धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 114

  1. [य] अहिंसा वैदिकं कर्म धयानम इन्द्रियसंयमः तपॊ ऽथ गुरुशुश्रूषा किं शरेयः पुरषं परति ॥ 1 ॥

  2. [ब] सर्वाण्य एतानि धर्मस्य पृथग दवाराणि सर्वशः शृणु संकीर्त्यमानानि षड एव भरतर्षभ ॥ 2 ॥

  3. हन्त निःश्रेयसं जन्तॊर अहं वक्ष्याम्य अनुत्तमम अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥ 3 ॥

  4. तरीन दॊषान सर्वभूतेषु निधाय पुरुषः सदा कामक्रॊधौ च संयम्य ततः सिद्धिम अवाप्नुते ॥ 4 ॥

  5. अहिंसकानि भूतानि दण्डेन विनिहन्ति यः आत्मनः सुखम अन्विच्छन न स परेत्य सुभी भवेत ॥ 5 ॥

  6. आत्मॊपमश च भूतेषु यॊ वै भवति पूरुषः नयस्तदण्डॊ जितक्रॊधः स परेत्य सुखम एधते ॥ 6 ॥

  7. सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 7 ॥

  8. न तत्परस्य संदद्यात परतिकूलं यद आत्मनः एष संक्षेपतॊ धर्मः कामाद अन्यः परवर्तते ॥ 8 ॥

  9. परत्याख्याने च दाने च सुखदुःखे परियाप्रिये आत्मौपम्येन पुरुषः समाधिम अधिगच्छति ॥ 9 ॥

  10. यथा परः परक्रमते ऽपरेषु; तथापरः परक्रमते परस्मिन एषैव ते ऽसतूपमा जीवलॊके; यथा धर्मॊ नैपुणेनॊपदिष्टः ॥ 10 ॥

  11. [व] इत्य उक्त्वा तं सुरगुरुर धर्मराजं युधिष्ठिरम दिवम आचक्रमे धीमान पश्यताम एव नस तदा ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 115

Previous: अध्याय 113