[य] शरुतं मे भरतश्रेष्ठ पुष्पधूप परदायिनाम फलं बलिविधाने च तद भूयॊ वक्तुम अर्हसि ॥ 1 ॥
धूपप्रदानस्य फलं परदीपस्य तथैव च बलयश च किमर्थं वै कषिप्यन्ते गृहमेधिभिः ॥ 2 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नहुषं परति संवादम अगस्त्यस्य भृगॊस तथा ॥ 3 ॥
नहुषॊ हि महाराज राजर्षिः सुमहातपाः देवराज्यम अनुप्राप्तः सुकृतेनेह कर्मणा ॥ 4 ॥
तत्रापि परयतॊ राजन नहुषस तरिदिवे वसन मानुषीश चैव दिव्याश च कुर्वाणॊ विविधाः करियाः ॥ 5 ॥
मानुष्यस तत्र सर्वाः सम करियास तस्य महात्मनः परवृत्तास तरिदिवे राजन दिव्याश चैव सनातनाः ॥ 6 ॥
अग्निकार्याणि समिधः कुशाः सुमनसस तथा बलयश चान लाजाभिर धूपनं दीपकर्म च ॥ 7 ॥
सर्वं तस्य गृहे राज्ञः परावर्तत महात्मनः जपयज्ञान मनॊ यज्ञांस तरिदिवे ऽपि चकार सः ॥ 8 ॥
दैवतान्य अर्चयंश चापि विधिवत स सुरेश्वरः सर्वाण्य एव यथान्यायं यथापूर्वम अरिंदम ॥ 9 ॥
अथेन्द्रस्य भविष्यत्वाद अहंकारस तम आविशत सर्वाश चैव करियास तस्य पर्यहीयन्त भूपते ॥ 10 ॥
स ऋषीन वाहयाम आस वरदानामदान्वितः परिहीनक्रियश चापि दुर्बलत्वम उपेयिवान ॥ 11 ॥
तस्य वाहयतः कालॊ मुनिमुख्यांस तपॊधनान अहंकाराभिभूतस्य सुमहान अत्यवर्तत ॥ 12 ॥
अथ पर्यायश ऋषीन वाहनायॊपचक्रमे पर्यायश चाप्य अगस्त्यस्य समपद्यत भारत ॥ 13 ॥
अथागम्य महातेजा भृगुर बरह्म विदां वरः अगस्त्यम आश्रमस्थं वै समुपेत्येदम अब्रवीत ॥ 14 ॥
एवं वयम असत्कारं देवेन्द्रस्यास्य दुर्मतेः नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ 15 ॥
[अगस्त्य] कथम एष मया शक्यः शप्तुं यस्य महामुने वरदेन वरॊ दत्तॊ भवतॊ विदितश च सः ॥ 16 ॥
यॊ मे दृष्टिपथं गच्छेत स मे वश्यॊ भवेद इति इत्य अनेन वरॊ देवाद याचितॊ गच्छता दिवम ॥ 17 ॥
एवं न दग्धः स मया भवता च न संशयः अन्येनाप्य ऋषिमुख्येन न शप्तॊ न च पातितः ॥ 18 ॥
अमृतं चैव पानाय दत्तम अस्मै पुरा विभॊ महात्मने तदर्थं च नास्माभिर विनिपात्यते ॥ 19 ॥
परायच्छत वरं देवः परजानां दुःखकारकम दविजेष्व अधर्मयुक्तानि स करॊति नराधमः ॥ 20 ॥
अत्र यत पराप्तकालं नस तद बरूहि वदतां वर भवांश चापि यथा बरूयात कुर्वीमहि तथा वयम ॥ 21 ॥
[भृगु] पितामह नियॊगेन भवन्तम अहम आगतः परतिकर्तुं बलवति नहुषे दर्पम आस्थिते ॥ 22 ॥
अद्य हि तवा सुदुर्बुद्धी रथे यॊक्ष्यति देवराट अद्यैनम अहम उद्वृत्तं करिष्ये ऽनिन्द्रम ओजसा ॥ 23 ॥
अद्येन्द्रं सथापयिष्यामि पश्यतस ते शतक्रतुम संचाल्य पापकर्माणम इन्द्र सथानात सुदुर्मतिम ॥ 24 ॥
अद्य चासौ कु देवेन्द्रस तवां पदा धर्षयिष्यति दैवॊपहतचित्तत्वाद आत्मनाशाय मन्दधीः ॥ 25 ॥
वयुत्क्रान्त धर्मं तम अहं धर्षणामर्षितॊ भृशम अहिर भवस्वेति रुषा शप्स्ये पापं दविज दरुहम ॥ 26 ॥
तत एनं सुदुर्बुद्धिं धिक शब्दाभिहत तविषम धरण्यां पातयिष्यामि परेक्षतस ते महामुने ॥ 27 ॥
नहुषं पापकर्माणम ऐश्वर्यबलमॊहितम यथा च रॊचते तुभ्यं तथा कर्तास्म्य अहं मुने ॥ 28 ॥
एवम उक्तस तु भृगुणा मैत्रा वरुणिर अव्ययः अगस्त्यः परमप्रीतॊ बभूव विगर जवरः ॥ 29 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103