[य] कीदृशे पुरुषे तात सत्रीषु वा भरतर्षभ शरीः पद्मा वसते नित्यं तन मे बरूहि पितामह ॥ 1 ॥
[भ] अत्र ते वर्तयिष्यामि यथादृष्टं यथा शरुतम रुक्मिणी देवकीपुत्र संनिधौ पर्यपृच्छत ॥ 2 ॥
नारायणस्याङ्क गतां जवलन्तीं; दृष्ट्वा शरियं पद्मसमान वक्त्राम कौतूहलाद विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ॥ 3 ॥
कानीह भूतान्य उपसेवसे तवं; संतिष्ठती कानि न सेवसे तवम तानि तरिलॊकेश्वर भूतकान्ते; तत्त्वेन मे बरूहि महर्षिकन्ये ॥ 4 ॥
एवं तदा शरीर अभिभाष्यमाणा; देव्या समक्षं गरुड धवजस्य उवाच वाक्यं मधुराभिधानं; मनॊहरं चन्द्र मुखी परसन्ना ॥ 5 ॥
वसामि सत्ये सुभगे परगल्भे; दक्षे नरे कर्मणि वर्तमाने नाकर्म शीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्व असूये ॥ 6 ॥
ये चाल्पतेजॊबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्त मनॊरथेषु ॥ 7 ॥
यश चात्मनि परार्थयते न किं चिद; यश च सवभावॊपहतान्तर आत्मा तेष्व अल्पसंतॊष रतेषु नित्यं; नरेषु नाहं निवसामि देवि ॥ 8 ॥
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥ 9 ॥
सत्रीषु कषान्तासु दान्तासु देवद्विज परासु च वसामि सत्यशीलासु सवभावनिरतासु च ॥ 10 ॥
परकीर्णभाण्डाम अनवेक्ष्य कारिणीं; सदा च भर्तुः परतिकूलवादिनीम परस्य वेश्माभिरताम अलज्जाम; एवंविधां सत्रीं परिवर्जयामि ॥ 11 ॥
लॊकाम अचॊक्षाम अवलेहिनीं च; वयपेतधैर्यां कलहप्रियां च निद्राभिभूतां सततं शयानाम; एवंविधां सत्रीं परिवर्जयामि ॥ 12 ॥
सत्यासु नित्यं परियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु वसामि नारीषु पतिव्रतासु; कल्याण शीलासु विभूषितासु ॥ 13 ॥
यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ॥ 14 ॥
शैलेषु गॊष्ठेषु तथा वनेषु; सरःसु फुल्लॊत्पलपङ्कजेषु नदीषु हंसस्वननादितासु; करौञ्चावघुष्ट सवरशॊभितासु ॥ 15 ॥
विस्तीर्णकूलह्रद शॊभितासु; तपस्विसिद्धद्विज सेवितासु वसामि नित्यं सुबहूदकासु; सिंहैर गजैश चाकुलितॊदकासु मत्ते गजे गॊवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम ॥ 16 ॥
यस्मिन गृहे हूयते हव्यवाहॊ; गॊब्राह्मणश चार्च्यते देवताश च काले च पुष्पैर बलयः करियन्ते; तस्मिन गृहे नित्यम उपैमि वासम ॥ 17 ॥
सवाध्यायनित्येषु दविजेषु नित्यं; कषत्रे च धर्माभिरते सदैव वैश्ये च कृषाभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ॥ 18 ॥
नारायणे तव एकमना वसानि; सर्वेण भावेन शरीरभूता तस्मिन हि धर्मः सुमहान निविष्टॊ; बरह्मण्यता चात्र तथा परियत्वम ॥ 19 ॥
नाहं शरीरेण वसामि देवि; नैवं मया शक्यम इहाभिधातुम यस्मिंस तु भावेन वसामि पुंसि; स वर्धते धर्मयशॊ ऽरथकामैः ॥ 20 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 11
Reach this point to mark the section finished.
Continue to अध्याय 12