[य] दानं बहुविधाकारं शान्तिः सत्यम अहिंसता सवदारतुष्टिश चॊक्ता ते फलं दानस्य चैव यत ॥ 1 ॥
पितामहस्य विदितं किम अन्यत्र तपॊबलात तपसॊ यत परं ते ऽदय तन मे वयाख्यातुम अर्हसि ॥ 2 ॥
[भ] तपः परचक्षते यावत तावल लॊका युधिष्ठिर मतं मम तु कौन्तेय तपॊ नानशनात परम ॥ 3 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भगीरथस्य संवादं बरह्मणश च महात्मनः ॥ 4 ॥
अतीत्य सुरलॊकं च गवां लॊकं च भारत ऋषिलॊकं च सॊ ऽगच्छद भगीरथ इति शरुतिः ॥ 5 ॥
तं दृष्ट्वा स वचः पराह बरह्मा राजन भगीरथम कथं भगीरथागास तवम इमं देशं दुरासदम ॥ 6 ॥
न हि देवा न गन्धर्वा न मनुष्या भगीरथ आयान्त्य अतप्त तपसः कथं वै तवम इहागतः ॥ 7 ॥
[भगी] निःशङ्कम अन्नम अददं बराह्मणेभ्यः; शतं सहस्राणि सदैव दानम बराह्मं वरतं नित्यम आस्थाय विद्धि; न तव एवाहं तस्य फलाद इहागाम ॥ 8 ॥
दशैक रात्रान दश पञ्चरात्रान; एकादशैकादशकान करतूंश च जयॊतिष्टॊमानां च शतं यद इष्टं; फलेन तेनापि च नागतॊ ऽहम ॥ 9 ॥
यच चावसं जाह्नवीतीर नित्यः; शतं समास तप्यमानस तपॊ ऽहम अदां च तत्राश्वतरी सहस्रं; नारी पुरं न च तेनाहम आगाम ॥ 10 ॥
दशायुतानि चावानाम अयुतानि च विंशतिम पुष्करेषु दविजातिभ्यः परादां गाश च सहस्रशः ॥ 11 ॥
सुवर्णचन्द्रॊडुप धारिणीनां; कन्यॊत्तमानाम अददं सरग्विणीनाम षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैर आभरणैर न तेन ॥ 12 ॥
दशार्बुदान्य अददं गॊसवेज्यास्व; एकैकशॊ दश गा लॊकनाथ समानवत्साः पयसा समन्विताः; सुवर्णकांस्यॊपदुहा न तेन ॥ 13 ॥
अप्तॊर्यामेषु नियतम एकैकस्मिन दशाददम गृष्टीनां कषीरदात्रीणां रॊहिणीनां च तेन च ॥ 14 ॥
दॊग्ध्रीणां वै गवां चैव परयुतानि दशैव हि परादां दशगुणं बरह्मन न च तेनाहम आगतः ॥ 15 ॥
वाजिनां बाह्लिजातानाम अयुतान्य अददं दश कर्काणां हेममालानां न च तेनाहम आगतः ॥ 16 ॥
कॊटीश च काञ्चनस्याष्टौ परादां बरह्मन दश तव अहम एकैकस्मिन करतौ तेन फलेनाहं न चागतः ॥ 17 ॥
वाजिनां शयाम कर्णानां हरितानां पितामह परादां हेमस्रजां बरह्मन कॊटीर दश च सप्त च ॥ 18 ॥
ईषा दन्तान महाकायान काञ्चनस्रग्वि भूषितान पत्नीमतः सहस्राणि परायच्छं दश सप्त च ॥ 19 ॥
अलंकृतानां देवेश दिव्यैः कनकभूषणैः रथानां काञ्चनाङ्गानां सहस्राण्य अददं दश सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः ॥ 20 ॥
दक्षिणावयवाः के चिद वेदैर ये संप्रकीर्तिताः वाजपेयेषु दशसु परादां तेनापि नाप्य अहम ॥ 21 ॥
शक्रतुल्यप्रभावानाम इज्यया विक्रमेण च सहस्रं निष्ककण्ठानाम अददं दक्षिणाम अहम ॥ 22 ॥
विजित्य नृपतीन सर्वान मखैर इष्ट्वा पितामह अष्टभ्यॊ राजसूयेभ्यॊ न च तेनाहम आगतः ॥ 23 ॥
सरॊतश च यावद गङ्गायाश छन्नम आसीज जगत्पते दक्षिणाभिः परवृत्ताभिर मम नागां च तत कृते ॥ 24 ॥
वाजिनां च सहस्रे दवे सुवर्णशतभूषिते वरं गरामशतं चाहम एकैकस्य तरिधाददम तपस्वी नियताहारः शमम आस्थाय वाग्यतः ॥ 25 ॥
दीर्घकालं हिमवति गङ्गायाश च दुरुत्सहाम मूर्ध्ना धारां महादेवः शिरसा याम अधारयत न तेनाप्य अहम आगच्छं फलेनेह पितामह ॥ 26 ॥
शम्य आक्षेपैर अयजं यच च देवान; सद्यस्कानाम अयुतैश चापि यत तत तरयॊ दश दवादशाहांश च देव; स पौण्डरीकान न च तेषां फलेन ॥ 27 ॥
अष्टौ सहस्राणि ककुद्मिनाम अहं; शुक्लर्षभाणाम अददं बराह्मणेभ्यः एकैकं वै काञ्चनं शृङ्गम एभ्यः; पत्नीश चैषाम अददं निष्ककण्ठीः ॥ 28 ॥
हिरण्यरत्ननिचितान अददं रत्नपर्वतान धनधान्य समृद्धांश च गरामाञ शतसहस्रशः ॥ 29 ॥
शतं शतानां गृष्टीनाम अददं चाप्य अतन्द्रितः इष्ट्वानेकैर महायज्ञैर बराह्मणेभ्यॊ न तेन च ॥ 30 ॥
एकादशाहैर अयजं स दक्षिणैर; दविर दवादशाहैर अश्वमेधैश च देव आर्कायणैः षॊडशभिश च बरह्मंस; तेषां फलेनेह न चागतॊ ऽसमि ॥ 31 ॥
निष्कैक कण्ठम अददं यॊजनायतं; तद विस्तीर्णं काञ्चनपादपानाम वनं चूतानां रत्नविभूषितानां; न चैव तेषाम आगतॊ ऽहं फलेन ॥ 32 ॥
तुरायणं हि वरतम अप्रधृष्यम; अक्रॊधनॊ ऽकरवं तरिंशतॊ ऽबदान शतं गवाम अष्ट शतानि चैव; दिने दिने हय अददं बराह्मणेभ्यः ॥ 33 ॥
पयस्विनीनाम अथ रॊहिणीनां; तथैव चाप्य अनडुहां लॊकनाथ परादां नित्यं बराह्मणेभ्यः सुरेश; नेहागतस तेन फलेन चाहम ॥ 34 ॥
तरिंशद अग्निम अहं बरह्मन्न अयजं यच च नित्यदा अष्टाभिः सर्वमेधैश च नरमेधैश च सप्तभिः ॥ 35 ॥
दशभिर विश्वजिद्भिश च शतैर अष्टादशॊत्तरैः न चैव तेषां देवेश फलेनाहम इहागतः ॥ 36 ॥
सरय्वां बाहुदायां च गङ्गायाम अथ नैमिषे गवां शतानाम अयुतम अददं न च तेन वै ॥ 37 ॥
इन्द्रेण गुह्यं निहितं वै गुहायां; यद भार्गवस तपसेहाभ्यविन्दत जाज्वल्यमानम उशनस तेजसेह; तत साधयाम आसम अहं वरेण्यम ॥ 38 ॥
ततॊ मे बराह्मणास तुष्टास तस्मिन कर्मणि साधिते सहस्रम ऋषयश चासन ये वै तत्र समागताः उक्तस तैर अस्मि गच्छ तवं बरह्मलॊकम इति परभॊ ॥ 39 ॥
परीतेनॊक्तः सहस्रेण बराह्मणानाम अहं परभॊ इमं लॊकम अनुप्राप्तॊ मा भूत ते ऽतर विचारणा ॥ 40 ॥
कामं यथावद विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत तपॊ हि नान्यच चानशनान मतं मे; नमॊ ऽसतु ते देववर परसीद ॥ 41 ॥
[भ] इत्य उक्तवन्तं तं बरह्मा राजानं सम भगीरथम पूजयाम आस पूजार्हं विधिदृष्ट्तेन कर्मणा ॥ 42 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 106
Reach this point to mark the section finished.
Continue to अध्याय 107