[व] ततॊ युधिष्ठिरॊ राजा शरतल्पे पितामहम पुनर एव महातेजाः पप्रच्छ वदतां वरम ॥ 1 ॥
ऋषयॊ बराह्मणा देवाः परशंसन्ति महामते अहिंसा लक्षणं धर्मं वेद परामाण्य दर्शनात ॥ 2 ॥
कर्मणा मनुजः कुर्वन हिंसां पार्थिव सत्तम वाचा च मनसा चैव कथं दुःखात परमुच्यते ॥ 3 ॥
[भ] चतुर्विधेयं निर्दिष्टा अहिंसा बरह्मवादिभिः एषैकतॊ ऽपि विभ्रष्टा न भवत्य अरिसूदन ॥ 4 ॥
यथा सर्वश चतुष्पादस तरिभिः पादैर न तिष्ठति तथैवेयं महीपाल परॊच्यते कारणैस तरिभिः ॥ 5 ॥
यथा नागपदे ऽनयानि पदानि पदगामिनाम सर्वाण्य एवापिधीयन्ते पदजातानि कौञ्जरे एवं लॊकेष्व अहिंसा तु निर्दिष्टा धर्मतः परा ॥ 6 ॥
कर्मणा लिप्यते जन्तुर वाचा च मनसैव च ॥ 7 ॥
पूर्वं तु मनसा तयक्त्वा तथा वाचाथ कर्मणा तरिकारणं तु निर्दिष्टं शरूयते बरह्मवादिभिः ॥ 8 ॥
मनॊ वाचि तथास्वादे दॊषा हय एषु परतिष्ठिताः न भक्षयन्त्य अतॊ मांसं तपॊ युक्ता मनीषिणः ॥ 9 ॥
दॊषांस तु भक्षणे राजन मांसस्येह निबॊध मे पुत्रमांसॊपमं जानन खादते यॊ विचेतनः ॥ 10 ॥
माता पितृसमायॊगे पुत्रत्वं जायते यथा रसं च परति जिह्वायाः परज्ञानं जायते तथा तथा शास्त्रेषु नियतं रागॊ हय आस्वादिताद भवेत ॥ 11 ॥
असंस्कृताः संस्कृताश च लवणालवणास तथा परज्ञायन्ते यथा भावास तथा चित्तं निरुध्यते ॥ 12 ॥
भेरीशङ्खमृदङ्गाद्यांस तन्त्री शब्दांश च पुष्कलान निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ 13 ॥
अचिन्तितम अनुद्दिष्टम असंकल्पितम एव च रसं गृद्ध्याभिभूता वै परशंसन्ति फलार्थिनः परशंसा हय एव मांसस्य दॊषकर्मफलान्विता ॥ 14 ॥
जीवितं हि परित्यज्य बहवः साधवॊ जनाः सवमांसैः परमांसानि परिपाल्य दिवं गताः ॥ 15 ॥
एवम एषा महाराज चतुर्भिः कारणैर वृता अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥ 16 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 115
Reach this point to mark the section finished.
Continue to अध्याय 116