[य] पितामह महाबाहॊ सर्वशास्त्रविशारद शरॊतुम इच्छामि मर्त्यानां संसारविधुम उत्तमम ॥ 1 ॥
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि पराप्नुवन्त्य उत्तमं सवर्गं कथं च नरकं नृप ॥ 2 ॥
मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः परयान्त्य अमुं लॊकम इतः कॊ वै तान अनुगच्छति ॥ 3 ॥
[भ] असाव आयाति भगवान बृहस्पतिर उदारधीः पृच्छैनं सुमहाभागम एतद गुह्यं सनातनम ॥ 4 ॥
नैतद अन्येन शक्यं हि वक्तुं केन चिद अद्य वै वक्ता बृहस्पतिसमॊ न हय अन्यॊ विद्यते कव चित ॥ 5 ॥
[व] तयॊः संवदतॊर एवं पार्थ गाङ्गेययॊस तदा आजगाम विशुद्धात्मा भगवान स बृहस्पतिः ॥ 6 ॥
ततॊ राजा समुत्थाय धृतराष्ट्र पुरॊगमः पूजाम अनुपमां चक्रे सर्वे ते च सभा सदः ॥ 7 ॥
ततॊ धर्मसुतॊ राजा भगवन्तं बृहस्पतिम उपगम्य यथान्यायं परश्नं पप्रच्छ सुव्रतः ॥ 8 ॥
[य] भगवन सव धर्मज्ञ सर्वशास्त्रविशारद मर्त्यस्य कः सहायॊ वै पिता माता सुतॊ गुरुः ॥ 9 ॥
मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः गच्छन्त्य अमुत्र लॊकं वै क एनम अनुगच्छति ॥ 10 ॥
[ब] एकः परसूतॊ राजेन्द्र जन्तुर एकॊ विनश्यति एकस तरति दुर्गाणि गच्छत्य एकश च दुर्गतिम ॥ 11 ॥
असहायः पिता माता तथा भराता सुतॊ गुरुः जञातिसंबन्धिवर्गश च मित्रवर्गस तथैव च ॥ 12 ॥
मृतं शरीरम उत्सृज्य काष्ठलॊष्ट समं जनाः मुहूर्तम उपतिष्ठन्ति ततॊ यान्ति पराङ्मुखाः तैस तच छरीरम उत्सृष्टं धर्म एकॊ ऽनुगच्छति ॥ 13 ॥
तस्माद धर्मः सहायार्थे सेवितव्यः सदा नृभिः पराणी धर्मसमायुक्तॊ नरकायॊपपद्यते ॥ 14 ॥
तस्मान नयायागतैर अर्थैर धर्मं सेवेत पण्डितः धर्म एकॊ मनुष्याणां सहायः पारलौकिकः ॥ 15 ॥
लॊभान मॊहाद अनुक्रॊशाद भयाद वाप्य अबहुश्रुतः नरः करॊत्य अकार्याणि परार्थे लॊभमॊहितः ॥ 16 ॥
धर्मश चार्थश च कामश च तरितयं जीविते फलम एतत तरयम अवाप्तव्यम अधर्मपरिवर्जितम ॥ 17 ॥
[य] शरुतं भगवतॊ वाक्यं धर्मयुक्तं परं हितम शरीरविचयं जञातुं बुद्धिस तु मम जायते ॥ 18 ॥
मृतं शरीररहितं सूक्ष्मम अव्यक्ततां गतम अचक्षुर विषयं पराप्तं कथं धर्मॊ ऽनुगच्छति ॥ 19 ॥
[ब] पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम बुद्धिर आत्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ 20 ॥
पराणिनाम इह सर्वेषां साक्षिभूतानि चानिशम एतैश च स ह धर्मॊ ऽपि तं जीवम अनुगच्छति ॥ 21 ॥
तवग अस्थि मांसं शुक्रं च शॊणितं च महामते शरीरं वर्जयन्त्य एते जीवितेन विवर्जितम ॥ 22 ॥
ततॊ धर्मसमायुक्तः स जीवः सुखम एधते इह लॊके परे चैव किं भूयः कथयामि ते ॥ 23 ॥
[य] अनुदर्शितं भगवता यथा धर्मॊ ऽनुगच्छति एतत तु जञातुम इच्छामि कथं रेतः परवर्तते ॥ 24 ॥
[ब] अन्नम अश्नन्ति ये देवाः शरीरस्था नरेश्वर पृथिवी वायुर आकाशम आपॊ जयॊतिर मनस तथा ॥ 25 ॥
ततस तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु मनःषष्ठेषु शुद्धात्मन रेतः संपद्यते महत ॥ 26 ॥
ततॊ गर्भः संभवति सत्रीपुंसॊः पार्थ संगमे एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि ॥ 27 ॥
[य] आख्यातम एतद भवता गर्भः संजायते यथा यथा जातस तु पुरुषः परपद्यति तद उच्यताम ॥ 28 ॥
[ब] आसन्न मात्रः सततं तैर भूतैर अभिभूयते विप्रमुक्तश च तैर भूतैः पुनर यात्य अपरां गतिम स तु भूतसमायुक्तः पराप्नुते जीव एव ह ॥ 29 ॥
ततॊ ऽसय कर्म पश्यन्ति शुभं वा यदि वाशुभम देवताः पञ्च भूतस्थाः किं भूयः शरॊतुम इच्छसि ॥ 30 ॥
[य] तवग अस्थि मांसम उत्सृज्य तैश च भूतैर विवर्जितः जीवः स भगवान कवस्थः सुखदुःखे समश्नुते ॥ 31 ॥
[ब] जीवॊ धर्मसमायुक्तः शीघ्रं रेतस्त्वम आगतः सत्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥ 32 ॥
यमस्य पुरुषैः कलेशं यमस्य पुरुषैर वधम दुःखं संसारचक्रं च नरः कलेशं च विन्दति ॥ 33 ॥
इह लॊके च स पराणी जन्मप्रभृति पार्थिव सवकृतं कर्म वै भुङ्क्ते धर्मस्य फलम आश्रितः ॥ 34 ॥
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते ततः स पुरुषॊ भूत्वा सेवते नित्यदा सुखम ॥ 35 ॥
अथान्तरा तु धर्मस्य अधर्मम उपसेवते सुखस्यानन्तरं दुःखं स जीवॊ ऽपय अधिगच्छति ॥ 36 ॥
अधर्मेण समायुक्तॊ यमस्य विषयं गतः महद दुःखं समासाद्य तिर्यग्यॊनौ परजायते ॥ 37 ॥
कर्मणा येन येनेह यस्यां यॊनौ परजायते जीवॊ मॊहसमायुक्तस तन मे निगदतः शृणु ॥ 38 ॥
यद एतद उच्यते शास्त्रे सेतिहासे सच छन्दसि यमस्य विषयं घॊरं मर्त्यॊ लॊकः परपद्यते ॥ 39 ॥
अधीत्य चतुरॊ वेदान दविजॊ मॊहसमन्वितः पतितात परतिगृह्याथ खरयॊनौ परजायते ॥ 40 ॥
खरॊ जीवति वर्षाणि दश पञ्च च भारत खरॊ मृतॊ बलीवर्दः सप्त वर्षाणि जीवति ॥ 41 ॥
बलीवर्दॊ मृतश चापि जायते बरह्मराक्षसः बरह्मरक्षस तु तरीन मासांस ततॊ जायति बराह्मणः ॥ 42 ॥
पतितं याजयित्वा तु कृमियॊनौ परजायते तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ 43 ॥
कृमिभावात परमुक्तस तु ततॊ जायति गर्दभः गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः शवा वर्षम एकं भवति ततॊ जायति मानवः ॥ 44 ॥
उपाध्यायस्य यः पापं शिष्यः कुर्याद अबुद्धिमान स जीव इह संसारांस तरीन आप्नॊति न संशयः ॥ 45 ॥
पराक शवा भवति राजेन्द्र ततः करव्यात ततः खरः ततः परेतः परिक्लिष्टः पश्चाज जायति बराह्मणः ॥ 46 ॥
मनसापि गुरॊर भार्यां यः शिष्यॊ याति पापकृत सॊ ऽधमान याति संसारान अधर्मेणेह चेतसा ॥ 47 ॥
शवयॊनौ तु स संभूतस तरीणि वर्षाणि जीवति तत्रापि निधनं पराप्तः कृमियॊनौ परजायते ॥ 48 ॥
कृमिभावम अनुप्राप्तॊ वर्षम एकं स जीवति ततस तु निधनं पराप्य बरह्मयॊनौ परजायते ॥ 49 ॥
यदि पुत्रसमं शिष्यं गुरुर हन्याद अकारणे आत्मनः कामकारेण सॊ ऽपि हंसः परजायते ॥ 50 ॥
पितरं मातरं वापि यस तु पुत्रॊ ऽवमन्यते सॊ ऽपि राजन मृतॊ जन्तुः पूर्वं जायति गर्दभः ॥ 51 ॥
खरॊ जीवति मासांस तु दश शवा च चतुर्दश बिडालः सप्त मासांस तु ततॊ जायति मानवः ॥ 52 ॥
माता पितरम आक्रुश्य सारिकः संप्रजायते ताडयित्वा तु ताव एव जायते कच्छपॊ नृप ॥ 53 ॥
कच्छपॊ दशवर्षाणि तरीणि वर्षाणि शक्यकः वयालॊ भूत्वा तु षण मासांस ततॊ जायति मानुषः ॥ 54 ॥
भर्तृपिण्डम उपाश्नन यॊ राजद्विष्टानि सेवते सॊ ऽपि मॊहसमापन्नॊ मृतॊ जायति वानरः ॥ 55 ॥
वानरॊ दशवर्षाणि तरीणि वर्षाणि मूषकः शवा भूत्वा चाथ षण मासांस ततॊ जायति मानुषः ॥ 56 ॥
नयासापहर्ता तु नरॊ यमस्य विषयं गतः संसाराणां शतं गत्वा कृमियॊनौ परजायते ॥ 57 ॥
तत्र जीवति वर्षाणि दश पञ्च च भारत दुष्कृतस्य कषयं गत्वा ततॊ जायति मानुषः ॥ 58 ॥
असूयकॊ नरश चापि मृतॊ जायति शार्ङ्गकः विश्वासहर्ता तु नरॊ मीनॊ जायति दुर्मतिः ॥ 59 ॥
भूत्वा मीनॊ ऽषट वर्षाणि मृगॊ जायति भारत मृगस तु चतुरॊ मासांस ततश छागः परजायते ॥ 60 ॥
छागस तु निधनं पराप्य पूर्णे संवत्सरे ततः कीटः संजायते जन्तुस ततॊ जायति मानुषः ॥ 61 ॥
धान्यान यवांस तिलान माषान कुलत्थान सर्षपांश चणान कलायान अथ मुद्गांश च गॊधूमान अतसीस तथा ॥ 62 ॥
सस्यस्यान्यस्य हर्ता च मॊहाज जन्तुर अचेतनः स जायते महाराज मूषकॊ निरपत्रपः ॥ 63 ॥
ततः परेत्य महाराज पुनर जायति सूकरः सूकरॊ जातमात्रस तु रॊगेण मरियते नृप ॥ 64 ॥
शवा ततॊ जायते मूढः कर्मणा तेन पार्थिव शवा भूत्वा पञ्चवर्षाणि ततॊ जायति मानुषः ॥ 65 ॥
परदाराभिमर्शं तु कृत्वा जायति वै वृकः शवा सृगालस ततॊ गृध्रॊ वयालः कङ्कॊ बकस तथा ॥ 66 ॥
भरातुर भार्यां तु दुर्बुद्धिर यॊ धर्षयति मॊहितः पुंस्कॊलिकत्वम आप्नॊति सॊ ऽपि संवत्सरं नृप ॥ 67 ॥
सखिभार्यां गुरॊर भार्यां राजभार्यां तथैव च परधर्षयित्वा कामाद यॊ मृतॊ जायति सूकरः ॥ 68 ॥
सूकरः पञ्चवर्षाणि पञ्चवर्षाणि शवाविधः पिपीलकस तु षण मासान कीटः सयान मासम एव च एतान आसाद्य संसारान कृमियॊनौ परजायते ॥ 69 ॥
तत्र जीवति मासांस तु कृमियॊनौ तरयॊ दश ततॊ ऽधर्मक्षयं कृत्वा पुनर जायति मानुषः ॥ 70 ॥
उपस्थिते विवाहे तु दाने यज्ञे ऽपि वाभिभॊ मॊहात करॊति यॊ विघ्नं स मृतॊ जायते कृमिः ॥ 71 ॥
कृमिर जीवति वर्षाणि दश पञ्च च भारत अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः ॥ 72 ॥
पूर्वं दत्त्वा तु यः कन्यां दवितीये संप्रयच्छति सॊ ऽपि राजन मृतॊ जन्तुः कृमियॊनौ परजायते ॥ 73 ॥
तत्र जीवति वर्षाणि तरयॊदश युधिष्ठिर अधर्मसंक्षये युक्तस ततॊ जायति मानुषः ॥ 74 ॥
देवकार्यम उपाकृत्य पितृकार्यम अथापि च अनिर्वाप्य समश्नन वै ततॊ जायति वायसः ॥ 75 ॥
वायसॊ दशवर्षाणि ततॊ जायति कुक्कुटः जायते लवकश चापि मासं तस्मात तु मानुषः ॥ 76 ॥
जयेष्ठं पितृसमं चापि भरातरं यॊ ऽवमन्यते सॊ ऽपि मृत्युम उपागम्य करौञ्चयॊनौ परजायते ॥ 77 ॥
करौञ्चॊ जीवति मासांस तु दश दवौ सप्त पञ्च च ततॊ निधनम आपन्नॊ मानुषत्वम उपाश्नुते ॥ 78 ॥
वृषलॊ बराह्मणी गत्वा कृमियॊनौ परजायते तत्रापत्यं समुत्पाद्य ततॊ जायति मूषकः ॥ 79 ॥
कृतघ्नस तु मृतॊ राजन यमस्य विषयं गतः यमस्य विषये करुद्धैर वधं पराप्नॊति दारुणम ॥ 80 ॥
पट्टिसं मुद्गरं शूलम अग्निकुम्भं च दारुणम असि पत्रवनं घॊरं वालुकां कूटशाल्मलीम ॥ 81 ॥
एताश चान्याश च बह्वीः स यमस्य विषयं गतः यातनाः पराप्य तत्रॊग्रास ततॊ वध्यति भारत ॥ 82 ॥
संसारचक्रम आसाद्य कृमियॊनौ परजायते कृमिर भवति वर्षाणि दश पञ्च च भारत ततॊ गर्भं समासाद्य तत्रैव मरियते शिशुः ॥ 83 ॥
ततॊ गर्भशतैर जन्तुर बहुभिः संप्रजायते संसारांश च बहून गत्वा ततस तिर्यक परजायते ॥ 84 ॥
मृतॊ दुःखम अनुप्राप्य बहुवर्षगणान इह अपुनर्भाव संयुक्तस ततः कूर्मः परजायते ॥ 85 ॥
अशस्त्रं पुरुषं हत्वा स शस्त्रः पुरुषाधमः अर्थार्थी यदि वा वैरी स मृतॊ जायते खरः ॥ 86 ॥
खरॊ जीवति वर्षे दवे ततः शास्तेण वध्यते स मृतॊ मृगयॊनौ तु नित्यॊद्विग्नॊ ऽभिजायते ॥ 87 ॥
मृगॊ वध्यति शस्त्रेण गते संवत्सरे तु सः हतॊ मृगस ततॊ मीनः सॊ ऽपि जालेन बध्यते ॥ 88 ॥
मासे चतुर्थे संप्राप्ते शवापदः संप्रजायते शवापदॊ दशवर्षाणि दवीपी वर्षाणि पञ्च च ॥ 89 ॥
ततस तु निधनं पराप्तः कालपर्याय चॊदितः अधर्मस्य कषयं कृत्वा ततॊ जायति मानुषः ॥ 90 ॥
सत्रियं हत्वा तु दुर्बुद्धिर यमस्य विषयं गतः बहून कलेशान समासाद्य संसारांश चैव विंशतिम ॥ 91 ॥
ततः पश्चान महाराज कृमियॊनौ परजायते कृमिर विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ 92 ॥
भॊजनं चॊरयित्वा तु मक्षिका जायते नरः मक्षिका संह वशगॊ बहून मासान भवत्य उत ततः पापक्षयं कृत्वा मानुषत्वम अवाप्नुते ॥ 93 ॥
वाद्यं हृत्वा तु पुरुषॊ मशकः संप्रजायते तथा पिण्याक संमिश्रम अशनं चॊरयेन नरः स जायते बभ्रु समॊ दारुणॊ मूषकॊ नरः ॥ 94 ॥
लवणं चॊरयित्वा तु चीरी वाकः परजायते दधि हृत्वा बकश चापि पलवॊ मत्स्यान असंस्कृतान ॥ 95 ॥
चॊरयित्वा पयश चापि बलाका संप्रजायते यस तु चॊरयते तैलं तैलपायी परजायते चॊरयित्वा तु दुर्बुद्धिर मधु दंशः परजायते ॥ 96 ॥
अयॊ हृत्वा तु दुर्बुद्धिर वायसॊ जायते नरः पायसं चॊरयित्वा तु तित्तिरित्वम अवाप्नुते ॥ 97 ॥
हृत्वा पैष्टम अपूपं च कुम्भॊलूकः परजायते फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥ 98 ॥
कांस्यं हृत्वा तु दुर्बुद्धिर हारीतॊ जायते नरः राजतं भाजनं हृत्वा कपॊतः संप्रजायते ॥ 99 ॥
हृत्वा तु काञ्चनं भाण्डं कृमियॊनौ परजायते करौञ्चः कार्पासिकं हृत्वा मृतॊ जायति मानवः ॥ 100 ॥
चॊरयित्वा नरः पट्टं तव आविकं वापि भारत कषौमं च वस्त्रम आदाय शशॊ जन्तुः परजायते ॥ 101 ॥
वर्णान हृत्वा तु पुरुषॊ मृतॊ जायति बर्हिणः हृत्वा रक्तानि वस्त्राणि जायते जीव जीविकः ॥ 102 ॥
वर्णकादींस तथा गन्धांश चॊरयित्वा तु मानवः छुच्छुन्दरित्वम आप्नॊति राजँल लॊभपरायणः ॥ 103 ॥
विश्वासेन तु निक्षिप्तं यॊ निह्नवति मानवः स गतासुर नरस तादृङ मत्स्ययॊनौ परजायते ॥ 104 ॥
मत्स्ययॊनिम अनुप्राप्य मृतॊ जायति मानुषः मानुषत्वम अनुप्राप्य कषीणायुर उपपद्यते ॥ 105 ॥
पापानि तु नरः कृत्वा तिर्यग जायति भारत न चात्मनः परमाणं ते धर्मं जानन्ति किं चन ॥ 106 ॥
ये पापानि नराः कृत्वा निरस्यन्ति वरतैः सदा सुखदुःखसमायुक्ता वयाधितास ते भवन्त्य उत ॥ 107 ॥
असंवासाः परजायन्ते मलेच्छाश चापि न संशयः नराः पापसमाचारा लॊभमॊहसमन्विताः ॥ 108 ॥
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः अरॊगा रूपवन्तस ते धनिनश च भवन्त्य उत ॥ 109 ॥
सत्रियॊ ऽपय एतेन कल्पेन कृत्वा पापम अवाप्नुयुः एतेषाम एव जन्तूनां पत्नीत्वम उपयान्ति ताः ॥ 110 ॥
परस्वहरणे दॊषाः सर्व एव परकीर्तिताः एतद वै लेश मात्रेण कथितं ते मयानघ अपरस्मिन कथा यॊगे भूयः शरॊष्यसि भारत ॥ 111 ॥
एतन मया महाराज बरह्मणॊ वदतः पुरा सुरर्षीणां शरुतं मध्ये पृष्टश चापि यथातथम ॥ 112 ॥
मयापि तव कार्त्स्न्येन यथावद अनुवर्णितम एतच छरुत्वा महाराज धर्मे कुरु मनः सदा ॥ 113 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 112
Reach this point to mark the section finished.
Continue to अध्याय 113