[व] शुभेन कर्मणा यद वै तिर्यग्यॊनौ न मुह्यसे ममैव कीट तत कर्म येन तवं न परमुह्यसे ॥ 1 ॥
अहं हि दर्शनाद एव तारयामि तपॊबलात तपॊबलाद धि बलवद बलम अन्यन न विद्यते ॥ 2 ॥
जानामि पापैः सवकृतैर गतं तवां कीट कीटताम अवाप्स्यसि परं धर्मं धर्मस्थॊ यदि मन्यसे ॥ 3 ॥
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश च ये धर्माद अपि मनुष्येषु कामॊ ऽरथश च यथा गुणैः ॥ 4 ॥
वाग्बुद्धिपाणिपादैश चाप्य उपेतस्य विपश्चितः किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ 5 ॥
जीवन हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययॊः बरुवन्न अपि कथं पुण्यां तत्र कीट तवम एष्यसि ॥ 6 ॥
गुणभूतानि भूतानि तत्र तवम उपभॊक्ष्यसे तत्र ते ऽहं विनेष्यामि बरह्मत्वं यत्र चेच्छसि ॥ 7 ॥
स तथेति परतिश्रुत्य कीटॊ वर्त्मन्य अतिष्ठत तम ऋषिं दरष्टुम अगमत सर्वास्व अन्यासु यॊनिषु ॥ 8 ॥
शवाविद गॊधा वराहाणां तथैव मृगपक्षिणाम शवपाकवैश्य शूद्राणां कषत्रियाणां च यॊनिषु ॥ 9 ॥
स कीटेत्य एवम आभाष्य ऋषिणा सत्यवादिना परतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥ 10 ॥
[क] इदं तद अतुलं सथानम ईप्षितं दशभिर गुणैः यद अहं पराप्य कीटत्वम आगतॊ राजपुत्रताम ॥ 11 ॥
वहन्ति माम अतिबलाः कुञ्जरा हेममालिनः सयन्दनेषु च काम्बॊजा युक्ताः परमवाजिनः ॥ 12 ॥
उष्ट्राश्वतर युक्तानि यानानि च वहन्ति माम स बान्धवः सहामात्यश चाश्नामि पिशितौदनम ॥ 13 ॥
गृहेषु सुनिवासेषु सुखेषु शयनेषु च परार्ध्येषु महाभाग सवपामीह सुपूजितः ॥ 14 ॥
सर्वेष्व अपररात्रेषु सूतमागधबन्दिनः सतुवन्ति मां यथा देवं महेन्द्रं परियवादिनः ॥ 15 ॥
परसादात सत्यसंधस्य भवतॊ ऽमिततेजसः यद अहं कीटतां परार्य संप्राप्तॊ राजपुत्रताम ॥ 16 ॥
नमस ते ऽसतु महाप्राज्ञ किं करॊमि परशाधि माम तवत तपॊबलनिर्दिष्टम इदं हय अधितगं मया ॥ 17 ॥
[व] अर्चितॊ ऽहं तवया राजन वाग्भिर अद्य यदृच्छया अद्य ते कीटतां पराप्य समृतिर जाताजुगुप्सिता ॥ 18 ॥
न तु नाशॊ ऽसति पापस्य यत तवयॊपचितं पुरा शूद्रेणार्थ परधानेन नृशंसेनाततायिना ॥ 19 ॥
मम ते दर्शनं पराप्तं तच चैव सुकृतं पुरा तिर्यग्यॊनौ सम जातेन मम चाप्य अर्चनात तथा ॥ 20 ॥
इतस तवं राजपुत्रत्वाद बराह्मण्यं समवाप्स्यसि गॊब्राह्मण कृते पराणान हुत्वात्मीयान रणाजिरे ॥ 21 ॥
राजपुत्र सुखं पराप्य ऋतूंश चैवाप्तदक्षिणान अथ मॊदिष्यसे सवर्गे बरह्मभूतॊ ऽवययः सुखी ॥ 22 ॥
तिर्यग्यॊनियाः शूद्रताम अभ्युपैति; शूद्रॊ वैश्यत्वं कषत्रियत्वं च वैश्यः वृत्तश्लाघी कषत्रियॊ बराह्मणत्वं; सवर्गं पुण्यं बराह्मणः साधुवृत्तः ॥ 23 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 119
Reach this point to mark the section finished.
Continue to अध्याय 120