धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 126

  1. [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद आगमैर बहुभिः सफीतॊ भवान नः परथितः कुले ॥ 1 ॥

  2. तवत्तॊ धर्मार्थसंयुक्तम आयत्यां च सुखॊदयम आश्चर्यभूतं लॊकस्य शरॊतुम इच्छाम्य अरिंदम ॥ 2 ॥

  3. अयं च कालः संप्राप्तॊ दुर्लभ जञातिबान्धवः शास्ता च न हि नः कश चित तवाम ऋते भरतर्षभ ॥ 3 ॥

  4. यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ वक्तुम अर्हसि नः परश्नं यत तवां पृच्छामि पार्थिव ॥ 4 ॥

  5. अयं नारायणः शरीमान सर्वपार्थिवसंमतः भवन्तं बहुमानेन परश्रयेण च सेवते ॥ 5 ॥

  6. अस्य चैव समक्षं तवं पर्थिवानां च सर्वशः भरातॄणां च परियार्थं मे सनेहाद भाषितुम अर्हसि ॥ 6 ॥

  7. [व] तस्य तद वचनं शरुत्वा सनेहाद आगतसंभ्रमः भीष्मॊ भागीरथी पुत्र इदं वचनम अब्रवीत ॥ 7 ॥

  8. हन्त ते कथयिष्यामि कथाम अतिमनॊ रमाम अस्य विष्णॊः पुरा राजन परभावॊ ऽयं मया शरुतः ॥ 8 ॥

  9. यश च गॊवृषभाङ्कस्य परभावस तं च मे शृणु रुद्राण्याः संशयॊ यश च दम्पत्यॊस तं च मे शृणु ॥ 9 ॥

  10. वरतं चचार धर्मात्मा कृष्णॊ दवादश वार्षिकम दीक्षितं चागतौ दरष्टुम उभौ नारद पर्वतौ ॥ 10 ॥

  11. कृष्णद्वैपायनश चैव धौम्यश च जपतां वरः देवलः काश्यपश चैव हस्तिकाश्यप एव च ॥ 11 ॥

  12. अपरे ऋषयः सन्तॊ दीक्षा दमसमन्विताः शिष्यैर अनुगताः सर्वे देवकल्पैस तपॊधनैः ॥ 12 ॥

  13. तेषाम अतिथिसत्कारम अर्चनीयं कुलॊचितम देवकी तनयः परीतॊ देवकल्पम अकल्पयत ॥ 13 ॥

  14. हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च उपॊपविविशुः परीता विष्टरेषु महर्षयः ॥ 14 ॥

  15. कथाश चक्रुस ततस ते तु मधुरा धर्मसंहिताः राजर्षीणां सुराणां च ये वसन्ति तपॊधनाः ॥ 15 ॥

  16. ततॊ नारायणं तेजॊ वरतचर्येन्धनॊत्थितम वक्त्रान निःसृत्य कृष्णस्य वह्निर अद्भुतकर्मणः ॥ 16 ॥

  17. सॊ ऽगनिर ददाह तं शैलं स दरुमं स लता कषुपम स पक्षिमृगसंघातं स शवापदसरीसृपम ॥ 17 ॥

  18. मृगैश च विविधाकारैर हाहाभूतम अचेतनम शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम ॥ 18 ॥

  19. स तु वह्निर महाज्वालॊ दग्ध्वा सर्वम अशेषतः विष्णॊः समीपम आगम्य पादौ शिष्यवद अस्पृशत ॥ 19 ॥

  20. ततॊ विष्णुर वनं देष्ट्वा निर्दग्धम अरिकर्शनः सौम्यैर दृष्टिनिपातैस तत पुनः परकृतिम आनयत ॥ 20 ॥

  21. तथैव स गिरिर भूयः परपुष्पितलता दरुमः स पक्षिगणसंघुष्टः स शवापदसरीसृपः ॥ 21 ॥

  22. तद अद्भुतम अचिन्त्यं च दृष्ट्वा मुनिगणस तदा विस्मितॊ हृष्टलॊमा च बभूवास्राविलेक्षणः ॥ 22 ॥

  23. ततॊ नारायणॊ दृष्ट्वा तान ऋषीन विस्मयान्वितान परश्रितं मधुरं सनिग्धं पप्रच्छ वदतां वरः ॥ 23 ॥

  24. किम अस्य ऋषिपूगस्य तयक्तसङ्गस्य नित्यशः निर्ममस्यागमवतॊ विस्मयः समुपागतः ॥ 24 ॥

  25. एतम एं संशयं सर्वं याथातथ्यम अनिन्दिताः ऋषयॊ वक्तुम अर्हन्ति निश्चितार्थं तपॊधनाः ॥ 25 ॥

  26. [रसयह] भवान विसृजते लॊकान भवान संहरते पुनः भवाञ शीतं भवान उष्णं भवान एव परवर्षति ॥ 26 ॥

  27. पृथिव्यां यानि भूतानि सथावराणि चराणि च तेषां पिता तवं माता च परभुः परभव एव च ॥ 27 ॥

  28. एतन नॊ विस्मयकरं परशंस मधुसूदन तवम एवार्हसि कल्याण वक्तुं वह्नेर विनिर्गमम ॥ 28 ॥

  29. ततॊ विगतसंत्रासा वयम अप्य अरिकर्शन यच छरुतं यच च दृष्टं नस तत परवक्ष्यामहे हरे ॥ 29 ॥

  30. [वासुदेव] एतत तद वैष्णवं तेजॊ मम वक्त्राद विनिःसृतम कृष्ण वर्त्मा युगान्ताभॊ येनायं मथितॊ गिरिः ॥ 30 ॥

  31. ऋषयश चार्तिम आपन्ना जितक्रॊधा जितेन्द्रियाः भवन्तॊ वयथिताश चासन देवकल्पास तपॊधनाः ॥ 31 ॥

  32. वरतचर्या परीतस्य तपस्विव्रतसेवया मम वह्निः समुद्भूतॊ न वै वयथितुम अर्हथ ॥ 32 ॥

  33. वरतं चर्तुम इहायातस तव अहं गिरिम इमं शुभम पुत्रं चात्मसमं वीर्ये तपसा सरष्टुम आगतः ॥ 33 ॥

  34. ततॊ ममात्मा यॊ देहे सॊ ऽगनिर भूत्वा विनिःसृतः गतश च वरदं दरष्टुं सर्वलॊकपितामहम ॥ 34 ॥

  35. तेन चात्मानुशिष्टॊ मे पुत्रत्वे मुनिसत्तमाः तेजसॊ ऽरधेन पुत्रस ते भवितेति वृषध्वजः ॥ 35 ॥

  36. सॊ ऽयम अह्निर उपागम्य पादमूले ममान्तिकम शिष्यवत परिचर्याथ शान्तः परकृतिम आगतः ॥ 36 ॥

  37. एतद अस्य रहस्यं वः पद्मनाभस्य धीमतः मया परेम्णा समाख्यातं न भीः कार्या तपॊधनाः ॥ 37 ॥

  38. सर्वत्रगतिर अव्यग्रा भवतां दीर्घदर्शनाः तपस्विव्रतसंदीप्ता जञानविज्ञानशॊभिताः ॥ 38 ॥

  39. यच छरुतं यच च वॊ दृष्टं दिवि वा यदि वा भुवि आश्चर्यं परमं किं चित तद भवन्तॊ बरुवन्तु मे ॥ 39 ॥

  40. तस्यामृत निकाशस्य वान मधॊर अस्ति मे सपृहा भवद्भि कथितस्येह तपॊवननिवासिभिः ॥ 40 ॥

  41. यद्य अप्य अहम अदृष्टं वा दिव्यम अद्भुतदर्शनम दिवि वा भुवि वा किं चित पश्याम्य अमलदर्शनाः ॥ 41 ॥

  42. परकृतिः सा मम परा न कव चित परतिहन्यते न चात्मगतम ऐश्वर्यम आश्चर्यं परतिभाति मे ॥ 42 ॥

  43. शरद्धेयः कथितॊ हय अर्थः सज्जन शरवणं गतः चिरं तिष्ठति मेदिन्यां शैले लेख्यम इवार्पितम ॥ 43 ॥

  44. तद अहं सज्जन मुखान निःसृतं तत्समागमे कथयिष्याम्य अहर अहर बुद्धिदीप करं नृणाम ॥ 44 ॥

  45. ततॊ मुनिगणाः सर्वे परश्रिताः कृष्ण संनिधौ नेत्रैः पद्मदल परख्यैर अपश्यन्त जनार्दनम ॥ 45 ॥

  46. वर्धयन्तस तथैवान्ये पूजयन्तस तथापरे वाग्भिर ऋग भाषितार्थाभिः सतुवन्तॊ मधुसूदनम ॥ 46 ॥

  47. ततॊ मुनिगणाः सर्वे नारदं देव दर्शनम तदा नियॊजयाम आसुर वचने वाक्यकॊविदम ॥ 47 ॥

  48. यद आश्चर्यम अचिन्त्यं च गिरौ हिमवति परभॊ अनुभूतं मुनिगणैस तीर्थयात्रा परायणैः ॥ 48 ॥

  49. तद भवान ऋषिसंघस्य हितार्थं सर्वचॊदितः यथादृष्टं हृषीकेशे सर्वम आख्यातुम अर्हति ॥ 49 ॥

  50. एवम उक्तः स मुनिभिर नारदॊ भगवान ऋषिः कथयाम आस देवर्षिः पूर्ववृत्तां कथां शुभाम ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 127

Previous: अध्याय 125