[य] एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह उत तत्रापि नानात्वं तन मे बरूहि पितामह ॥ 1 ॥
[भ] कर्मभिः पार्थ नानात्वं लॊकानां यान्ति मानवाः पुण्यान पुण्यकृतॊ यान्ति पापान पापकृतॊ जनाः ॥ 2 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गौतमस्य मुनेस तात संवादं वासवस्य च ॥ 3 ॥
बराह्मणॊ गौतमः कश चिन मृदुर दान्तॊ जितेन्द्रियः महावने हस्तिशिशुं परिद्यूनम अमातृकम ॥ 4 ॥
तं दृष्ट्वा जीवयाम आस सानुक्रॊशॊ धृतव्रतः स तु दीर्घेण कालेन बभूवातिबलॊ महान ॥ 5 ॥
तं परभिन्नं महानागं परस्रुतं सर्वतॊ मदम धृतराष्ट्रस्य रूपेण शक्रॊ जग्राह हस्तिनम ॥ 6 ॥
हरियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ 7 ॥
मा मे हार्षीर हस्तिनं पुत्रम एनं; दुःखात पुष्टं धृतराष्ट्राकृतज्ञ मित्रं सतां सप्त पदं वदन्ति; मित्रद्रॊहॊ नैव राजन सपृशेत तवाम ॥ 8 ॥
इध्मॊदक परदातारं शून्यपालकम आश्रमे विनीतम आचार्य कुले सुयुक्तं गुरु कर्मणि ॥ 9 ॥
शिष्टं दान्तं कृतज्ञं च परियं च सततं मम न मे विक्रॊशतॊ राजन हर्तुम अर्हसि कुञ्जरम ॥ 10 ॥
[धृ] गवां सहस्रं भवते ददामि; दासी शतं निष्कशतानि पञ्च अन्यच च वित्तं विविधं महर्षे; किं बराह्मणस्येह गजेन कृत्यम ॥ 11 ॥
[ग] तवाम एव गावॊ ऽभि भवन्तु राजन; दास्यः स निष्का विविधं च रत्नम अन्यच च वित्तं विविधं नरेन्द्र; किं बराह्मणस्येह धनेन कृत्यम ॥ 12 ॥
[धृ] बराह्मणानां हस्तिभिर नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र सवं वाहनं नयतॊ नास्त्य अधर्मॊ; नागश्रेष्ठाद गौतमास्मान निवर्त ॥ 13 ॥
[ग] यत्र परेतॊ नन्दति पुण्यकर्मा; यत्र परेतः शॊचति पापकर्मा वैवस्वतस्य सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 14 ॥
[धृ] ये निष्क्रिया नास्तिकाः शरद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः यमस्य ते यातनां पराप्नुवन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 15 ॥
[ग] वैवस्वती संयमनी जनानां; यत्रानृतं नॊच्यते यत्र सत्यम यत्राबला बलिनं यातयन्ति; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 16 ॥
[धृ] जयेष्ठां सवसारं पितरं मातरं च; गुरुं यथा मानयन्तश चरन्ति तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 17 ॥
[ग] मन्दाकिनी वैश्रवणस्य राज्ञॊ; महाभॊगा भॊगि जनप्रवेश्या गन्धर्वयक्षैर अप्सरॊभिश च जुष्टा; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 18 ॥
[धृ] अतिथिव्रताः सुव्रता ये जना वै; परतिश्रयं ददति बराह्मणेभ्यः शिष्टाशिनः संविभज्याश्रितांश च; मन्दाकिनीं ते ऽपि विभूषयन्ति ॥ 19 ॥
[ग] मेरॊर उग्रे यद वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम सुदर्शना यत्र जम्बूर विशाला; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 20 ॥
[धृ] ये बराह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः ये ऽधीयन्ते सेतिहासं पुराणं; मध्व आहुत्या जुह्वति च दविजेभ्यः ॥ 21 ॥
तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र यद विद्यते विदितं सथानम अस्ति; तद बरूहि तवं तवरितॊ हय एष यामि ॥ 22 ॥
[ग] सुपुष्पितं किंनरराजजुष्टं; परियं वनं नन्दनं नारदस्य गन्धर्वाणाम अप्सरसां च सद्म; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 23 ॥
[धृ] ये नृत्तगीतकुशला जनाः सदा; हय अयाचमानाः सहिताश चरन्ति तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 24 ॥
[ग] यत्रॊत्तराः कुरवॊ भान्ति रम्या; देवैः सार्धं मॊदमाना नरेन्द्र यत्राग्नियौनाश च वसन्ति विप्रा; हय अयॊनयः पर्वत यॊनयश च ॥ 25 ॥
यत्र शक्रॊ वर्षति सर्वकामान; यत्र सत्रियः कामचाराश चचरन्ति यत्र चेर्ष्या नास्ति नारी नराणां; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 26 ॥
[धृ] ये सर्वभूतेषु निवृत्तकामा; अमांसादा नयस्तदण्डाश चरन्ति न हिंषन्ति सथावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ॥ 27 ॥
निराशिषॊ निर्ममॊ वीतरागा; लाभालाभे तुल्यनिन्दा परशंसाः तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 28 ॥
[ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशॊकाः सॊमस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 29 ॥
[धृ] ये दानशीला न परतिगृह्णते सदा; न चाप्य अर्थान आददते परेभ्यः येषाम अदेयम अर्हते नास्ति किं चित; सर्वातिथ्याः सुप्रसादा जनाश च ॥ 30 ॥
ये कषन्तारॊ नाभिजल्पन्ति चान्याञ; शक्ता भूत्वा सततं पुण्यशीलाः तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 31 ॥
[ग] ततः परं भान्ति लॊकाः सनातना; विरजसॊ वितमस्का विशॊकाः आदित्यस्य सुमहान्तः सुवृत्तास; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 32 ॥
[धृ] सवाध्यायशीला गुरुशुश्रूषणे रतास; तपस्विनः सुव्रताः सत्यसंधाः आचार्याणाम अप्रतिकूल भाषिणॊ; नित्यॊत्थिता गुरु कर्म सवचॊद्याः ॥ 33 ॥
तथाविधानाम एष लॊकॊ महर्षे; विशुद्धानां भावितवान्मतीनाम सत्ये सथितानां वेद विदां महात्मनां; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 34 ॥
[ग] ततः परे भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा विशॊकाः वरुणस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 35 ॥
[धृ] चातुर्मास्यैर ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं पराप्नुवन्ति ये चाग्निहॊत्रं जुह्वति शरद्दधाना; यथान्यायं तरीणि वर्षाणि विप्राः ॥ 36 ॥
सवदारिणां धर्मधुरे महात्मनां; यथॊचिते वर्त्मनि सुस्थितानाम धर्मात्मनाम उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 37 ॥
[ग] इन्द्रस्य लॊका विरजा विशॊका; दुरन्वयाः काङ्क्षिता मानवानाम तस्याहं ते भवने भूरि तेजसॊ; राजन्न इमं हस्तिनं यातयिष्ये ॥ 38 ॥
शतवर्ष जीवी यश च शूरॊ मनुष्यॊ; वेद धयायी यश च यज्वाप्रमत्तः एते सर्वे शक्र लॊकं वरजन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र ॥ 39 ॥
[ग] पराजापत्याः सन्ति लॊका महान्तॊ; नाकस्य पृष्ठे पुष्लका वीतशॊकाः मनीषिताः सर्वलॊकॊद्भवानां; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 40 ॥
[धृ] ये राजानॊ राजसूयाभिषिक्ता; धर्मात्मानॊ रक्षितारः परजानाम ये चाश्वमेधावभृथाप्लुताङ्गास; तेषां लॊका धृतराष्ट्रॊ न तत्र ॥ 41 ॥
[ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशॊकाः तस्मिन्न अहं दुर्लभे तवाप्रधृष्ये; गवां लॊके हस्तिनं यातयिष्ये ॥ 42 ॥
[धृ] यॊ गॊसहस्री शतदः समां समां; यॊ गॊशती दश दद्याच च शक्त्याः तथा दशभ्यॊ यश च दद्याद इहैकां; पञ्चभ्यॊ वा दानशीलस तथैकम ॥ 43 ॥
ये जीर्यन्ते बरह्मचर्येण विप्रा; बराह्मीं वाचं परिरक्षन्ति चैव मनस्विनस तीर्थयात्रा परायणास; ते तत्र मॊदन्ति गवां विमाने ॥ 44 ॥
परभासं मानसं पुण्यं पुष्कराणि महत सरः पुण्यं च नैमिषं तीर्थं बाहुदां करतॊयिनीम ॥ 45 ॥
गवां गय शिरश चैव विपाशां सथूलवालुकाम तूष्णीं गङ्गां दश गङ्गां महाह्रदम अथापि च ॥ 46 ॥
गौतमीं कौशिकीं पाकां महात्मानॊ धृतव्रताः सरस्वती दृषद्वत्यौ यमुनां ये परयान्ति च ॥ 47 ॥
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः परयान्ति पुण्यगन्धाढ्या धृतराष्ट्रॊ न तत्र वै ॥ 48 ॥
[ग] यत्र शीतभयं नास्ति न चॊष्ण भयम अण्व अपि न कषुत्पिपासे न गलानिर न दुःखं न सुखं तथा ॥ 49 ॥
न दवेष्यॊ न परियः कश चिन न बन्धुर न रिपुस तथा न जरामरणे वापि न पुण्यं न च पातकम ॥ 50 ॥
तस्मिन विरजसि सफीते परज्ञा सत्त्वव्यवस्थिते सवयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति ॥ 51 ॥
[धृ] निर्मुक्ताः सर्वसङ्गेभ्यॊ कृतात्मानॊ यतव्रताः अध्यात्मयॊगसंस्थाने युक्ताः सवर्गगतिं गताः ॥ 52 ॥
ते बरह्मभवनं पुण्यं पराप्नुवन्तीह सात्त्विकाः न तत्र धृतराष्ट्रस ते शक्यॊ दरष्टुं महामुने ॥ 53 ॥
[ग] रथन्तरं यत्र बृहच च गीयते; यत्र वेदी पुण्डरीकैः सतृणॊति यत्रॊपयाति हरिभिः सॊमपीथी; तत्र तवाहं हस्तिनं यातयिष्ये ॥ 54 ॥
बुध्यामि तवां वृत्रहणं शतक्रतुं; वयतिक्रमन्तं भुवनानि विश्वा कच चिन न वाचा वृजिनं कदा चिद; अकार्षं ते मनसॊ ऽभिषङ्गात ॥ 55 ॥
[षक्र] यस्माद इमं लॊकपथं परजानाम; अन्वागमं पदवादे गजस्य तस्माद भवान परणतं मानुशास्तु; बरवीषि यत तत करवाणि सर्वम ॥ 56 ॥
[ग] शवेतं करेणुं मम पुत्र नागं; यं मे ऽहार्षीर दशवर्षाणि बालम यॊ मे वने वसतॊ ऽभूद दवितीयस; तम एव मे देहि सुरेन्द्र नागम ॥ 57 ॥
[षक्र] अयं सुतस ते दविजमुख्यनागश; चाघ्रायते तवाम अभिवीक्षमाणः पादौ च ते नासिकयॊपजिघ्रते; शरेयॊ मम धयाहि नमश च ते ऽसतु ॥ 58 ॥
[ग] शिवं सदैवेह सुरेन्द्र तुभ्यं; धयायामि पूजां च सदा परयुञ्जे ममापि तवं शक्र शिवं ददस्व; तवया दत्तं परतिगृह्णामि नागम ॥ 59 ॥
[षक्र] येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम तेषां तवयैकेन महात्मनास्मि; बुद्धस तस्मात परीतिमांस ते ऽहम अद्य ॥ 60 ॥
हन्तैहि बराह्मण कषिप्रं सह पुत्रेण हस्तिना पराप्नुहि तवं शुभाँल लॊकान अह्नाय च चिराय च ॥ 61 ॥
[भ] स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना दिवम आचक्रमे वज्री सद्भिः सह दुरासदम ॥ 62 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 105
Reach this point to mark the section finished.
Continue to अध्याय 106