धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 113

  1. [य] अधर्मस्य गतिर बरह्मन कथिता मे तवयानघ धर्मस्य तु गतिं शरॊतुम इच्छामि वदतां वर कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम ॥ 1 ॥

  2. [बृहस्पति] कृत्वा पापानि कर्माणि अधर्मवशम आगतः मनसा विपरीतेन निरयं परतिपद्यते ॥ 2 ॥

  3. मॊहाद अधर्मं यः कृत्वा पुनः समनुतप्यते मनः समाधिसंयुक्तॊ न स सेवेत दुष्कृतम ॥ 3 ॥

  4. यथा यथा नरः सम्यग अधर्मम अनुभाषते समाहितेन मनसा विमुच्यति तथा तथा भुजंग इति निर्मॊकात पूर्वभुक्ताज जरान्वितात ॥ 4 ॥

  5. अदत्त्वापि परदानानि विविधानि समाहितः मनः समाधिसंयुक्तः सुगतिं परतिपद्यते ॥ 5 ॥

  6. परदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर नरः कृत्वाप्य अकार्याणि तदा धर्मेण युज्यते ॥ 6 ॥

  7. सर्वेषाम एव दानानाम अन्नं शरेष्ठम उदाहृतम पूर्वम अन्नं परदातव्यम ऋजुना धर्मम इच्छता ॥ 7 ॥

  8. पराणा हय अन्नं मनुष्याणां तस्माज जन्तुश च जायते अन्ने परतिष्ठिता लॊकास तस्माद अन्नं परकाशते ॥ 8 ॥

  9. अन्नम एव परशंसन्ति देवर्षिपितृमानवाः अन्नस्य हि परदानेन सवर्गम आप्नॊति कौशिकः ॥ 9 ॥

  10. नयायलब्धं परदातव्यं दविजेभ्यॊ हय अन्नम उत्तमम सवाध्यायसमुपेतेभ्यः परहृष्टेनान्तरात्मना ॥ 10 ॥

  11. यस्य हय अन्नम उपाश्नन्ति बराह्मणानां शता दश हृष्टेन मनसा दत्तं न स तिर्यग्गतिर भवेत ॥ 11 ॥

  12. बराह्मणानां सहस्राणि दश भॊज्यनरर्षभ नरॊ ऽधर्मात परमुच्येत पपेष्व अभिरतः सदा ॥ 12 ॥

  13. भैक्षेणान्नं समाहृत्य विप्रॊ वेद पुरस्कृतः सवाध्यायनिरते विप्रे दत्त्वेह सुखम एधते ॥ 13 ॥

  14. अहिंसन बराह्मणं नित्यं नयायेन परिपाल्य च कषत्रियस तरसा पराप्तम अन्नं यॊ वै परयच्छति ॥ 14 ॥

  15. दविजेभ्यॊ वेदवृद्धेभ्यः परयतः सुसमाहितः तेनापॊहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥ 15 ॥

  16. षड्भागपरिशुद्धं च कृषेर भागम उपार्जितम वैश्यॊ ददद दविजातिभ्यः पापेभ्यः परिमुच्यते ॥ 16 ॥

  17. अवाप्य पराणसंदेहं कार्कश्येन समार्जितम अन्नं दत्त्व दविजातिभ्यः शूद्रः पापात परमुच्यते ॥ 17 ॥

  18. औरसेन बलेनान्नम अर्जयित्वाविहिंसकः यः परयच्छति विप्रेभ्यॊ न स दुर्गाणि सेवते ॥ 18 ॥

  19. नयायेनावाप्तम अन्नं तु नरॊ लॊभविवर्जितः दविजेभ्यॊ वेद वृद्धेभ्यॊ दत्त्व पापात परमुच्यते ॥ 19 ॥

  20. अन्नम ऊर्जः करं लॊके दत्त्वॊर्जस्वी भवेन नरः सतां पन्थानम आश्रित्य सर्वपापात परमुच्यते ॥ 20 ॥

  21. दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ते सम पराणस्य दातारस तेभ्यॊ धर्मः सनातनः ॥ 21 ॥

  22. सर्वावस्थ मनुष्येण नयायेनान्नम उपार्जितम कार्यं पात्रगतं नित्यम अन्नं हि परमा गतिः ॥ 22 ॥

  23. अन्नस्य हि परदानेन नरॊ दुर्गं न सेवते तस्माद अन्नं परदातव्यम अन्याय परिवर्जितम ॥ 23 ॥

  24. यतेद बराह्मण पूर्वं हि भॊक्तुम अन्नं गृही सदा अवन्ध्यं दिवसं कुर्याद अन्नदानेन मानवः ॥ 24 ॥

  25. भॊजयित्वा दशशतं नरॊ वेद विदां नृप नयायविद धर्मविदुषाम इतिहासविदां तथा ॥ 25 ॥

  26. न याति नरकं घॊरं संसारांश च न सेवते सर्वकामसमायुक्तः परेत्य चाप्य अश्नुते फलम ॥ 26 ॥

  27. एवं सुखसमायुक्तॊ रमते विगतज्वरः रूपवान कीर्तिमांश चैव धनवांश चॊपपद्यते ॥ 27 ॥

  28. एतत ते सर्वम आख्यातम अन्नदानफलं महत मूलम एतद धि धर्माणां परदानस्य च भारत ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 114

Previous: अध्याय 112