धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 122

  1. [भ] एवम उक्तः परत्युवाच मैत्रेयः कर्म पूजकः अत्यन्तं शरीमति कुले जातः पराज्ञॊ बहुश्रुतः ॥ 1 ॥

  2. असंशयं मह पराज्ञ यथैवात्थ तथैव तत अनुज्ञातस तु भवता किं चिद बरूयाम अहं विभॊ ॥ 2 ॥

  3. [व] यद यद इच्छसि मैत्रेय यावद यावद यथातथा बरूहि तावन महाप्राज्ञ शुश्रूषे वचनं तव ॥ 3 ॥

  4. [म] निर्दॊषं निर्मलं चैव वचनं दानसंहितम विद्या तपॊभ्यां हि भवान भावितात्मा न संशयः ॥ 4 ॥

  5. भवतॊ भावितात्मत्वाद दायॊ ऽयं सुमहान मम भूयॊ बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ॥ 5 ॥

  6. अपि मे दर्शनाद एव भवतॊ ऽभयुदयॊ महान मन्ये भवत्प्रसादॊ ऽयं तद धि कर्म सवभावतः ॥ 6 ॥

  7. तपः शरुतं च यॊनिश चाप्य एतद बराह्मण्य कारणम तरिभिर गुणैः समुदितस ततॊ भवति वै दविजः ॥ 7 ॥

  8. तस्मिंस तृप्ते च तृप्यन्ते पितरॊ दैवतानि च न हि शरुतवतां किं चिद अधिकं बराह्मणाद ऋते ॥ 8 ॥

  9. यथा हि सुकृते कषेत्रे फलं विन्दति मानवः एवं दत्त्वा शरुतवति फलं दाता समश्नुते ॥ 9 ॥

  10. बराह्मणश चेन न विद्येत शरुतवृत्तॊपसंहितः परतिग्रहीता दानस्य मॊघं सयाद धनिनां धनम ॥ 10 ॥

  11. अदन हय अविद्वान हन्त्य अन्नम अद्यमानं च हन्ति तम तं च हन्यति यस्यान्नं स हत्वा हन्यते ऽबुधः ॥ 11 ॥

  12. परभुर हय अन्नम अदन विद्वान पुनर जनयतीश्वरः स चान्नाज जायते तस्मात सूक्ष्म एव वयतिक्रमः ॥ 12 ॥

  13. यद एव ददतः पुण्यं तद एव परतिगृह्णतः न हय एकचक्रं वर्तेत इत्य एवम ऋषयॊ विदुः ॥ 13 ॥

  14. यत्र वै बराह्मणाः सन्ति शरुतवृत्तॊपसंहिताः तत्र दानफलं पुण्यम इह चामुत्र चाश्नुते ॥ 14 ॥

  15. ये यॊनिशुद्धाः सततं तपस्य अभिरता भृशम दानाध्ययनसंपन्नास ते वै पूज्यतमाः सदा ॥ 15 ॥

  16. तैर हि सद्भिः कृतः पन्थाश चेतयानॊ न मुह्यते ते हि सवर्गस्य नेतारॊ यज्ञवाहाः सनातनाः ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 123

Previous: अध्याय 121