[य] कथं स वै विपन्नश च कथं वै पातितॊ भुवि कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति ॥ 1 ॥
[भ] एवं तयॊः संवदतॊः करियास तस्य महात्मनः सर्वा एवाभ्यवर्तन्त या दिव्या याश च मानुषाः ॥ 2 ॥
तथैव दीपदानानि सर्वॊपकरणानि च बलिकर्म च यच चान्यद उत्सेकाश च पृथग्विधाः सर्वास तस्य समुत्पन्ना देवराज्ञॊ महात्मनः ॥ 3 ॥
देवलॊके नृलॊके च सद आचारा बुधैः समृताः ते चेद भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः धूपप्रदानैर दीपैश च नमः कारैस तथैव च ॥ 4 ॥
यथा सिद्धस्य चान्नस्य दविजायाग्रं परदीयते बलयश च गृहॊद्देशे अतः परीयन्ति देवताः ॥ 5 ॥
यथा च गृहिणस तॊषॊ भवेद वै बलिकर्मणा तथा शतगुणा परीतिर देवतानां सम जायते ॥ 6 ॥
एवं धूपप्रदानं च दीपदानं च साधवः परशंसन्ति नमः कारैर युक्तम आत्मगुणावहम ॥ 7 ॥
सनानेनाद्भिश च यत कर्म करियते वै विपश्चिता नमः कारप्रयुक्तेन तेन परीयन्ति देवताः गृह्याश च देवताः सर्वाः परीयन्ते विधिनार्चिताः ॥ 8 ॥
इत्य एतां बुद्धिम आस्थाय नहुषः स नरेश्वरः सुरेन्द्रत्वं महत पराप्य कृतवान एतद अद्भुतम ॥ 9 ॥
कस्य चित तव अथ कालस्य भाग्यक्षय उपस्थिते सर्वम एतद अवज्ञाय न चकारैतद ईदृशम ॥ 10 ॥
ततः स परिहीणॊ ऽभूत सुरेन्द्रॊ बलिकर्मतः धूपदीपॊदक विधिं न यथावच चकार ह ततॊ ऽसय यज्ञविषयॊ रक्षॊभिः पर्यबाध्यत ॥ 11 ॥
अथागस्त्यम ऋषिश्रेष्ठं वाहनायाजुहाव ह दरुतं सरस्वती कूलात समयन्न इव महाबलः ॥ 12 ॥
ततॊ भृगुर महातेजा मैत्रावरुणिम अब्रवीत निमीलयस्व नयने जटा यावद विशामि ते ॥ 13 ॥
सथाणुभूतस्य तस्याथ जटाः पराविशद अच्युतः भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥ 14 ॥
ततः स देवराट पराप्तस तम ऋषिं वाहनाय वै ततॊ ऽगस्त्यः सुरपतिं वाक्यम आह विशां पते ॥ 15 ॥
यॊजयस्वेन्द्र मां कषिप्रं कं च देशं वहामि ते यत्र वक्ष्यसि तत्र तवां नयिष्यामि सुराधिप ॥ 16 ॥
इत्य उक्तॊ नहुषस तेन यॊजयाम आस तं मुनिम भृगुस तस्य जटा संस्थॊ बभूव हृषितॊ भृशम ॥ 17 ॥
न चापि दर्शनं तस्य चकार स भृगुस तदा वरदानप्रभावज्ञॊ नहुषस्य महात्मनः ॥ 18 ॥
न चुकॊप स चागस्त्यॊ युक्तॊ ऽपि नहुषेण वै तं तु राजा परतॊदेन चॊदयाम आस भारत ॥ 19 ॥
न चुकॊप स धर्मात्मा ततः पादेन देवराट अगस्त्यस्य तदा करुद्धॊ वामेनाभ्यहनच छिरः ॥ 20 ॥
तस्मिञ शिरस्य अभिहते स जटान्तर गतॊ भृगुः शशाप बलवत करुद्धॊ नहुषं पापचेतसम ॥ 21 ॥
[भृगु] यस्मात पदाहनः करॊधाच छिरसीमं महामुनिम तस्माद आशु महीं गच्छ सर्पॊ भूत्वा सुदुर्मते ॥ 22 ॥
इत्य उक्तः स तदा तेन सर्पॊ भूत्वा पपात ह अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ 23 ॥
भृगुं हि यदि सॊ ऽदराक्षीन नहुषः पृथिवीपते न स शक्तॊ ऽभविष्यद वै पातने तस्य तेजसा ॥ 24 ॥
स तु तैस तैः परदानैश च तपॊभिर नियमैस तथा पतितॊ ऽपि महाराज भूतले समृतिमान अभूत परसादयाम आस भृगुं शापान्तॊ मे भवेद इति ॥ 25 ॥
ततॊ ऽगस्त्यः कृपाविष्टः परासादयत तं भृगुम शापान्तार्थं महाराज स च परादात कृपान्वितः ॥ 26 ॥
[भृगु] राजा युधिष्ठिरॊ नाम भविष्यति कुरूद्वहः स तवां मॊक्षयिता शापाद इत्य उक्त्वान्तरधीयत ॥ 27 ॥
अगस्त्यॊ ऽपि महातेजाः कृत्वा कार्यं शतक्रतॊः सवम आश्रमपदं परायात पूज्यमानॊ दविजातिभिः ॥ 28 ॥
नहुषॊ ऽपि तवया राजंस तस्माच छापात समुद्धृतः जगाम बरह्म सदनं पश्यतस ते जनाधिप ॥ 29 ॥
तदा तु पातयित्वा तं नहुषं भूतले भृगुः जगाम बरह्म सदनं बरह्मणे च नयवेदयत ॥ 30 ॥
ततः शक्रं समानाय्य देवान आह पितामहः वरदानान मम सुरा नहुषॊ राज्यम आप्तवान स चागस्त्येन करुद्धेन भरंशितॊ भूतलं गतः ॥ 31 ॥
न च शक्यं विना राज्ञा सुरा वर्तयितुं कव चित तस्माद अयं पुनः शक्रॊ देवराज्ये ऽभिषिच्यताम ॥ 32 ॥
एवं संभाषमाणं तु देवाः पार्थ पितामहम एवम अस्त्व इति संहृष्टाः परत्यूचुस ते पितामहम ॥ 33 ॥
सॊ ऽभिषिक्तॊ भगवता देवराज्येन वासवः बरह्मणा राजशार्दूल यथापूर्वं वयरॊचत ॥ 34 ॥
एवम एतत पुरावृत्तं नहुषस्य वयतिक्रमात स च तैर एव संसिद्धॊ नहुषः कर्मभिः पुनः ॥ 35 ॥
तस्माद दीपाः परदातव्याः सायं वै गृहमेधिभिः दिव्यं चक्षुर अवाप्नॊति परेत्य दीपप्रदायकः पूर्णचन्द्र परतीकाशा दीपदाश च भवन्त्य उत ॥ 36 ॥
यावद अक्षिनिमेषाणि जवलते तावतीः समाः रूपवान धनवांश चापि नरॊ भवति दीपदः ॥ 37 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 103
Reach this point to mark the section finished.
Continue to अध्याय 104