[भ] कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान तयक्त्वा च कीटतां राजंश चचार विपुलं तपः ॥ 1 ॥
तस्य धर्मार्थविदुषॊ दृष्ट्वा तद विपुलं तपः आजगाम दविजश्रेष्ठः कृष्णद्वैपायनस तदा ॥ 2 ॥
[व] कषात्रं चैव वरतं कीट भूतानां परिपालनम कषत्रं चैव वरतं धयायंस ततॊ विप्रत्वम एष्यसि ॥ 3 ॥
पाहि सर्वाः परजाः सम्यक शुभाशुभविद आत्मवान शुभैः संविभजन कामैर अशुभानां च पावनैः ॥ 4 ॥
आत्मवान भव सुप्रीतः सवधर्मचरणे रतः कषात्रीं तनुं समुत्सृज्य ततॊ विप्रत्वम एष्यसि ॥ 5 ॥
[भ] सॊ ऽथारण्यम अभिप्रेत्य पुनर एव युधिष्ठिर महर्षेर वचनं शरुत्वा परजा धर्मेण पाल्य च ॥ 6 ॥
अचिरेणैव कालेन कीटः पार्थिव सत्तम परजापालनधर्मेण परेत्य विप्रत्वम आगतः ॥ 7 ॥
ततस तं बराह्मणं दृष्ट्वा पुनर एव महायशाः आजगाम महाप्राज्ञः कृष्णद्वैपायनस तदा ॥ 8 ॥
[व] भॊ भॊ विप्रर्षभ शरीमन मा वयथिष्ठाः कथं चन शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु उपपद्यति धर्मज्ञ यथा धर्मं यथागमम ॥ 9 ॥
तस्मान मृत्युभयात कीट मा वयथिष्ठाः कथं चन धर्मलॊपाद भयं ते सयात तस्माद धर्मं चरॊत्तमम ॥ 10 ॥
[क] सुखात सुखतरं पराप्तॊ भगवंस तवत्कृते हय अहम धर्ममूलां शरियं पराप्य पाप्मा नष्ट इहाद्य मे ॥ 11 ॥
[भ] भगवद वचनात कीटॊ बराह्मण्यं पराप्य दुर्लभम अकरॊत पृथिवीं राजन यज्ञयूप शताङ्किताम ततः सालॊक्यम अगमद बरह्मणॊ बरह्म वित्तमः ॥ 12 ॥
अवाप च परं कीटः पार्थ बरह्म सनातनम सवकर्मफलनिर्वृत्तं वयासस्य वचनात तदा ॥ 13 ॥
ते ऽपि यस्मात सवभावेन हताः कषत्रिय पुंगवाः संप्राप्तास ते गतिं पुण्यां तस्मान मा शॊच पुत्रक ॥ 14 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 120
Reach this point to mark the section finished.
Continue to अध्याय 121