[य] बराह्मण सवानि ये मन्दा हरन्ति भरतर्षभ नृशंसकारिणॊ मूढाः कव ते गच्छन्ति मानवाः ॥ 1 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम चण्डालस्य च संवादं कषत्रबन्धॊश च भारत ॥ 2 ॥
[राजन्य] वृद्धरूपॊ ऽसि चण्डाल बालवच च विचेष्टसे शवखराणां रजः सेवी कस्माद उद्विजसे गवाम ॥ 3 ॥
साधुभिर गर्हितं कर्म चण्डालस्य विधीयते कस्माद गॊरजसा धवस्तम अपां कुण्डे निषिञ्चसि ॥ 4 ॥
[च] बराह्मणस्य गवां राजन हरियतीनां रजः पुरा सॊमम उद्ध्वंसयाम आस तं सॊमं ये ऽपिबन दविजाः ॥ 5 ॥
दीक्षितश च स राजापि कषिप्रं नरकम आविशत सह तैर याजकैः सर्वैर बरह्म सवम उपजीव्य तत ॥ 6 ॥
ये ऽपि तत्रापिबन कषीरं घृतं दधि च मानवाः बराह्मणाः सह राजन्याः सर्वे नरकम आविशन ॥ 7 ॥
जघ्नुस ताः पयसा पुत्रांस तथा पौत्रान विधुन्वतीः पशून अवेक्षमाणाश च साधुवृत्तेन दम्पती ॥ 8 ॥
अहं तत्रावसं राजन बरह्म चारी जितेन्द्रियः तासां मे रजसा धवस्तं भैक्षम आसीन नराधिप ॥ 9 ॥
चण्डालॊ ऽहं ततॊ राजन भुक्त्वा तद अभवं मृतः बरह्म सवहारी च नृपः सॊ ऽपरतिष्ठां गतिं ययौ ॥ 10 ॥
तस्माद धरेन न विप्र सवं कदा चिद अपि किं चन बरह्म सवरजसा धवस्तं भुक्त्वा मां पश्य यादृशम ॥ 11 ॥
तस्मात सॊमॊ ऽपय अविक्रेयः पुरुषेण विपश्चिता विक्रयं हीह सॊमस्य गर्हयन्ति मनीषिणः ॥ 12 ॥
ये चैनं करीणते राजन ये च विक्रीणते जनाः ते तु वैवस्वतं पराप्य रौरवं यान्ति सर्वशः ॥ 13 ॥
सॊमं तु रजसा धवस्तं विक्रीयाद बुद्धिपूर्वकम शरॊत्रियॊ वार्धुषी भूत्वा चिररात्राय नश्यति नरकं तरिंशतं पराप्य शवविष्ठाम उपजीवति ॥ 14 ॥
शवचर्याम अतिमानं च सखिदारेषु विप्लवम तुलयाधारयद धर्मॊ हय अतिमानॊ ऽतिरिच्यते ॥ 15 ॥
शवानं वै पापिनं पश्य विवर्णं हरिणं कृशम अतिमानेन भूतानाम इमां गतिम उपागतम ॥ 16 ॥
अहं वै विपुले जातः कुले धनसमन्विते अन्यस्मिञ जन्मनि विभॊ जञानविज्ञानपारगः ॥ 17 ॥
अभवं तत्र जानानॊ हय एतान दॊषान मदात तदा संरब्ध एव भूतानां पृष्ठमांसान्य अभक्षयम ॥ 18 ॥
सॊ ऽहं तेन च वृत्तेन भॊजनेन च तेन वै इमाम अवस्थां संप्राप्तः पश्य कालस्य पर्ययम ॥ 19 ॥
आदीप्तम इव चैलान्तं भरमरैर इव चार्दितम धावमानं सुसंरब्धं पश्य मां रजसान्वितम ॥ 20 ॥
सवाध्यायैस तु महत पापं तरन्ति गृहमेधिनः दानैः पृथग्विधैश चापि यथा पराहुर मनीषिणः ॥ 21 ॥
तथा पापकृतं विप्रम आश्रमस्थं महीपते सर्वसङ्गविनिर्मुक्तं छन्दांस्य उत्तारयन्त्य उत ॥ 22 ॥
अहं तु पापयॊन्यां वै परसूतः कषत्रियर्षभ निश्चयं नाधिगच्छामि कथं मुच्येयम इत्य उत ॥ 23 ॥
जातिस्मरत्वं तु मम केन चित पूर्वकर्मणा शुभेन येन मॊक्षं वै पराप्तुम इच्छाम्य अहं नृप ॥ 24 ॥
तवम इमं मे परपन्नाय संशयं बरूहि पृच्छते चण्डालत्वात कथम अहं मुच्येयम इति सत्तम ॥ 25 ॥
[राजन्य] चण्डाल परतिजानीहि येन मॊक्षम अवाप्स्यसि बराह्मणार्थे तयजन पराणान गतिम इष्टाम अवाप्स्यसि ॥ 26 ॥
दत्त्वा शरीरं करव्याद्भ्यॊ रणाग्नौ दविज हेतुकम हुत्वा पराणान परमॊक्षस ते नान्यथा मॊक्षम अर्हसि ॥ 27 ॥
[भ] इत्य उक्तः स तदा राजन बरह्म सवार्थे परंतप हुत्वा रणमुखे पराणान गतिम इष्टाम अवाप ह ॥ 28 ॥
तस्माद रक्ष्यं तवया पुत्र बरह्म सवं भरतर्षभ यदीच्छसि महाबाहॊ शाश्वतीं गतिम उत्तमाम ॥ 29 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 104
Reach this point to mark the section finished.
Continue to अध्याय 105