[य] पितामहेन विधिवद यज्ञा परॊक्ता महात्मना गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः ॥ 1 ॥
न ते शक्या दरिद्रेण यज्ञाः पराप्तुं पितामह बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ 2 ॥
पार्थिवै राजपुत्रैर वा शक्याः पराप्तुं पितामह नार्थन्यूनैर अवगुणैर एकात्मभिर असंहतैः ॥ 3 ॥
यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं सदा भवेत तुल्यॊ यज्ञफलैर एतैस तन मे बरूहि पितामह ॥ 4 ॥
[भ] इदम अङ्गिरसा परॊक्तम उपवासफलात्मकम विधिं यज्ञफलैस तुल्यं तन निबॊध युधिष्ठिर ॥ 5 ॥
यस तु कल्यं तथा सायं भुञ्जानॊ नान्तरा पिबेत अहिंसा निरतॊ नित्यं जुह्वानॊ जातवेदसम ॥ 6 ॥
षड्भिर एव तु वर्षैः स सिध्यते नात्र संशयः तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥ 7 ॥
देव सत्रीणाम अधीवासे नृत्यगीतनिनादिते पराजापत्ये वसेत पद्मं वर्षाणाम अग्निसंनिभे ॥ 8 ॥
तरीणि वर्षाणि यः पराशेत सततं तव एकभॊजनम धर्मपत्नी रतॊ नित्यम अग्निष्टॊम फलं लभेत ॥ 9 ॥
दवितीये दिवसे यस तु पराश्नीयाद एकभॊजनम सदा दवादश मासांस तु जुह्वानॊ जातवेदसम यज्ञं बहु सुवर्णं वा वासव परियम आहरेत ॥ 10 ॥
सत्यवाग दानशीलश च बरह्मण्यश चानसूयकः कषान्तॊ दान्तॊ जितक्रॊधः स गच्छति परां गतिम ॥ 11 ॥
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे दवे समाप्ते ततः पद्मे सॊ ऽपसरॊभिर वसेत सह ॥ 12 ॥
तृतीये दिवसे यस तु पराश्नीयाद एकभॊजनम सदा दवादश मासांस तु जुह्वानॊ जातवेदसम ॥ 13 ॥
अतिरात्रस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम मयूरहंससंयुक्तं विमानं लभते नरः ॥ 14 ॥
सप्तर्षीणां सदा लॊके सॊ ऽपसरॊभिर वसेत सह निवर्तनं च तत्रास्य तरीणि पद्मानि वै विदुः ॥ 15 ॥
दिवसे यश चतुर्हे तु पराश्नीयाद एकभॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 16 ॥
वाजपेयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम इन्द्र कन्याभिरूढं च विमानं लभते नरः ॥ 17 ॥
सगरस्य च पर्यन्ते वासवं लॊकम आवसेत देवराजस्य च करीडां नित्यकालम अवेक्षते ॥ 18 ॥
दिवसे पञ्चमे यस तु पराश्नीयाद एकभॊजनम सदा दवादश मासांस तु जुह्वानॊ जातवेदसम ॥ 19 ॥
अलुब्धः सत्यवादी च बरह्मण्यश चाविहिंसकः अनसूयुर अपापस्थॊ दवादशाह फलं लभेत ॥ 20 ॥
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम सूर्यमाला समाभासम आरॊहेत पाण्डुरं गृहम ॥ 21 ॥
आवर्तनानि चत्वारि तथा पद्मानि दवादश शराग्निपरिमाणं च तत्रासौ वसते सुखम ॥ 22 ॥
दिवसे यस तु षष्ठे वै मुनिः पराशेत भॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 23 ॥
सदा तरिषवण सनायी बरह्म चार्य अनसूयकः गवामयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम ॥ 24 ॥
अग्निज्वाला समाभासं हंसबर्हिण सेवितम शातकुम्भमयं युक्तं साधयेद यानम उत्तमम ॥ 25 ॥
तथैवाप्सरसाम अङ्के परसुप्तः परतिबुध्यते नूपुराणां निनादेन मेखलानां च निस्वनैः ॥ 26 ॥
कॊटीसहस्रं वर्षाणां तरीणि कॊटिशतानि च पद्मान्य अष्टादश तथा पताके दवे तथैव च ॥ 27 ॥
अयुतानि च पञ्चाशद ऋक्षचर्म शतस्य च लॊम्नां परमाणेन समं बरह्मलॊके महीयते ॥ 28 ॥
दिवसे सप्तमे यस तु पराश्नीयाद एकभॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 29 ॥
सरस्वतीं गॊपयानॊ बरह्मचर्यं समाचरन सुमनॊवर्णकं चैव मधु मांसं च वर्जयेत ॥ 30 ॥
पुरुषॊ मरुतां लॊकम इन्द्रलॊकं च गच्छति तत्र तत्र च सिद्धार्थॊ देवकन्याभिर उह्यते ॥ 31 ॥
फलं बहु सुवर्णस्य यज्ञस्य लभते नरः संख्याम अतिगुणां चापि तेषु लॊकेषु मॊदते ॥ 32 ॥
यस तु संवत्सरं कषान्तॊ भुङ्क्ते ऽहन्य अष्टमे नरः देवकार्यपरॊ नित्यं जुह्वानॊ जातवेदसम ॥ 33 ॥
पौण्डरीकस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम पद्मवर्णनिभं चैव विमानम अधिरॊहति ॥ 34 ॥
कृष्णाः कनकगौर्यश च नार्यः शयामास तथापराः वयॊ रूपविलासिन्यॊ लभते नात्र संशयः ॥ 35 ॥
यस तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 36 ॥
अश्वमेधस्य यज्ञस्य फलं पराप्नॊति मानवः पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ 37 ॥
दीप्तसूर्याग्नितेजॊभिर दिव्यमालाभिर एव च नीयते रुद्र कन्याभिः सॊ ऽनतरिक्षं सनातनम ॥ 38 ॥
अष्टादशसहस्राणि वर्षाणां कल्पम एव च कॊटीशतसहस्रं च तेषु लॊकेषु मॊदते ॥ 39 ॥
यस तु संवत्सरं भुङ्क्ते दशाहे वै गते गते सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 40 ॥
बरह्म कन्या निवेशे च सर्वभूतमनॊहरे अश्वमेध सहस्रस्य फलं पराप्नॊत्य अनुत्तमम ॥ 41 ॥
रूपवत्यश च तं कन्या रमयन्ति सदा नरम नीलॊत्पलनिभैर वर्णै रक्तॊत्पलनिभैस तथा ॥ 42 ॥
विमानं मण्डलावर्तम आवर्त गहनावृतम सागरॊर्मि परतीकाशं साधयेद यानम उत्तमम ॥ 43 ॥
विचित्रमणिमालाभिर नादितं शङ्खपुष्करैः सफाटिकैर वज्रसारैश च सतम्भैः सुकृतवेदिकम आरॊहति महद यानं हंससारसवाहनम ॥ 44 ॥
एकादशे तु दिवसे यः पराप्ते पराशते हविः सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 45 ॥
परस्त्रियॊ नाभिलषेद वाचाथ मनसापि वा अनृतं च न भाषेत मातापित्रॊः कृते ऽपि वा ॥ 46 ॥
अभिगच्छेन महादेवं विमानस्थं महाबलम सवयम्भुवं च पश्येत विमानं समुपस्थितम ॥ 47 ॥
कुमार्यः काञ्चनाभासा रूपवत्यॊ नयन्ति तम रुद्राणां तम अधीवासं दिवि दिव्यं मनॊहरम ॥ 48 ॥
वर्षाण्य अपरिमेयानि युगान्तम अपि चावसेत कॊटीशतसहस्रं च दशकॊटिशतानि च ॥ 49 ॥
रुद्रं नित्यं परणमते देवदानव संमतम स तस्मै दर्शनं पराप्तॊ दिवसे दिवसे भवेत ॥ 50 ॥
दिवसे दवादशे यस तु पराप्ते वै पराशते हविः सदा दवादश मासान वै सर्वमेध फलं लभेत ॥ 51 ॥
आदित्यैर दवादशैस तस्य विमानं संविधीयते मणिमुक्ता परवालैश च महार्हैर उपशॊभितम ॥ 52 ॥
हंसमाला परिक्षिप्तं नागवीथी समाकुलम मयूरैश चक्रवाकैश च कूजद्भिर उपशॊभितम ॥ 53 ॥
अट्टैर महद्भिः संयुक्तं बरह्मलॊके परतिष्ठितम नित्यम आवसते राजन नरनारी समावृतम ऋषिर एवं महाभागस तव अङ्गिराः पराह धर्मवित ॥ 54 ॥
तरयॊदशे तु दिवसे यः पराप्ते पराशते हविः सदा दवादश मासान वै देव सत्र फलं लभेत ॥ 55 ॥
रक्तपद्मॊदयं नाम विमानं साधयेन नरः जातरूपप्रयुक्तं च रक्तसंचय भूषितम ॥ 56 ॥
देवकन्याभिर आकीर्णं दिव्याभरणभूषितम पुण्यगन्धॊदयं दिव्यं वायव्यैर उपशॊभितम ॥ 57 ॥
तत्र शङ्कुपताकं च युगान्तं कल्पम एव च अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत ॥ 58 ॥
गीतगन्धर्वघॊषैश च भेरी पणवनिस्वनैः सदा परमुदितस ताभिर देवकन्याभिर ईड्यते ॥ 59 ॥
चतुर्दशे तु दिवसे यः पूर्णे पराशते हविः सदा दवादश मासान वै महामेध फलं लभेत ॥ 60 ॥
अनिर्देश्य वयॊ रूपा देवकन्याः सवलंकृताः मृष्टतप्ताङ्गद धरा विमानैर अनुयान्ति तम ॥ 61 ॥
कलहंसविनिर्घॊषैर नूपुराणां च निस्वनैः काञ्चीनां च समुत्कर्षैस तत्र तत्र विबॊध्यते ॥ 62 ॥
देवकन्या निवासे च तस्मिन वसति मानवः जाह्नवी वालुकाकीर्णे पूर्णं संवत्सरं नर ॥ 63 ॥
यस तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः सदा दादश मासांस तु जुह्वानॊ जातवेदसम राजसूय सहस्रस्य फलं पराप्नॊत्य अनुत्तमम ॥ 64 ॥
यानम आरॊहते नित्यं हंसबर्हिण सेवितम मणिमण्डलकैश चित्रजातरूपसमावृतम ॥ 65 ॥
दिव्याभरणशॊभाभिर वरस्त्रीभिर अलंकृतम एकस्तम्भं चतुर्द्वारं सप्त भौमं सुमङ्गलम वैजयन्ती सहस्रैश च शॊभितं गीतनिस्वनैः ॥ 66 ॥
दिव्यं दिव्यगुणॊपेतं विमानम अधिरॊहति मणिमुक्ता परवालैश च भूषितं वैद्युत परभम वसेद युगसहस्रं च खड्गकुञ्जरवाहनः ॥ 67 ॥
षॊडशे दिवसे यस तु संप्राप्ते पराशते हविः सदा दवादश मासान वै सॊमयज्ञफलं लभेत ॥ 68 ॥
सॊमकन्या निवासेषु सॊ ऽधयावसति नित्यदा सौम्य गन्धानुलिप्तश च कामचारगतिर भवेत ॥ 69 ॥
सुदर्शनाभिर नारीभिर मधुराभिस तथैव च अर्च्यते वै विमानस्थः कामभॊगैश च सेव्यते ॥ 70 ॥
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम आवर्तनानि चत्वारि सागरे यात्य असौ नरः ॥ 71 ॥
दिवसे सप्त दशमे यः पराप्ते पराशते हविः सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 72 ॥
सथानं वारुणम ऐन्द्रं च रौद्रं चैवाधिगच्छति मारुतौशनसे चैव बरह्मलॊकं च गच्छति ॥ 73 ॥
तत्र दैवतकन्याभिर आसनेनॊपचर्यते भूर भुवं चापि देव रषिं विश्वरूपम अवेक्षते ॥ 74 ॥
तत्र देवाधिदेवस्य कुमार्यॊ रमयन्ति तम दवात्रिंशद रूपधारिण्यॊ मधुराः समलंकृताः ॥ 75 ॥
चन्द्रादित्याव उभौ यावद गगने चरतः परभॊ तावच चरत्य असौ वीरः सुधामृतरसाशनः ॥ 76 ॥
अष्टादशे तु दिवसे पराश्नीयाद एकभॊजनम सदा दवादश मासान वै सप्त लॊकान स पश्यति ॥ 77 ॥
रथैः सनन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते देवकन्याधिरूढैस तु भराजमानैः सवलंकृतैः ॥ 78 ॥
वयाघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम विमानम उत्तमं दिव्यं सुसुखी हय अधिरॊहति ॥ 79 ॥
तत्र कल्पसहस्रं स कान्ताभिः सह मॊदते सुधा रसं च भुञ्जीत अमृतॊपमम उत्तमम ॥ 80 ॥
एकॊनविंशे दिवसे यॊ भुङ्क्ते एकभॊजनम सदा दवादश मासान वै सप्त लॊकान स पश्यति ॥ 81 ॥
उत्तमं लभते सथानम अप्सरॊगणसेवितम गन्धर्वैर उपगीतं च विमानं सूर्यवर्चसम ॥ 82 ॥
तत्रामर वरस्त्रीभिर मॊदते विगतज्वरः दिव्याम्बर धरः शरीमान अयुतानां शतं समाः ॥ 83 ॥
पूर्णे ऽथ दिवसे विंशे यॊ भुङ्क्ते हय एकभॊजनम सदा दवादश मासांस तु सत्यवादी धृतव्रतः ॥ 84 ॥
अमांसाशी बरह्म चारी सर्वभूतहिते रतः स लॊकान विपुलान दिव्यान आदित्यानाम उपाश्नुते ॥ 85 ॥
गन्धर्वैर अप्सरॊभिश च दिव्यमाल्यानुलेपनैः विमानैः काञ्चनैर दिव्यैः पृष्ठतश चानुगम्यते ॥ 86 ॥
एकविंशे तु दिवसे यॊ भुङ्क्ते हय एकभॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 87 ॥
लॊकम औशनसं दिव्यं शक्र लॊकं च गच्छति अश्विनॊर मरुतां चैव सुखेष्व अभिरतः सदा ॥ 88 ॥
अनभिज्ञश च दुःखानां विमानवरम आस्थितः सेव्यमानॊ वरस्त्रीभिः करीडत्य अमरवत परभुः ॥ 89 ॥
दवाविंशे दिवसे पराप्ते यॊ भुङ्क्ते हय एकभॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 90 ॥
धृतिमान अहिंसा निरतः सत्यवाग अनसूयकः लॊकान वसूनाम आप्नॊति दिवाकरसमप्रभः ॥ 91 ॥
कामचारी सुधा हारॊ विमानवरम आस्थितः रमते देवकन्याभिर दिव्याभरणभूषितः ॥ 92 ॥
तरयॊविंशे तु दिवसे पराशेद यस तव एकभॊजनम सदा दवादश मासांस तु मिताहारॊ जितेन्द्रियः ॥ 93 ॥
वायॊर उशनसश चैव रुद्र लॊकं च गच्छति कामचारी कामगमः पूज्यमानॊ ऽपसरॊगणैः ॥ 94 ॥
अनेकगुणपर्यन्तं विमानवरम आस्थितः रमते देवकन्याभिर दिव्याभरणभूषितः ॥ 95 ॥
चतुर्विंशे तु दिवसे यः पराशेद एकभॊजनम सदा दवादश मासान वै जुह्वानॊ जातवेदसम ॥ 96 ॥
आदित्यानाम अधीवासे मॊदमानॊ वसेच चिरम दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः ॥ 97 ॥
विमाने काञ्चने दिव्ये हंसयुक्ते मनॊरमे रमते देवकन्यानां सहस्रैर अयुतैस तथा ॥ 98 ॥
पञ्चविंशे तु दिवसे यः पराशेद एकभॊजनम सदा दवादश मासांस तु पुष्कलं यानम आरुहेत ॥ 99 ॥
सिंहव्याघ्र परयुक्तैश च मेघस्वननिनादितैः रथैः स नन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते ॥ 100 ॥
देवकन्या समारूढै राजतैर विमलैः शुभैः विमानम उत्तमं दिव्यम आस्थाय सुमनॊहरम ॥ 101 ॥
तत्र कल्पसहस्रं वै वसते सत्री शतावृते सुधा रसं चॊपजीवन्न अमृताव उपमम उत्तमम ॥ 102 ॥
षड्विंशे दिवसे यस तु पराश्नीयाद एकभॊजनम सदा दवादश मासांस तु नियतॊ नियताशनः ॥ 103 ॥
जितेन्द्रियॊ वीतरागॊ जुह्वानॊ जातवेदसम स पराप्नॊति महाभागः पूम्यमानॊ ऽपसरॊगणैः ॥ 104 ॥
सप्तानां मरुतां लॊकान वसूनां चापि शॊ ऽशनुते विमाने सफाटिके दिव्ये सर्वरत्नैर अलंकृते ॥ 105 ॥
गन्धर्वैर अप्सरॊभिश च पूज्यमानः परमॊदते दवे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ 106 ॥
सप्तविंशे तु दिवसे यः पराशेद एकभॊजनम सदा दवादश मासांस तु जुह्वानॊ जातवेदसम ॥ 107 ॥
फलं पराप्नॊति विपुलं देवलॊके च पूज्यते अमृताशी वसंस तत्र स वितृप्तः परमॊदते ॥ 108 ॥
देवर्षिचरितं राजन राजर्षिभिर अधिष्ठितम अध्यावसति दिव्यात्मा विमानवरम आस्थितः ॥ 109 ॥
सत्रीभिर मनॊऽभिरामाभी रममाणॊ मदॊत्कटः युगकक्ल्प सहस्राणि तरीण्य आवसति वै सुखम ॥ 110 ॥
यॊ ऽषटाविंशे तु दिवसे पराश्नीयाद एकभॊजनम सदा दवादश मासांस तु जितात्मा विजितेन्द्रियः ॥ 111 ॥
फलं देवर्षिचरितं विपुलं समुपाश्नुते भॊगवांस तेजसा भाति सहस्रांशुर इवामलः ॥ 112 ॥
सुकुमार्यश च नार्यस तं रममाणाः सुवर्चसः पीनस्तनॊरु जघना दिव्याभरणभूषिताः ॥ 113 ॥
रमयन्ति मनःकान्ता विमाने सूर्यसंनिभे सर्वकामगमे दिव्ये कल्पायुत शतं समाः ॥ 114 ॥
एकॊनत्रिंशे दिवसे यः पराशेद एकभॊजनम सदा दवादश मासान वै सत्यव्रतपरायणः ॥ 115 ॥
तस्य लॊकाः शुभा दिव्या देवराजर्षिपूजिताः विमानं चन्द्र शुभाभं दिव्यं समधिगच्छति ॥ 116 ॥
जातरूपमयं युक्तं सर्वरत्नविभूषितम अप्सरॊगणसंपूर्णं गन्धर्वैर अभिनादितम ॥ 117 ॥
तत्र चैनं शुभा नार्यॊ दिव्याभरणभूषिताः मनॊऽभिरामा मधुरा रमयन्ति मदॊत्कटाः ॥ 118 ॥
भॊगवांस तेजसा युक्तॊ वैश्वानरसमप्रभः दिव्यॊ दिव्येन वपुषा भराजमान इवामरः ॥ 119 ॥
वसूनां मरुतां चैव साध्यानाम अश्विनॊस तथा रुद्राणां च तथा लॊकान बरह्मलॊकं च गच्छति ॥ 120 ॥
यस तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः सदा दवादश मासान वै बरह्मलॊकम अवाप्नुयात ॥ 121 ॥
सुधा रसकृताहारः शरीमान सर्वमनॊहरः तेजसा वपुषा लक्ष्म्या भराजते रश्मिवान इव ॥ 122 ॥
दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः सुखेष्व अभिरतॊ यॊगी दुःखानाम अविजानकः ॥ 123 ॥
सवयंप्रभाभिर नारीभिर विमानस्थॊ महीयते रुद्र देवर्षिकन्याभिः सततं चाभिपूज्यते ॥ 124 ॥
नानाविध सुरूपाभिर नाना रागाभिर एव च नाना मधुरभाषाभिर नाना रतिभिर एव च ॥ 125 ॥
विमाने नगराकारे सूर्यवत सूर्यसंनिभे पृष्ठतः सॊमसंकाशे उदक चैवाभ्र संनिभे ॥ 126 ॥
दक्षिणायां तु रक्ताभे अधस्तान निल मण्डले ऊर्ध्वं चित्राभिसंकाशे नैकॊ वसति पूजितः ॥ 127 ॥
यावद वर्षसहस्रं तु जम्बूद्वीपे परवर्षति तावत संवत्सराः परॊक्ता बरह्मलॊकस्य धीमतः ॥ 128 ॥
विप्रुषश चैव यावन्त्यॊ निपतन्ति नभस्तलात वर्षासु वर्षतस तावन निवसत्य अमरप्रभः ॥ 129 ॥
मासॊपवासी वर्षैस तु दशभिर सवर्गम उत्तमम महर्षित्वम अथासाद्य स शरीरगतिर भवेत ॥ 130 ॥
मुनिर दान्तॊ जितक्रॊधॊ जितशिश्नॊदरः सदा जुह्वन्न अग्नींश च नियतः संध्यॊपासनसेविता ॥ 131 ॥
बहुभिर नियमैर एवं मासान अश्नाति यॊ नरः अभ्रावकाश शीलश च तस्य वासॊ निरुच्यते ॥ 132 ॥
दिवं गत्वा शरीरेण सवेन राजन यथामरः सवर्गं पुण्यं यथाकामम उपभुङ्क्ते यथाविधि ॥ 133 ॥
एष ते भरतश्रेष्ठ यज्ञानां विधिर उत्तमः वयाख्यातॊ हय आनुपूर्व्येण उपवासफलात्मकः ॥ 134 ॥
दरिद्रैर मनुजैः पार्थ पराप्यं यज्ञफलं यथा उपवासम इमं कृत्वा गच्छेच च परमां गतिम देवद्विजातिपूजायां रतॊ भरतसत्तम ॥ 135 ॥
उपवासविधिस तव एष विस्तरेण परकीर्तितः नियतेष्व अप्रमत्तेषु शौचवत्सु महात्मसु ॥ 136 ॥
दम्भद्रॊह निवृत्तेषु कृतबुद्धिषु भारत अचलेष्व अप्रकम्पेषु मा ते भूद अत्र संशयः ॥ 137 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111