[य] सर्वेषाम एव वर्णानां मलेच्छानां च पितामह उपवासे मतिर इयं कारणं च न विद्महे ॥ 1 ॥
बरह्मक्षत्रेण नियमाश चर्तव्या इति नः शरुतम उपवासे कथं तेषां कृत्यम अस्ति पितामह ॥ 2 ॥
नियमं चॊपवासानां सर्वेषां बरूहि पार्थिव अवाप्नॊति गतिं कां च उपवासपरायणः ॥ 3 ॥
उपवासः परं पुण्यम उपवासः परायणम उपॊष्येह नरश्रेष्ठ किं फलं परतिपद्यते ॥ 4 ॥
अधर्मान मुच्यते केन धर्मम आप्नॊति वै कथम सवर्गं पुण्यं च लभते कथं भरतसत्तम ॥ 5 ॥
उपॊष्य चापि किं तेन परदेयं सयान नराधिप धर्मेण च सुखान अर्थाँल लभेद येन बरवीहि तम ॥ 6 ॥
[व] एवं बरुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित धर्मपुत्रम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत ॥ 7 ॥
इदं खलु महाराज शरुतम आसीत पुरातनम उपवासविधौ शरेष्ठा ये गुणा भरतर्षभ ॥ 8 ॥
पराजापत्यं हय अङ्गिरसं पृष्टवान अस्मि भारत यथा मां तवं तथैवाहं पृष्टवांस तं तपॊधनम ॥ 9 ॥
परश्नम एतं मया पृष्टॊ भगवान अग्निसंभवः उपवासविधिं पुण्यम आचष्ट भरतर्षभ ॥ 10 ॥
[अन्गिरस] बरह्मक्षत्रे तरिरात्रं तु विहितं कुरुनन्दन दविस तरिरात्रम अथैवात्र निर्दिष्टं पुरुषर्षभ ॥ 11 ॥
वैश्यशूद्रौ तु यौ मॊहाद उपवासं परकुर्वते तरिरात्रं दविस तरिरात्रं वा तयॊः पुष्टिर न विद्यते ॥ 12 ॥
चतुर्थ भक्त कषपणं वैश्यशूद्रे विधीयते तरिरात्रं न तु धर्मज्ञैर विहितं बरह्मवादिभिः ॥ 13 ॥
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत कषमावान रूपसंपन्नः शरुतवांश चैव जायते ॥ 14 ॥
नानपत्यॊ भवेत पराज्ञॊ दरिद्रॊ वा कदा चन यजिष्णुः पञ्चमीं षष्ठीं कषपेद यॊ भॊजयेद दविजान ॥ 15 ॥
अष्टमीम अथ कौन्तेय शुक्लपक्षे चतुर्दषीम उपॊष्य वयाधिरहितॊ वीर्यवान अभिजायते ॥ 16 ॥
मार्गशीर्षं तु यॊ मामम एकभक्तेन संक्षिपेत भॊजयेच च दविजान भक्त्या स मुच्येद वयाधिकिल्बिषैः ॥ 17 ॥
सर्वकल्याण संपूर्णः सर्वौषधिसमन्वितः कृषिभागी बहुधनॊ बहुपुत्राश च जायते ॥ 18 ॥
पौष मासं तु कौन्तेय भक्तेनैकेन यः कषपेत सुभगॊ दर्शनीयश च यशॊभागी च याजते ॥ 19 ॥
पितृभक्तॊ माघमासम एकभक्तेन यः कषपेत शरीमत कुले जञातिमध्ये स महत्त्वं परपद्यते ॥ 20 ॥
भग दैवं तु यॊ मासम एकभक्तेन यः कषपेत सत्रीषु वल्लभतां याति वाश्याश चास्य भवन्ति ताः ॥ 21 ॥
चैत्रं तु नियतॊ मासम एकभक्तेन यः कषपेत सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ 22 ॥
निस्तरेद एकभक्तेन वैशाखं यॊ जितेन्द्रियः नरॊ वा यदि वा नारी जञातीनां शरेष्ठतां वरजेत ॥ 23 ॥
जयेष्ठा मूलं तु यॊ मासम एकभक्तेन संक्षपेत ऐश्वर्यम अतुलं शरेष्ठं पुमान सत्री वाभिजायते ॥ 24 ॥
आषाढम एकभक्तेन सथित्वा मासम अतन्द्रितः बहु धान्यॊ बहुधनॊ बहुपुत्रश च जायते ॥ 25 ॥
शरावणं नियतॊ मासम एकभक्तेन यः कषपेत यत्र तत्राभिषेकेण युज्यते जञातिवर्धनः ॥ 26 ॥
परौष्ठ पदं तु यॊ मासम एकाहारॊ भवेन नरः धनाड्यं सफीतम अचलम ऐश्वर्यं परतिपद्यते ॥ 27 ॥
तथैवाश्वयुजं मासम एकभक्तेन यः कषपेत परजावान वाहनाढ्यश च बहुपुत्रश च जायते ॥ 28 ॥
कार्त्तिकं तु नरॊ मासं यः कुर्याद एकभॊजनम शूरश च बहुभार्यश च कीर्तिमांश चैव जायते ॥ 29 ॥
इति मासा नरव्याघ्र कषपतां करिकीर्तिताः तिथीनां नियमा ये तु शृणु तान अपि पार्थिव ॥ 30 ॥
पक्षे पक्षे गते यस तु भक्तम अश्नाति भारत गवाढ्यॊ बहुपुत्रश च दीर्घायुश च स जायते ॥ 31 ॥
मासि मासि तरिरात्राणि कृत्वा वर्षाणि दवादश गणाधिपत्यं पराप्नॊति निः सपत्नम अनाविलम ॥ 32 ॥
एते तु नियमाः सर्वे कर्तव्याः शरदॊ दश दवे चान्ये भरतश्रेष्ठ परवृत्तिम अनुवर्तता ॥ 33 ॥
यस तु परातस तथा सायं भुञ्जानॊ नान्तरा पिबेत अहिंसा निरतॊ नित्यं जुह्वानॊ जातवेदसम ॥ 34 ॥
षड्भिः स वर्षैर नृपते सिध्यते नात्र संशयः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 35 ॥
अधिवासे सॊ ऽपसरसां नृत्यगीतविनादिते तप्तकाञ्चनवर्णाभं विमानम अधिरॊहति ॥ 36 ॥
पूर्णं वर्षसहस्रं तु बरह्मलॊके महीयते तत कषयाद इह चागम्य माहात्म्यं परतिपद्यते ॥ 37 ॥
यस तु संवत्सरं पूर्णम एकाहारॊ भवेन नरः अतिरात्रस्य यज्ञस्य सफलं समुपाश्नुते ॥ 38 ॥
दशवर्षसहस्राणि सवर्गे च स महीयते तत कषयाद इह चागम्य माहात्म्यं परतिपद्यते ॥ 39 ॥
यस तु संवत्सरं पूर्णं चतुर्थं भक्तम अश्नुते अहिंसा निरतॊ नित्यं सत्यवाङ नियतेन्द्रियः ॥ 40 ॥
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते तरिंशद्वर्षसहस्राणि सवर्गे च स महीयते ॥ 41 ॥
षष्ठे काले तु कौन्तेय नरः संवत्सरं कषपेत अश्वमेधस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 42 ॥
चक्रवाक परयुक्तेन विमानेन स गच्छति चत्वारिंशत सहस्राणि वर्षाणां दिवि मॊदते ॥ 43 ॥
अष्टमेन तु भक्तेन जीवन संवत्सरं नृप गवामयस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 44 ॥
हंससारसयुक्तेन विमानेन स गच्छति पञ्चाशतं सहस्राणि वर्षाणां दिवि मॊदते ॥ 45 ॥
पक्षे पक्षे गते राजन यॊ ऽशनीयाद वर्षम एव तु षण मासानशनं तस्य भगवान अङ्गिराब्रवीत षष्टिं वर्षसहस्राणि दिवम आवसते च सः ॥ 46 ॥
वीणानां वल्लकीनां च वेणूनां च विशां पते सुघॊषैर मधुरैः शब्दैः सुप्तः स परतिबॊध्यते ॥ 47 ॥
संवत्सरम इहैकं तु मासि मासि पिबेत पयः फलं विश्वजितस तात पराप्नॊति स नरॊ नृप ॥ 48 ॥
सिंहव्याघ्र परयुक्तेन विमानेन स गच्छति सप्ततिं च सहस्राणि वर्षाणां दिवि मॊदते ॥ 49 ॥
माहाद ऊर्ध्वं नरव्याघ्र नॊपवासॊ विधीयते विधिं तव अनशनस्याहुः पार्थ धर्मविदॊ जनाः ॥ 50 ॥
अनार्तॊ वयाधिरहितॊ गच्छेद अनशनं तु यः पदे पदे यज्ञफलं स पराप्नॊति न संशयः ॥ 51 ॥
दिवं हंसप्रयुक्तेन विमानेन स गच्छति शतं चाप्सरसः कन्या रमयन्त्य अपि तं नरम ॥ 52 ॥
आर्तॊ वा वयाधितॊ वापि गच्छेद अनशनं तु यः शतं वर्षसहस्राणां मॊदते दिवि स परभॊ काञ्चीनूपुरशब्देन सुप्तश चैव परबॊध्यते ॥ 53 ॥
सहस्रहंस संयुक्ते विमाने सॊमवर्चसि स गत्वा सत्रीशताकीर्णे रमते भरतर्षभ ॥ 54 ॥
कषीणस्याप्यायनं दृष्टं कषतस्य कषतरॊहणम वयाधितस्यौषध गरामः करुद्धस्य च परसादनम ॥ 55 ॥
दुःखितस्यार्थमानाभ्यां दरव्याणां परतिपादनम न चैते सवर्गकामस्य रॊचन्ते सुखमेधसः ॥ 56 ॥
अतः स कामसंयुक्तॊ विमाने हेमसंनिभे रमते सत्री शताकीर्णे पुरुषॊ ऽलं कृतः शुभे ॥ 57 ॥
सवस्थः सफलसंकल्पः सुखी विगतकल्मषः अनश्नन देहम उत्सृज्य फलं पराप्नॊति मानवः ॥ 58 ॥
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि वैडूर्य मुक्ता खचिते वीणा मुरजनादिते ॥ 59 ॥
पताका दीपिकाकीर्णे दिव्यघण्टा निनादिते सत्रीसहस्रानुचरिते स नरः सुखम एधते ॥ 60 ॥
यावन्ति रॊमकूपाणि तस्य गात्रेषु पाण्डव तावन्त्य एव सहस्राणि वर्षाणां दिवि मॊदते ॥ 61 ॥
नास्ति वेदात परं शास्त्रं नास्ति मातृसमॊ गुरुः न धर्मात परमॊ लाभस तपॊ नानशनात परम ॥ 62 ॥
बराह्मणेभ्यः परं नास्ति पावनं दिवि चेह च उपवासैस तथा तुल्यं तपः कर्म न विद्यते ॥ 63 ॥
उपॊष्य विधिवद देवास तरिदिवं परतिपेदिरे ऋषयश च परां सिद्धिम उपवासैर अवाप्नुवन ॥ 64 ॥
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता कषान्तम एकेन भक्तेन तेन विर्पत्वम आगतः ॥ 65 ॥
चयवनॊ जमदग्निश च वसिष्ठॊ गौतमॊ भृगुः सर्व एव दिवं पराप्ताः कषमावन्तॊ महर्षयः ॥ 66 ॥
इदम अङ्गिरसा पूर्वं महर्षिभ्यः परदर्शितम यः परदर्शयते नित्यं न स दुःखम अवाप्नुते ॥ 67 ॥
इमं तु कौन्तेय यथाक्रमं विधिं; परवर्तितं हय अङ्गिरसा महर्षिणा पठेत यॊ वै शृणुयाच च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम ॥ 68 ॥
विमुच्यते चापि स सर्वसंकरैर; न चास्य दॊषैर अभिभूयते मनः वियॊनिजानां च विजानते रुतं; धरुवां च कीर्तिं लभते नरॊत्तमः ॥ 69 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 109
Reach this point to mark the section finished.
Continue to अध्याय 110