[य] यद वरं सर्वतीर्थानां तद बरवीहि पितामह यत्र वै परमं शौचं तन मे वयाख्यातुम अर्हसि ॥ 1 ॥
[भ] सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम यत तु तीर्थं च शौचं च तन मे शृणु समाहितः ॥ 2 ॥
अगाधे विमले शुद्धे सत्यतॊये धृतिह्रदे सनातव्यं मानसे तीर्थे सत्त्वम आलम्ब्य शाश्वतम ॥ 3 ॥
तीर्थशौचम अनर्थित्वम आर्दवं सत्यम आर्जवम अहिंसा सर्वभूतानाम आनृशंस्यं दमः शमः ॥ 4 ॥
निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः शुचयस तीर्थभूतास ते ये भैक्षम उपभुञ्जते ॥ 5 ॥
तत्त्ववित तव अनहंबुद्धिस तीर्थं परमम उच्यते शौचलक्षणम एतत ते सर्वत्रैवान्ववेक्षणम ॥ 6 ॥
रजस तमः सत्त्वम अथॊ येषां निर्धौतम आत्मनः शौचाशौचे न ते सक्ताः सवकार्यपरिमार्गिणः ॥ 7 ॥
सर तयागेष्व अभिरताः सर्वज्ञाः सर्वदर्शिनः शौचेन वृत्तशौचार्थास ते तीर्थाः शुचयश च ते ॥ 8 ॥
नॊदक कलिन्नगात्रस तु सनात इत्य अभिधीयते स सनातॊ यॊ दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥ 9 ॥
अतीतेष्व अनपेक्षा ये पराप्तेष्व अर्थेषु निर्ममाः शौचम एव परं तेषां येषां नॊत्पद्यते सपृहा ॥ 10 ॥
परज्ञानं शौचम एवेह शरीरस्य विशेषतः तथा निष किंचनत्वं च मनसश च परसन्नता ॥ 11 ॥
वृत्तशौचं मनः शौचं तीर्थशौचं परं हितम जञानॊत्पन्नं च यच छौचं तच छौचं परमं मतम ॥ 12 ॥
मनसाथ परदीपेन बरह्म जञानबलेन च सनाता ये मानसे तीर्थे तज्ज्ञाः कषेत्रज्ञदर्शिनः ॥ 13 ॥
समारॊपितशौचस तु नित्यं भव समन्वितः केवलंगुण संपन्नः शुचिर एव नरः सदा ॥ 14 ॥
शरीरस्थानि तीर्थानि परॊक्तान्य एतानि भारत पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्य अपि ॥ 15 ॥
यथा शरीरस्यॊद्देशाः शुचयः परिनिर्मिताः तथा पृथिव्या भागाश च पुण्यानि सलिलानि च ॥ 16 ॥
परार्थनाच चैव तीर्थस्य सनानाच च पितृतर्पणात धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम ॥ 17 ॥
परिग्रहाच च साधूनां पृथिव्याश चैव तेजसा अतीव पुण्यास ते भागाः सलिलस्य च तेजसा ॥ 18 ॥
मनसश च पृथिव्याश च पुण्यतीर्थास तथापरे उभयॊर एव यः सनातः स सिद्धिं शीघ्रम आप्नुयात ॥ 19 ॥
यथाबलं करिया हीनं करिया वा बलवर्जिता नेह साधयते कार्यं समायुक्तस तु सिध्यति ॥ 20 ॥
एवं शरीरशौचेन तीर्थशौचेन चान्विताः ततः सिद्धिम अवाप्नॊति दविविधं शौचम उत्तमम ॥ 21 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 111
Reach this point to mark the section finished.
Continue to अध्याय 112