धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 121

  1. [य] विद्या तपश च दानं च किम एतेषां विशिष्यते पृच्छामि तवा सतां शरेष्ठ तन मे बरूहि पितामह ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ 2 ॥

  3. कृष्ण दवैपायनॊ राजन्न अज्ञाच चरितं चरन वाराणस्याम उपातिष्ठन मैत्रेयं सवैरिणी कुले ॥ 3 ॥

  4. तम उपस्थितम आसीनं जञात्वा स मुनिसत्तमम अर्चित्वा भॊजयाम आस मैत्रेयॊ ऽशनम उत्तमम ॥ 4 ॥

  5. तदन्नम उत्तमं भुक्त्वा गुणवत सार्वकामिकम परतिष्ठमानॊ ऽसमयत परीतः कृष्णॊ महामनाः ॥ 5 ॥

  6. तम उत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णम अब्रवीत कारणं बरूहि धर्मात्मन यॊ ऽसमयिष्ठाः कुतश च ते तपस्विनॊ धृतिमतः परमॊदः समुपागतः ॥ 6 ॥

  7. एतत पृच्छामि ते विद्वन्न अभिवाद्य परणम्य च आत्मनश च तपॊ भाग्यं महाभाग्यं तथैव च ॥ 7 ॥

  8. पृथग आचरतस तात पृथग आत्मनि चात्मनॊः अल्पान्तरम अहं मन्ये विशिट्षम अपि वा तवया ॥ 8 ॥

  9. [व] अतिच्छेदातिवादाभ्यां समयॊ ऽयं समुपागतः असत्यं वेद वचनं कस्माद वेदॊ ऽनृतं वदेत ॥ 9 ॥

  10. तरीण्य एव तु पदान्य आहुः पुरुषस्यॊत्तमं वरतम न दरुह्येच चैव दद्याच च सत्यं चैव परं वदेत इदानीं चैव नः कृत्यं पुरस्ताच च परं समृतम ॥ 10 ॥

  11. अल्पॊ ऽपि तादृशॊ दायॊ भवत्य उत महाफलः तृषिताय च यद दत्तं हृदयेनानसूयता ॥ 11 ॥

  12. तृषितस तृषिताय तवं दत्त्वैतद अशनं मम अजैषीर महतॊ लॊकान महायज्ञैर इवाभिभॊ अतॊ दानपवित्रेण परीतॊ ऽसमि तपसैव च ॥ 12 ॥

  13. पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम पुण्यश च वाति गन्धस ते मन्ये कर्मविधानतः ॥ 13 ॥

  14. अधिकं मार्जनात तात तथैवाप्य अनुलेपनात शुभं सर्वपवित्रेभ्यॊ दानम एव परं भवेत ॥ 14 ॥

  15. यानीमान्य उत्तमानीह वेदॊक्तानि परशंससि तेषां शरेष्ठतमं दानम इति मे नास्ति संशयः ॥ 15 ॥

  16. दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ते हि पराणस्य दातारस तेषु धर्मः परतिष्ठितः ॥ 16 ॥

  17. यथा वेदाः सवधीताश च यथा चेन्द्रियसंयमः सर्वत्यागॊ यथा चेह तथा दानम अनुत्तमम ॥ 17 ॥

  18. तवं हि तात सुखाद एव सुखम एष्यसि शॊभनम सुखात सुखतर पराप्तिम आप्नुते मतिमान नरः ॥ 18 ॥

  19. तन नः परत्यक्षम एवेदम उपलब्धम असंशयम शरीमन्तम आप्नुवन्त्य अर्था दानं यज्ञस तथा सुखम ॥ 19 ॥

  20. सुखाद एव परं दुःखं दुःखाद अन्यत परं सुखम दृश्यते हि महाप्राज्ञ नियतं वै सवभावतः ॥ 20 ॥

  21. तरिविधानीह वृत्तानि नरस्याहुर मनीषिणः पुण्यम अन्यत पापम अन्यन न पुण्यं न च पापकम ॥ 21 ॥

  22. न वृत्तं मन्यते ऽनयस्य मन्यते ऽनयस्य पापकम तथा सवकर्म निर्वृत्तं न पुण्यं न च पापकम ॥ 22 ॥

  23. रमस्वैधस्व मॊदस्य देहि चैव यजस्व च न तवाम अभिभविष्यन्ति वैद्या न च तपस्विनः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 122

Previous: अध्याय 120