[य] सत सत्रीणां समुदाचारं सव धर्मभृतां वर शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह ॥ 1 ॥
[भ] सर्वज्ञां सर्वधर्मज्ञां देवलॊके मनस्विनीम कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥ 2 ॥
केन वृत्तेन कल्याणि समाचारेण केन वा विधूय सर्वपापानि देवलॊकं तवम आगता ॥ 3 ॥
हुताशनशिखेव तवं जवलमाना सवतेजसा सुता ताराधिपस्येव परभया दिवम आगता ॥ 4 ॥
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा विमानस्था शुभे भासि सहस्रगुणम ओजसा ॥ 5 ॥
न तवम अल्पेन तपसा दानेन नियमेन वा इमं लॊकम अनुप्राप्ता तस्मात तत्त्वं वदस्व मे ॥ 6 ॥
इति पृष्टा सुमनया मधुरं चारुहासिनी शाण्डिली निभृतं वाक्यं सुमनाम इदम अब्रवीत ॥ 7 ॥
नाहं काषायवसना नापि वल्कलधारिणी न च मुण्डा न जटिला भूत्वा देवत्वम आगता ॥ 8 ॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च अप्रमत्ता च भर्तारं कदा चिन नाहम अब्रुवम ॥ 9 ॥
देवतानां पितॄणां च बराह्मणानां च पूजने अप्रमत्ता सदा युक्ता शवश्रू शवशुर वर्तिनी ॥ 10 ॥
पैशुन्ये न परवर्तामि न ममैतन मनॊगतम अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥ 11 ॥
असद वा हसितं किं चिद अहितं वापि कर्मणा रहस्यम अरहस्यं वा न परवर्तामि सर्वथा ॥ 12 ॥
कार्यार्थे निर्गतं चापि भर्तारं गृहम आगतम आसनेनॊपसंयॊज्य पूजयामि समाहिता ॥ 13 ॥
यद यच च नाभिजानाति यद भॊज्यं नाभिनन्दति भक्ष्यं वाप्य अथ वा लेह्यं तत सर्वं वर्जयाम अहम ॥ 14 ॥
कुटुम्बार्थे समानीतं यत किं चित कार्यम एव तु परातर उत्थाय तत सर्वं कारयामि करॊमि च ॥ 15 ॥
परवासं यदि मे भर्ता याति कार्येण केन चित मङ्गलैर बहुभिर युक्ता भवामि नियता सदा ॥ 16 ॥
अञ्जनं रॊचनां चैव सनानं माल्यानुलेपनम परसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ 17 ॥
नॊत्थापयामि भर्तारं सुखसुप्तम अहं सदा आतुरेष्व अपि कार्येषु तेन तुष्यति मे मनः ॥ 18 ॥
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ 19 ॥
इमं धर्मपथं नारी पालयन्ती समाहिता अरुन्धतीव नारीणां सवर्गलॊके महीयते ॥ 20 ॥
[भ] एतद आख्याय सा देवी सुमनायै तपस्विनी पतिधर्मं महाभागा जगामादर्शनं तदा ॥ 21 ॥
यश चेदं पाण्डवाख्यानं पठेत पर्वणि पर्वणि स देवलॊकं संप्राप्य नन्दने सुसुखं वसेत ॥ 22 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 124
Reach this point to mark the section finished.
Continue to अध्याय 125