गाश्वनॊ नाम राजर्षिर अतिधार्मिकः अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञम आहरत ॥ 3 ॥
अग्निष्टुं नाम राजर्षिर इन्द्र दविष्टं महाबलः परायश्चित्तेषु मर्त्यानां पुत्र कामस्य चेष्यते ॥ 4 ॥
इन्द्रॊ जञात्वा तु तं यज्ञं महाभागः सुरेश्वरः अन्तरं तस्य राजर्षेर अन्विच्छन नियतात्मनः ॥ 5 ॥
कस्य चित तव अथ कालस्य मृगयाम अटतॊ नृप इदम अन्तरम इत्य एव शक्रॊ नृपम अमॊहयत ॥ 6 ॥
एकाश्वेन च राजर्षिर भरान्त इन्द्रेण मॊहितः न दिशॊ ऽविन्दत नृपः कषुत्पिपासार्दितस तदा ॥ 7 ॥
इतश चेतश च वै धावञ शरमतृष्णार्दितॊ नृपः सरॊ ऽपश्यत सुरुचिरं पूर्णं परमवारिणा सॊ ऽवगाह्य सरस तात पाययाम आस वाजिनम ॥ 8 ॥
अथ पीतॊदकं सॊ ऽशवं वृक्षे बद्ध्वा नृपॊत्तमः अवगाह्य ततः सनातॊ राजा सत्रीत्वम अवाप ह ॥ 9 ॥
आत्मानं सत्रीकृतं दृष्ट्वा वरीडितॊ नृपसत्तमः चिन्तानुगत सर्वात्मा वयाकुलेन्द्रिय चेतनः ॥ 10 ॥
आरॊहिष्ये कथं तव अश्वं कथं यास्यामि वै पुरम अग्निष्टुं नाम इष्टं मे पुत्राणां शतम औरसम ॥ 11 ॥
जातं महाबलानां वै तान परवक्ष्यामि किं तव अहम दारेषु चास्मदीयेषु पौरजानपदेषु च ॥ 12 ॥
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च सत्री गुणा ऋषिभिः परॊक्ता धर्मतत्त्वार्थ दर्शिभिः वयायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ 13 ॥
पौरुषं विप्रनष्टं मे सत्रीत्वं केनापि मे ऽभवत सत्रीभावात कथम अश्वं तु पुनर आरॊढुम उत्सहे ॥ 14 ॥
महता तव अथ खेदेन आरुह्याश्वं नराधिपः पुनर आयात पुरं तात सत्रीभूतॊ नृपसत्तम ॥ 15 ॥
पुत्रा दाराश च भृत्याश च पौरजानपदाश च ते किं नव इदं तव इति विज्ञाय विस्मयं परमं गताः ॥ 16 ॥
अथॊवाच स राजर्षिः सत्रीभूतॊ वदतां वरः मृगयाम अस्मि निर्यातॊ बलैः परिवृतॊ दृढम उद्भान्तः पराविशं घॊरम अटवीं दैवमॊहितः ॥ 17 ॥
अटव्यां च सुघॊरायां तृष्णार्थॊ नष्टचेतनः सरः सुरुचिरप्रख्यम अपश्यं पक्षिभिर वृतम ॥ 18 ॥
तत्रावगाढः सत्रीभूतॊ वयक्तं दैवान न संशयः अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥ 19 ॥
उवाच पुत्रांश च ततः सत्रीभूतः पार्थिवॊत्तमः संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः अभिषिच्य सपुत्राणां शतं राजा वनं गतः ॥ 20 ॥
ताम आश्रमे सत्रियं तात तापसॊ ऽभयवपद्यत तापसेनास्य पुत्राणाम आश्रमे ऽपय अभवच छतम ॥ 21 ॥
अथ सा तान सुतान गृह्य पूर्वपुत्रान अभाषत पुरुषत्वे सुता यूयं सत्रीत्वे चेमे शतं सुताः ॥ 22 ॥
एकत्र भुज्यतां राज्यं भरातृभावेन पुत्रकाः सहिता भरातरस ते ऽथ राज्यं बुभुजिरे तदा ॥ 23 ॥
तान दृष्ट्वा भरातृभावेन भुञ्जानान राज्यम उत्तमम चिन्तयाम आस देवेन्द्रॊ मन्युनाभिपरिप्लुतः उपकारॊ ऽसय राजर्षेः कृतॊ नापकृतं मया ॥ 24 ॥
ततॊ बराह्मणरूपेण देवराजः शतक्रतुः भेदयाम आस तान गत्वा नगरं वै नृपात्मजान ॥ 25 ॥
भरातॄणां नास्ति सौभ्रात्रं ये ऽपय एकस्य पितुः सुताः राज्यहेतॊर विवदिताः कश्यपस्य सुरासुराः ॥ 26 ॥
यूयं भङ्गाश्वनापत्यास तापसस्येतरे सुताः कश्यपस्य सुराश चैव असुराश च सुतास तथा युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥ 27 ॥
इन्द्रेण भेदितास ते तु युद्धे ऽनयॊन्यम अपातयन तच छरुत्वा तापसी चापि संतप्ता पररुरॊद ह ॥ 28 ॥
बराह्मणच छद्मनाभ्येत्य ताम इन्द्रॊ ऽथान्वपृच्छत केन दुःखेन संतप्ता रॊदिषि तवं वरानने ॥ 29 ॥
बराह्मणं तु ततॊ दृष्ट्वा सा सत्री करुणम अब्रवीत पुत्राणां दवे शते बरह्मन कालेन विनिवातिते ॥ 30 ॥
अहं राजाभवं विप्र तत्र पुत्रशतं मया समुत्पन्नं सुरूपाणां विक्रान्तानां दविजॊत्तम ॥ 31 ॥
कदा चिन मृगयां यात उद्भ्रान्तॊ गहने वने अवगाढश च सरसि सत्रि भूतॊ बराह्मणॊत्तम पुत्रान राज्ये परतिष्ठाप्य वनम अस्मि ततॊ गतः ॥ 32 ॥
सत्रियाश च मे पुत्रशतं तापसेन महात्मना आश्रमे जनितं बरह्मन नीतास ते नगरं मया ॥ 33 ॥
तेषां च वैरम उत्पन्नं कालयॊगेन वै दविज एतच छॊचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ॥ 34 ॥
इन्द्रस तां दुःखितां दृष्ट्वा अब्रवीत परुषं वचः पुरा सुदुःसहं भद्रे मम दुःखं तवया कृतम ॥ 35 ॥
इन्द्र दविष्टेन यजता माम अनादृत्य दुर्मते इन्द्रॊ ऽहम अस्मि दुर्बुद्धे वैरं ते यातितं मया ॥ 36 ॥
इन्द्रं तु दृष्ट्वा राजर्षिः पादयॊः शिरसा गतः परसीद तरिदशश्रेष्ठ पुत्र कामेन स करतुः इष्टस तरिदशशार्दूल तत्र मे कषन्तुम अर्हसि ॥ 37 ॥
परणिपातेन तस्येन्द्रः परितुट्षॊ वरं ददौ पुत्रा वै कतमे राजञ जीवन्तु तव शंस मे सत्रीभूतस्य हि ये जाताः पुरुषस्याथ ये ऽभवन ॥ 38 ॥
तापसी तु ततः शक्रम उवाच परयताञ्जलिः सत्रीभूतस्य हि ये जातास ते मे जीवन्तु वासव ॥ 39 ॥
इन्द्रस तु विस्मितॊ हृष्टः सत्रियं पप्रच्छ तां पुनः पुरुषॊत्पादिता ये ते कथं दवेष्याः सुतास तव ॥ 40 ॥
सत्री बूतस्य हि ये जाताः सनेहस तेभ्यॊ ऽधिकः कथम कारणं शरॊतुम इच्छामि तन मे वक्तुम इहार्हसि ॥ 41 ॥
[सत्री] सत्रियास तव अभ्यधिकः सनेहॊ न तथा पुरुषस्य वै तस्मात ते शक्र जीवन्तु ये जाताः सत्रीकृतस्य वै ॥ 42 ॥
[भ] एवम उक्ते ततस तवेन्द्रः परीतॊ वाक्यम उवाच ह सर्व एवेह जीवन्तु पुत्रास ते सत्यवादिनि ॥ 43 ॥
वरं च वृणु राजेन्द्र यं तवम इच्छसि सुव्रत पुरुषत्वम अथ सत्रीत्वं मत्तॊ यद अभिकाङ्क्षसि ॥ 44 ॥
[सत्री] सत्रीत्वम एव वृणे शक्र परसन्ने तवयि वासव ॥ 45 ॥
एवम उक्तस तु देवेन्द्रस तां सत्रियम्प्रत्युवाच ह पुरुषत्वं कथं तयक्त्वा सत्रीत्वं रॊचयसे विभॊ ॥ 46 ॥
एवम उक्तः परत्युवाच सत्रीभूतॊ राजसत्तमः सत्रियाः पुरुषसंयॊगे परीतिर अभ्यधिका सदा एतस्मात कारणाच छक्र सत्रीत्वम एव वृणॊम्य अहम ॥ 47 ॥
रमे चैवाधिकं सत्रीत्वे सत्यं वै देव सत्तम सत्रीभावेन हि तुष्टॊ ऽसमि गम्यतां तरिदशाधिप ॥ 48 ॥
एवम अस्त्व इति चॊक्त्वा ताम आपृच्छ्य तरिदिवं गतः एवं सत्रिया महाराज अधिका परीतिर उच्यते ॥ 49 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13