[भ] ततॊ नारायण सुहृन नारदॊ भगवान ऋषिः शंकरस्यॊमया सार्धं संवादं परत्यभाषत ॥ 1 ॥
तपश चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥ 2 ॥
नानौषधि युते रम्ये नानापुष्पसमाकुले अप्सरॊगणसंकीर्णे भूतसंघ निषेविते ॥ 3 ॥
तत्र देवॊ मुदा युक्तॊ भूतसंघ शतैर वृतः नानारूपैर विरूपैश च दिव्यैर अद्भुतदर्शनैः ॥ 4 ॥
सिंहव्याघ्र गजप्रख्यैः सर्वजातिसमन्वितैः करॊष्टुक दवीपिवदनैर ऋक्षर्षभ मुखैस तथा ॥ 5 ॥
उलूक वदनैर भीमैः शयेनभासमुखैस तथा नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः किंनरैर देवगन्धर्वैर यक्षभूतगणैस तथा ॥ 6 ॥
दिव्यपुष्पसमाकीर्णं दिव्यमाला विभूषितम दिव्यचन्दन संयुक्तं दिव्यधूपेन धूपितम तत सदॊ वृषभाङ्कस्य दिव्यवादित्र नादितम ॥ 7 ॥
मृदङ्गपणवॊद्घुष्टं शङ्खभेरी निनादितम नृत्यद्भिर भूतसंघैश च बर्हिणैश च समन्ततः ॥ 8 ॥
परनृत्ताप्सरसं दिव्यं दिव्यस्त्री गणसेवितम दृष्टिकान्तम अनिर्देश्यं दिव्यम अद्भुतदर्शनम ॥ 9 ॥
स गिरिस तपसा तस्य भूतेशस्य वयरॊचत ॥ 10 ॥
सवाध्यायपरमैर विप्रैर बरह्मघॊषैर विनादितः षट पदैर उपगीतैश च माधवा परतिमॊ गिरिः ॥ 11 ॥
तं महॊत्सव संकाशं भीमरूपधरं पुनः दृष्ट्वा मुनिगणस्यासीत परा परीतिर जनार्दन ॥ 12 ॥
मुनयश च महाभागाः सिद्धाश चैवॊर्ध्व रेतसः मरुतॊ वसवः साध्या विश्वे देवाः सनातनाः ॥ 13 ॥
यक्षा नागाः पिशाचाश च लॊकपाला हुताशनाः भावाश च सर्वे नयग भूतास तत्रैवासन समागताः ॥ 14 ॥
ऋतवः सर्वपुष्पैश च वयकिरन्त महाद्भुतैः ओषध्यॊ जवलमानाश च दयॊतयन्ति सम तद वनम ॥ 15 ॥
विहगाश च मुदा युक्ताः परानृत्यन वयनदंश च ह गिरिपृष्ठेषु रम्येषु वयाहरन्तॊ जनप्रियाः ॥ 16 ॥
तत्र देवॊ गिरितटे दिव्यधातुविभूषिते पर्यङ्क इव विभ्राजन्न उपविष्टॊ महामनाः ॥ 17 ॥
वयाघ्रचर्माम्बर धरः सिंहचर्मॊत्तरच छदः वयालयज्ञॊपवीती च लॊहिताङ्गद भूषणः ॥ 18 ॥
हरिश्मश्रुर जटी भीमॊ भयकर्ता सुरद्विषाम अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥ 19 ॥
दृष्ट्वा तम ऋषयः सर्वे शिरॊभिर अवनीं गतः विमुक्ताः सर्वपापेभ्यः कषान्ता विगतकल्मषाः ॥ 20 ॥
तस्य भूतपतेः सथानं भीमरूपधरं बभौ अप्रधृष्यतरं चैव महॊरगसमाकुलम ॥ 21 ॥
कषणेनैवाभवत सर्वम अद्भुतं मधुसूदन तत सदॊ वृषभाङ्कस्य भीमरूपधरं बभौ ॥ 22 ॥
तम अभ्ययाच छैलसुता भूतस्त्री गणसंवृता हर तुल्याम्बर धरा समानव्रतचारिणी ॥ 23 ॥
बिभ्रती कलशं रौक्मं सर्वतीर्थजलॊद्भवम गिरिस्रवाभिः पुण्याभिः सर्वतॊ ऽनुगता शुभा ॥ 24 ॥
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर बहुविधैस तथा सेवन्ती हिमवत्पार्श्वं हर पार्श्वम उपागमत ॥ 25 ॥
ततः समयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना हर नेत्रे शुभे देवी सहसा सा समावृणॊत ॥ 26 ॥
संवृताभ्यां तु नेत्राभ्यां तमॊ भूतम अचेतनम निर्हॊमं निर वषट्कारं तत सदः सहसाभवत ॥ 27 ॥
जनश च विमनाः सर्वॊ भयत्रास समन्वितः निमीलिते भूतपतौ नष्टसूर्य इवाभवत ॥ 28 ॥
ततॊ वितिमिरॊ लॊकः कषणेन समपद्यत जवाला च महती दीप्ता ललाटात तस्य निःसृता ॥ 29 ॥
तृतीयं चास्य संभूतं नेत्रम आदित्यसंनिभम युगान्तसदृशं दीप्तं येनासौ मथितॊ गिरिः ॥ 30 ॥
ततॊ गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम हरं परणम्य शिरसा ददर्शायतलॊचना ॥ 31 ॥
दह्यमाने वने तस्मिन स शालसरल दरुमे स चन्दनवने रम्ये दिव्यौषधिविदीपिते ॥ 32 ॥
मृगयूथैर दरुतैर भीतैर हर पार्श्वम उपागतैः शरणं चाप्य अविन्दद्भिस तत सदः संकुलं बभौ ॥ 33 ॥
ततॊ नभःस्पृश जवालॊ विद्युल लॊकार्चिर उज्ज्वलः दवादशादित्य सदृशॊ युगान्ताग्निर इवापरः ॥ 34 ॥
कषणेन तेन दग्धः स हिमवान अभवन नगः स धातुशिखराभॊगॊ दीनदग्धवनौषधिः ॥ 35 ॥
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः भगवन्तं परपन्ना सा साञ्जलि परग्रहा सथिता ॥ 36 ॥
उमां शर्वस तदा दृष्ट्वा सत्रीभावागत मार्दवाम पितुर दैन्यम अनिच्छन्तीं परीत्यापश्यत ततॊ गिरिम ॥ 37 ॥
ततॊ ऽभवत पुनः सर्वः परकृतिस्थः सुदर्शनः परहृष्टविहगश चैव परपुष्पितवनद्रुमः ॥ 38 ॥
परकृतिस्थं गिरिं दृष्ट्वा परीता देवी महेश्वरम उवाच सर्वभूतानां पतिं पतिम अनिन्दिता ॥ 39 ॥
भगवन सर्वभूतेश शूलपाणे महाव्रत संशयॊ मे महाञ जातस तं मे वयाख्यातुम अर्हसि ॥ 40 ॥
किमर्थं ते ललाटे वै तृतीयं नेत्रम उत्थितम किमर्थं च गिरिर दग्धः स पक्षिगणकाननः ॥ 41 ॥
किमर्थं च पुनर देव परकृतिस्थः कषणात कृतः तथैव दरुमसंछन्नः कृतॊ ऽयं ते महेश्वर ॥ 42 ॥
[महेष्वर] नेत्रे मे संवृते देवि तवया बाल्याद अनिन्दिते नष्टालॊकस ततॊ लॊकः कषणेन समपद्यत ॥ 43 ॥
नष्टादित्ये तथा लॊके तमॊ भूते नगात्मजे तृतीयं लॊचनं दीप्तं सृष्टं ते रक्षता परजा ॥ 44 ॥
तस्य चाक्ष्णॊ महत तेजॊ येनायं मथितॊ गिरिः तवत्प्रियार्थं च मे देवि परकृतिस्थः कषणात कृतः ॥ 45 ॥
[उमा] भगवन केन ते वक्त्रं चन्द्रवत परियदर्शनम पूर्वं तथैव शरीकान्तम उत्तरं पश्चिमं तथा ॥ 46 ॥
दक्षिणं च मुखं रौद्रं केनॊर्ध्वं कपिला जटाः केन कण्ठश च ते नीलॊ बर्हि बर्ह निभः कृतः ॥ 47 ॥
हस्ते चैतत पिनाकं ते सततं केन तिष्ठति जटिलॊ बरह्म चारी च किमर्थम असि नित्यदा ॥ 48 ॥
एतं मे संशयं सर्वं वद भूतपते ऽनघ स धर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥ 49 ॥
एवम उक्तः स भगवाञ शैलपुत्र्या पिनाक धृक तस्या वृत्त्या च बुद्ध्या च परीतिमान अभवत परभुः ॥ 50 ॥
ततस ताम अब्रवीद देवः सुभगे शरूयताम इति हेतुभिर यैर ममैतानि रूपाणि रुचिरानने ॥ 51 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 127
Reach this point to mark the section finished.
Continue to अध्याय 128