धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 123

  1. [भ] एवम उक्तः स भगवान मैत्रेयं परत्यभाषत दिष्ट्यैवं तवं विजानासि दिष्ट्या ते बुद्धिर ईदृशी लॊकॊ हय अयं गुणान एव भूयिष्ठं सम परशंसति ॥ 1 ॥

  2. रूपमानवयॊ मानश्री मानाश चाप्य असंशयम दिष्ट्या नाभिभवन्ति तवां दैवस ते ऽयम अनुग्रहः यत ते भृशतरं दानाद वर्तयिष्यामि तच छृणु ॥ 2 ॥

  3. यानीहागम शास्त्राणि याश च काश चित परवृत्तयः तानि वेदं पुरस्कृत्य परवृत्तानि यथाक्रमम ॥ 3 ॥

  4. अहं दानं परशंसामि भवान अपि तपः शरुते तपः पवित्रं वेदस्य तपः सवर्गस्य साधनम ॥ 4 ॥

  5. तपसा महद आप्नॊति विद्यया चेति नः शरुतम तपसैव चापनुदेद यच चान्यद अपि दुष्कृतम ॥ 5 ॥

  6. यद यद धि किं चित संधाय पुरुषस तप्यते तपः सर्वम एतद अवाप्नॊति बराह्मणॊ वेदपारगः ॥ 6 ॥

  7. दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम सर्वं वै तपसाभ्येति तपॊहि बलवत्तरम ॥ 7 ॥

  8. सुरापॊ ऽसंमतादायी भरूणहा गुरुतल्पगः तपसा तरते सर्वम एनसश च परमुच्यते ॥ 8 ॥

  9. सर्वविद्यस तु चक्षुष्मान अपि यादृश तादृशः तपस्विनौ च ताव आहुस ताभ्यां कार्यं सदा नमः ॥ 9 ॥

  10. सर्वे पूज्याः शरुतधनास तथैव च तपस्विनः दानप्रदाः सुखम्प्रेत्य पराप्नुवन्तीह च शरियम ॥ 10 ॥

  11. इमं च बरह्मलॊकं च लॊकं च बलवत्तरम अन्नदानैः सुकृतिनः परतिपद्यन्ति लौकिकाः ॥ 11 ॥

  12. पूजिताः पूजयन्त्य एतान मानिता मानयन्ति च अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते ॥ 12 ॥

  13. अकर्ता चैव कर्ता च लभते यस्य यादृशम यद्य एवॊर्ध्वं यद्य अवाक्च तवं लॊकम अभियास्यसि ॥ 13 ॥

  14. पराप्स्यसे तवन्न अपानानि यानि दास्यसि कानि चित मेधाव्य असि कुले जातः शरुतवान अनृशंसवान ॥ 14 ॥

  15. कौमार दारव्रतवान मैत्रेय निरतॊ भव एतद गृहाण परथमं परशस्तं गृहमेधिनाम ॥ 15 ॥

  16. यॊ भर्ता वासितातुष्टॊ भर्तुस तुष्टा च वासिता यस्मिन्न एवं कुले सर्वं कल्याणं तत्र वर्तते ॥ 16 ॥

  17. अद्भिर गात्रान मलम इव तमॊ ऽगनिप्रभया यथा दानेन तपसा चैव सर्वपापम अपॊह्यते ॥ 17 ॥

  18. सवस्ति पराप्नुहि मैत्रेय गृहान साधु वरजाम्य अहम एतन मनसि कर्तव्यं शरेय एवं भविष्यति ॥ 18 ॥

  19. तं परणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम सवस्ति पराप्नॊतु भगवान इत्य उवाच कृताञ्जलिः ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 124

Previous: अध्याय 122