[महेष्वर] तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥ 1 ॥
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि परदक्षिणं लॊभयन्ती मां शुभे रुचिरानना ॥ 2 ॥
यतॊ यतः सा सुदती माम उपाधावद अन्तिके ततस ततॊ मुखं चारु मम देवि विनिर्गतम ॥ 3 ॥
तां देदृक्षुर अहं यॊगाच चतुर्मूर्तित्वम आगतः चतुर्मुखश च संवृत्तॊ दर्शयन यॊगम आत्मनः ॥ 4 ॥
पूर्वेण वदनेनाहम इन्द्रत्वम अनुशास्मि ह उत्तरेण तवया सार्धं रमाम्य अहम अनिन्दिते ॥ 5 ॥
पश्चिमं मे मुखं सौम्यं सर्वप्राणि सुखावहम दक्षिणं भीमसंकाशं रौद्रं संहरति परजाः ॥ 6 ॥
जटिलॊ बरह्म चारी च लॊकानां हितकाम्यया देवकार्यार्थ सिद्ध्यर्थं पिनाकं मे करे सथितम ॥ 7 ॥
इन्द्रेण च पुरा वज्रं कषिप्तं शरीकाङ्क्षिणा मम दग्ध्वा कण्ठं तु तद यातं तेन शरीकण्ठता मम ॥ 8 ॥
[उमा] वाहनेषु परभूतेषु शरीमत्स्व अन्येषु सत्सु ते कथं गॊवृषभॊ देव वाहनत्वम उपागतः ॥ 9 ॥
[महेष्वर] सुरभीं ससृजे बरह्मामृत धेनुं पयॊ मुचम सा सेष्टा बहुधा जाता कषरमाणा पयॊ ऽमृतम ॥ 10 ॥
तस्या वत्स मुखॊत्सृष्टः फेनॊ मद गात्रम आगतः ततॊ दग्धा मया गावॊ नानावर्णत्वम आगतः ॥ 11 ॥
ततॊ ऽहं लॊकगुरुणा शमं नीतॊ ऽरथवेदिना वृषं चेमं धवजार्थं मे ददौ वाहनम एव च ॥ 12 ॥
[उमा] निवासा बहुरूपास ते विश्वरूपगुणान्विताः तांश च संत्यज्य भगवञ शमशाने रमसे कथम ॥ 13 ॥
केशास्थि कलिले भीमे कपालघट संकुले गृध्रगॊमायुकलिले चिताग्निशतसंकुले ॥ 14 ॥
अशुचौ मांसकलिले वसा शॊणितकर्दमे विनिकीर्णामिष चये शिवानाद विनादिते ॥ 15 ॥
[म] मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्व अहम न च मेध्यतरं किं चिच छमशानाद इह विद्यते ॥ 16 ॥
तेन मे सर्ववासानां शमशाने रमते मनः नयग्रॊधशाखा संछन्ने निर्भुक्त सरग्वि भूषिते ॥ 17 ॥
तत्र चैव रमन्ते मे भूतसंघाः शुभानने न च भूतगणैर देवि विनाहं वस्तुम उत्सहे ॥ 18 ॥
एष वासॊ हि मे मेध्यः सवर्गीयश च मतॊ हि मे पुण्यः परमकश चैव मेध्य कामैर उपास्यते ॥ 19 ॥
[उमा] भगवन सर्वभूतेश सर्वधर्मभृतां वर पिनाक पाणे वरद संशयॊ मे महान अयम ॥ 20 ॥
अयं मुनिगणः सर्वस तपस तप इति परभॊ तपॊ ऽनवेष करॊ लॊके भरमते विविधाकृतिः ॥ 21 ॥
अस्य चैवर्षिसंघस्य मम च परियकाम्यया एतं ममेह संदेहं वक्तुम अर्हस्य अरिंदम ॥ 22 ॥
धर्मः किं लक्षणः परॊक्तः कथं वाचरितुं नरैः शक्यॊ धर्मम अविन्दद्भिर धर्मज्ञ वद मे परभॊ ॥ 23 ॥
[नारद] ततॊ मुनिगणः सर्वस तां देवीं परत्यपूजयत वाग्भिर ऋग भूषितार्थाभिः सतवैश चार्थविदां वर ॥ 24 ॥
[म] अहिंसा सत्यवचनं सर्वभूतानुकम्पनम शमॊ दानं यथाशक्ति गार्हस्थ्यॊ धर्म उत्तमः ॥ 25 ॥
परदारेष्व असंकल्पॊ नयासस्त्री परिरक्षणम अदत्तादान विरमॊ मधु मांसस्य वर्जनम ॥ 26 ॥
एष पञ्च विधॊ धर्मॊ बहुशाखः सुखॊदयः देहिभिर धर्मपरमैः कर्तव्यॊ धर्मसंचयः ॥ 27 ॥
[उमा] भगवन संशयं पृष्टस तं मे वयाख्यातुम अर्हसि चातुर्वर्ण्यस्य यॊ धर्मः सवे सवे वर्णे गुणावहः ॥ 28 ॥
बराह्मणे कीदृशॊ धर्मः कषत्रिये कीदृशॊ भवेत वैश्ये किं लक्षणॊ धर्मः शूद्रे किं लक्षणॊ भवेत ॥ 29 ॥
[म] नयायतस ते महाभागे संशयः समुदीरितः भूमिदेवा महाभागाः सदा लॊके दविजातयः ॥ 30 ॥
उपवासः सदा धर्मॊ बराह्मणस्य न संशयः स हि धर्मार्थम उत्पन्नॊ बरह्मभूयाय कल्पते ॥ 31 ॥
तस्य धर्मक्रिया देवि वरतचर्या च नयायतः तथॊपनयनं चैव दविजायैवॊपपद्यते ॥ 32 ॥
गुरु दैवतपूजार्थं सवाध्यायाभ्यसनात्मकः देहिभिर धर्मपरमैश चर्तव्यॊ धर्मसंभवः ॥ 33 ॥
[उमा] भगवन संशयॊ मे ऽतर तं मे वयाख्यातुम अर्हसि चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन परकीर्तय ॥ 34 ॥
[म] रहस्यश्रवणं धर्मॊ वेद वरतनिषेवणम वरतचर्या परॊ धर्मॊ गुरु पादप्रसादनम ॥ 35 ॥
भैक्ष चर्या परॊ धर्मॊ धर्मॊ नित्यॊपवासिता नित्यस्वाध्यायिता धर्मॊ बरह्मचर्याश्रमस तथा ॥ 36 ॥
गुरुणा तव अभ्यनुज्ञातः समावर्तेत वै दविजः विन्देतानन्तरं भार्याम अनुरूपां यथाविधि ॥ 37 ॥
शूद्रान्न वर्जनं धर्मस तथा सत्पथ सेवनम धर्मॊ नित्यॊपवासित्वं बरह्मचर्यं तथैव च ॥ 38 ॥
आहिताग्निर अधीयानॊ जुह्वानः संयतेन्द्रियः विघसाशी यताहारॊ गृहस्थः सत्यवाक शुचिः ॥ 39 ॥
अतिथिव्रतता धर्मॊ धर्मस तरेताग्निधारणम इष्टीश च पशुबन्धांश च विधिपूर्वं समाचरेत ॥ 40 ॥
यज्ञश च परमॊ धर्मस तथाहिंसा च देहिषु अपूर्व भॊजनं धर्मॊ विघसाशित्वम एव च ॥ 41 ॥
भुक्ते परिजने पश्चाद भॊजनं धर्म उच्यते बराह्मणस्य गृहस्थस्य शरॊत्रियस्य विशेषतः ॥ 42 ॥
दम्पत्यॊः समशीलत्वं धर्मश च गृहमेधिनाम गृह्याणां चैव देवानां नित्यं पुष्पबलि करिया ॥ 43 ॥
नित्यॊपलेपनं धर्मस तथा नित्यॊपवासिता सुसंमृष्टॊपलिप्ते च साज्य धूमॊद्गमे गृहे ॥ 44 ॥
एष दविज जने धर्मॊ गार्हस्थ्यॊ लॊकधारणः दविजातीनां सतां नित्यं सदैवैष परवर्तते ॥ 45 ॥
यस तु कषत्रगतॊ देवि तवया धर्म उदीरितः तम अहं ते परवक्ष्यामि तं मे शृणु समाहिता ॥ 46 ॥
कषत्रियस्य समृतॊ धर्मः परजापालनम आदितः निर्दिष्ट फलभॊक्ता हि राजा धर्मेण युज्यते ॥ 47 ॥
परजाः पालयते यॊ हि धर्मेण मनुजाधिपः तस्य धर्मार्जिता लॊकाः परजापालनसंचिताः ॥ 48 ॥
तत्र राज्ञः परॊ धर्मॊ दमः सवाध्याय एव च अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च ॥ 49 ॥
भृत्यानां भरणं धर्मः कृते कर्मण्य मॊघता ॥ 50 ॥
सम्यग दण्डे सथितिर धर्मॊ धर्मॊ वेद करतुक्रियाः वयवहार सथितिर धर्मः सत्यवाक्यरतिस तथा ॥ 51 ॥
आर्तहस्तप्रदॊ राजा परेत्य चेह महीयते गॊब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः अश्वमेध जिताँल लॊकान पराप्नॊति तरिदिवालये ॥ 52 ॥
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस तथा अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च ॥ 53 ॥
वाणिज्यं सत्पथ सथानम आतिथ्यं परशमॊ दमः विप्राणां सवागतं तयागॊ वैश्य धर्मः सनातनः ॥ 54 ॥
तिलान गन्धान रसांश चैव न विक्रीणीत वै कव चित वणिक पथम उपासीनॊ वैश्यः सत्पथम आश्रितः ॥ 55 ॥
सर्वातिथ्यं तरिवर्गस्य यथाशक्ति यथार्हतः शूद्र धर्मः परॊ नित्यं शुश्रूषा च दविजातिषु ॥ 56 ॥
स शूद्रः संशिततपाः सत्यसंधॊ जितेन्द्रियः शुश्रूषन्न अतिथिं पराप्तं तपः संचिनुते महत ॥ 57 ॥
तयक्तहिंसः शुभाचारॊ देवता दविज पूजकः शूद्रॊ धर्मफलैर इष्टैः संप्रयुज्येत बुद्धिमान ॥ 58 ॥
एतत ते सर्वम आख्यातं चातुर्वर्ण्यस्य शॊभने एकैकस्येह सुभगे किम अन्यच छरॊतुम इच्छसि ॥ 59 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 128
Reach this point to mark the section finished.
Continue to अध्याय 129