[य] साम्ना वापि परदाने वा जयायः किं भवतॊ मतम परब्रूहि भरतश्रेष्ठ यद अत्र वयतिरिच्यते ॥ 1 ॥
[भ] साम्ना परसाद्यते कश चिद दानेन च तथापरः पुरुषः परकृतिं जञात्वा तयॊर एकतरं भजेत ॥ 2 ॥
गुणांस तु शृणु मे राजन सान्त्वस्य भरतर्षभ दारुणान्य अपि भूतानि सान्त्वेनाराधयेद यथा ॥ 3 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गृहीत्वा रक्षसा मुक्तॊ दविजातिः कानने यथा ॥ 4 ॥
कश चित तु बुद्धिसंपन्नॊ बराह्मणॊ विजने वने गृहीतः कृच्छ्रम आपन्नॊ रक्षसा भक्षयिष्यता ॥ 5 ॥
स बुद्धिश्रुत संपन्नस तं दृष्ट्वातीव भीषणम सामैवास्मिन परयुयुजे न मुमॊह न विव्यथे ॥ 6 ॥
रक्षस तु वाचा संपूज्य परश्नं पप्रच्छ तं दविजम मॊक्ष्यसे बरूहि मे परश्नं केनास्मि हरिणः कृशः ॥ 7 ॥
मुहूर्तम अथ संचिन्त्य बराह्मणस तस्य रक्षसः आभिर गाथाभिर अव्यग्रः परश्नं परतिजगाद ह ॥ 8 ॥
विदेशस्थॊ विलॊकस्थॊ विना नूनं सुहृज्जनैः विषयान अतुलान भुङ्क्षे तेनासि हरिणः कृशः ॥ 9 ॥
नूनं मित्राणि ते रक्षः साधूपचरितान्य अपि सवदॊषाद अपरज्यन्ते तेनासि हरिणः कृशः ॥ 10 ॥
धनैश्वर्याधिकाः सतब्धास तवद गुणैः परमावराः अवजानन्ति नूनं तवां तेनासि हरिणः कृशः ॥ 11 ॥
गुणवान विगुणान अन्यान नूनं पश्यसि सत्कृतान पराज्ञॊ ऽपराज्ञान विनीतात्मा तेनासि हरिणः कृशः ॥ 12 ॥
अवृत्त्या कलिश्यमानॊ ऽपि वृत्त्युपायान विहर्हयन माहात्म्याद वयथसे नूनं तेनासि हरिणः कृशः ॥ 13 ॥
संपीड्यात्मानम आर्यत्वात तवया कश चिद उपस्कृतः जितं तवां मन्यते साधॊ तेनासि हरिणः कृशः ॥ 14 ॥
कलिश्यमानान विमार्गेषु कामक्रॊधावृतात्मनः मन्ये नु धयायसि जनांस तेनासि हरिणः कृशः ॥ 15 ॥
पराज्ञैः संभावितॊ नूनं न पराज्ञैर उपसंहितः हरीमान अमर्षी दुर्वृत्तैस तेनासि हरिणः कृशः ॥ 16 ॥
नूनं मित्र मुखः शत्रुः कश चिद आर्यवद आचरन वञ्चयित्वा गतस तवां वै तेनासि हरिणः कृशः ॥ 17 ॥
परकाशार्थ गतिर नूनं रहस्यकुशलः कृती तज्ज्ञैर न पूज्यसे नूनं तेनासि हरिणः कृशः ॥ 18 ॥
असत्स्व अभिनिविष्टेषु बरुवतॊ मुक्तसंशयम गुणास ते न विराजन्ते तेनासि हरिणः कृशः ॥ 19 ॥
धनबुद्धिश्रुतैर हीनः केवलं तेनसान्वितः महत परार्थयसे नूनं तेनासि हरिणः कृशः ॥ 20 ॥
तपः परणिहितात्मानं मन्ये तवारण्य काङ्क्षिणम बन्धुवर्गॊ न गृह्णाति तेनासि हरिणः कृशः ॥ 21 ॥
नूनम अर्थवतां मध्ये तव वाक्यम अनुत्तमम न भाति काले ऽभिहितं तेनासि हरिणः कृशः ॥ 22 ॥
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम अनुनेतुं न शक्नॊषि तेनासि हरिणः कृशः ॥ 23 ॥
नूनम आसंजयित्वा ते कृत्ये कस्मिंश चिद ईप्सिते कश चिद अर्थयते ऽतयर्थं तेनासि हरिणः कृशः ॥ 24 ॥
नूनं तवा सवगुणापेक्षं पूजयानं सुहृद धरुवम मयार्थ इति जानाति तेनासि हरिणः कृशः ॥ 25 ॥
अन्तर्गतम अभिप्रायं न नूनं लज्जयेच्छसि विवक्तुं पराप्ति शैथिल्यात तेनासि हरिणः कृशः ॥ 26 ॥
नाना बुद्धिरुचीँल लॊके मनुष्यान नूनम इच्छसि गरहीतुं सवगुणैः सर्वांस तेनासि हरिणः कृशः ॥ 27 ॥
अविद्वान भीरुर अल्पार्थॊ विद्या विक्रमदानजम यशः परार्थयसे नूनं तेनासि हरिणः कृशः ॥ 28 ॥
चिराभिलषितं किं चित फलम अप्राप्तम एव ते कृतम अन्यैर अपहृतं तेनासि हरिणः कृशः ॥ 29 ॥
नूनम आत्मकृतं दॊषम अपश्यन किं चिद आत्मनि अकारणे ऽभिशस्तॊ ऽसि तेनासि हरिणः कृशः ॥ 30 ॥
सुहृदाम अप्रमत्तानाम अप्रमॊक्ष्यार्थ हानिजम दुःखम अर्थगुणैर हीनं तेनासि हरिणः कृशः ॥ 31 ॥
साधून गृहस्थान दृष्ट्वा च तथासाधून वनेचरान मुक्तांश चावसथे सक्तांस तेनासि हरिणः कृशः ॥ 32 ॥
धर्म्यम अर्थं च काले च देशे चाभिहितं वचः न परतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥ 33 ॥
दत्तान अकुशलैर अर्थान मनीषी संजिजीविषुः पराप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ 34 ॥
पापान विवर्धतॊ देष्ट्वा कल्याणांश चावसीदतः धरुवं मृगयसे यॊग्यं तेनासि हरिणः कृशः ॥ 35 ॥
परस्परविरुद्धानां परियं नूनं चिकीर्षसि सुहृदाम अविरॊधेन तेनासि हरिणः कृशः ॥ 36 ॥
शरॊत्रियांश च विकर्मस्थान पराज्ञांश चाप्य अजितेन्द्रियान मन्ये ऽनुध्यायसि जनांस तेनासि हरिणः कृशः ॥ 37 ॥
एवं संपूजितं रक्षॊविप्रं तं परत्यपूजयत सखायम अकरॊच चैनं संयॊज्यार्थैर मुमॊच ह ॥ 38 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 125
Reach this point to mark the section finished.
Continue to अध्याय 126