धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 101

  1. [य] आलॊक दानं नामैतत कीदृशं भरतर्षभ कथम एतत समुत्पन्नं फलं चात्र बरवीहि मे ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मनॊः परजापतेर वादं सुवर्णस्य च भारत ॥ 2 ॥

  3. तपस्वी कश चिद अभवत सुवर्णॊ नाम नामतः वर्णतॊ हेमवर्णः स सुवर्ण इति पप्रथे ॥ 3 ॥

  4. कुलशीलगुणॊपेतः सवाध्याये च परं गतः बहून सववंशप्रभवान समतीतः सवकैर गुणैः ॥ 4 ॥

  5. स कदा चिन मनुं विप्रॊ ददर्शॊपससर्प च कुशलप्रश्नम अन्यॊन्यं तौ च तत्र परचक्रतुः ॥ 5 ॥

  6. ततस तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते रमणीये शिला पृष्ठे सहितौ संन्यषीदताम ॥ 6 ॥

  7. तत्र तौ कथयाम आस्तां कथा नानाविधाश्रयाः बरह्मर्षिदेव दैत्यानां पुराणानां महात्मनाम ॥ 7 ॥

  8. सुवर्णस तव अब्रवीद वाक्यं मनुं सवायम्भुवं परभुम हितार्थं सर्वभूतानां परश्नं मे वक्तुम अर्हसि ॥ 8 ॥

  9. सुमनॊभिर यद इज्यन्ते दैवतानि परजेश्वर किम एतत कथम उत्पन्नं फलयॊगं च शंस मे ॥ 9 ॥

  10. [मनु] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शुक्रस्य च बलेश चैव संवादं वै समागमे ॥ 10 ॥

  11. बलेर वैरॊचनस्येह तरैलॊक्यम अनुशासतः समीपम आजगामाशु शुक्रॊ भृगुकुलॊद्वहः ॥ 11 ॥

  12. तम अर्घ्यादिभिर अभ्यर्च्य भार्गवं सॊ ऽसुराधिपः निषसादासने पश्चाद विधिवद भूरिदक्षिणः ॥ 12 ॥

  13. कथेयम अभवत तत्र या तवया परिकीर्तिता सुमनॊधूपदीपानां संप्रदाने फलं परति ॥ 13 ॥

  14. ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रः परश्नम उत्तमम सुमनॊधूपदीपानां किं फलं बरह्मवित्तम परदानस्य दविजश्रेष्ठ तद भवान वक्तुम अर्हति ॥ 14 ॥

  15. [षुक्र] तपः पूर्वं समुत्पन्नं धर्मस तस्माद अनन्तरम एतस्मिन्न अन्तरे चैव वीरुद ओषध्य एव च ॥ 15 ॥

  16. सॊमस्यात्मा च बहुधा संभूतः पृथिवीतले अमृतं च विषं चैव याश चान्यास तुल्यजातयः ॥ 16 ॥

  17. अमृतं मनसः परीतिं सद्यः पुष्टिं ददाति च मनॊ मलपयते तीव्रं विषं गन्धेन सर्वशः ॥ 17 ॥

  18. अमृतं मङ्गलं विद्धि महद विषममङ्गलम ओषध्यॊ हय अमृतं सर्वं विशं तेजॊ ऽगनिसंभवम ॥ 18 ॥

  19. मनॊह्लादयते यस्माच छरियं चापि दधाति ह तस्मात सुमनसः परॊक्ता नरैः सुकृतकर्मभिः ॥ 19 ॥

  20. देवताभ्यः सुमनसॊ यॊ ददाति नरः शुचिः तस्मात सुमनसः परॊक्ता यस्मात तुष्यन्ति देवताः ॥ 20 ॥

  21. यं यम उद्दिश्य दीयेरन देवं सुमनसः परभॊ मङ्गलार्थं स तेनास्य परीतॊ भवति दैत्यप ॥ 21 ॥

  22. जञेयास तूग्राश च सौम्याश च तेजस्विन्यश च ताः पृथक ओषध्यॊ बहु वीर्याश च बहुरूपास तथैव च ॥ 22 ॥

  23. यज्ञियानां च वृक्षाणाम अयज्ञियान निबॊध मे आसुराणि च माल्यानि दैवतेभ्यॊ हितानि च ॥ 23 ॥

  24. राक्षसानां सुराणां च यक्षाणां च तथा परियाः पितॄणां मानुषाणां च कान्तायास्त्व अनुपूर्वशः ॥ 24 ॥

  25. वन्या गराम्याश चेह तथा कृष्टॊप्ताः पर्वताश्रयाः अकण्टकाः कण्टकिन्यॊ गन्धरूपरसान्विताः ॥ 25 ॥

  26. दविविधॊ हि समृतॊ गन्ध इष्टॊ ऽनिष्टश च पुष्पजः इण्ट गन्धानि देवानां पुष्पाणीति विभावयेत ॥ 26 ॥

  27. अकण्टकानां वृक्षाणां शवेतप्रायाश च वर्णतः तेषां पुष्पाणि देवानाम इष्टानि सततं परभॊ ॥ 27 ॥

  28. जलजानि च माल्यानि पद्मादीनि च यानि च गन्धर्वनागयक्षेभ्यस तानि दद्याद विचक्षणः ॥ 28 ॥

  29. ओषध्यॊ रक्तपुष्पाश च कटुकाः कण्टकान्विताः शत्रूणाम अभिचारार्थम अथर्वसु निदर्शिताः ॥ 29 ॥

  30. तीक्ष्णवीर्यास तु भूतानां दुरालम्भाः सकण्टकाः रक्तभूयिष्ठ वर्णाश च कृष्णाश चैवॊपहारयेत ॥ 30 ॥

  31. मनॊ हृदयनन्दिन्यॊ विमर्दे मधुराश च याः चारुरूपाः सुमनसॊ मानुषाणां समृता विभॊ ॥ 31 ॥

  32. न तु शमशानसंभूता न देवायतनॊद्भवाः संनयेत पुष्टि युक्तेषु विवाहेषु रहःसु च ॥ 32 ॥

  33. गिरिसानु रुहाः सौम्या देवानाम उपपादयेत परॊक्षिताभ्युक्षिताः सौम्या यथायॊगं यथा समृति ॥ 33 ॥

  34. गन्धेन देवास तुष्यन्ति दर्शनाद यक्षराक्षसाः नागाः समुपभॊगेन तरिभिर एतैस तु मानुषाः ॥ 34 ॥

  35. सद्यः परीणाति देवान वै ते परीता भावयन्त्य उत संकल्पसिद्धा मर्त्यानाम ईप्सितैश च मनॊरथैः ॥ 35 ॥

  36. देवाः परीणन्ति सततं मानिता मानयन्ति च अवज्ञातावधूताश च निर्दहन्त्य अधमान नरान ॥ 36 ॥

  37. अत ऊर्ध्वं परवक्ष्यामि धूपदानविधौ फलम धूपांश च विविधान साधून असाधूंश च निबॊध मे ॥ 37 ॥

  38. निर्यासः सरलश चैव कृत्रिमश चैव ते तरयः इष्टानिष्टॊ भवेद गन्धस तन मे विस्तरतः शृणु ॥ 38 ॥

  39. निर्यासाः सल्लकी वर्ज्या देवानां दयितास तु ते गुग्गुलुः परवरस तेषां सर्वेषाम इति निश्चयः ॥ 39 ॥

  40. अगुरुः सारिणां शरेष्ठॊ यक्षराक्षस भॊगिनाम दैत्यानां सल्लकीजश च काङ्क्षितॊ यश च तद्विधः ॥ 40 ॥

  41. अथ सर्जरसादीनां गन्धैः पार्थिव दारवैः फाणितासव संयुक्तैर मनुष्याणां विधीयते ॥ 41 ॥

  42. देवदानव भूतानां सद्यस तुष्टिकरः समृतः ये ऽनये वैहारिकास ते तु मानुषाणाम इति समृताः ॥ 42 ॥

  43. य एवॊक्ताः सुमनसां परदाने गुणहेतवः धूपेष्व अपि परिज्ञेयास त एव परीतिवर्धनाः ॥ 43 ॥

  44. दीपदाने परवक्ष्यामि फलयॊगम अनुत्तमम यथा येन यदा चैव परदेया यादृशाश च ते ॥ 44 ॥

  45. जयॊतिस तेजः परकाशश चाप्य ऊर्ध्वगं चापि वर्ण्यते परदाने तेजसां तस्मात तेजॊ वर्धयते नृणाम ॥ 45 ॥

  46. अन्धं तमस तमिस्रं च दक्षिणायनम एव च उत्तरायणम एतस्माज जयॊतिर दानं परशस्यते ॥ 46 ॥

  47. यस्माद ऊर्ध्वगम एतत तु तमसश चैव भेषजम तस्माद ऊर्ध्वगतेर दाता भवेद इति विनिश्चयः ॥ 47 ॥

  48. देवास तेजस्विनॊ यस्मात परभावन्तः परकाशकाः तामसा राक्षसाश चेति तस्माद दीपः परदीयते ॥ 48 ॥

  49. आलॊक दानाच चक्षुष्मान परभा युक्तॊ भवेन नरः तान दत्त्वा नॊपहिंसेत न हरेन नॊपनाशयेत ॥ 49 ॥

  50. दीपहर्ता भवेद अन्धस तमॊ गतिर असुप्रभः दीपप्रदः सवर्गलॊके दीपमाली विराजते ॥ 50 ॥

  51. हविषा परथमः कल्पॊ दवितीयस तव औषधी रसैः वसा मेदॊ ऽसथि निर्यासैर न कार्यः पुष्टिम इच्छता ॥ 51 ॥

  52. गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे दीपदाता भवेन नित्यं य इच्छेद भूतिम आत्मनः ॥ 52 ॥

  53. कुलॊद्द्यॊतॊ विशुद्धात्मा परकाशत्वं च गच्छति जयॊतिषां चैव सालॊक्यं दीपदाता नरः सदा ॥ 53 ॥

  54. बलिकर्मसु वक्ष्यामि गुणान कर्मफलॊदयान देव यक्षॊरग नृणां भूतानाम अथ रक्षसाम ॥ 54 ॥

  55. येषां नाग्र भुजॊ विप्रा देवतातिथिबालकाः राक्षसान एव तान विद्धि निर्वषट्कारमङ्गलान ॥ 55 ॥

  56. तस्माद अग्रं परयच्छेत देवेभ्यः परतिपूजितम शिरसा परणतश चापि हरेद बलिम अतन्द्रितः ॥ 56 ॥

  57. गृह्या हि देवता नित्यम आशंसन्ति गृहात सदा बाह्याश चागन्तवॊ ये ऽनये यक्षराक्षस पन्नगाः ॥ 57 ॥

  58. इतॊ दत्तेन जीवन्ति देवताः पितरस तथा ते परीताः परीणयन्त्य एतान आयुषा यशसा धनैः ॥ 58 ॥

  59. बलयः सह पुष्पैस तु देवानाम उपहारयेत दधि दरप्स युताः पुण्याः सुगन्धाः परियदर्शनाः ॥ 59 ॥

  60. कार्या रुधिरमांसाढ्या बलयॊ यक्षराक्षसाम सुरासव पुरस्कारा लाजॊल्लेपन भूषिताः ॥ 60 ॥

  61. नागानां दयिता नित्यं पद्मॊत्पलविमिश्रिताः तिलान गुड सुसंपन्नान भूतानाम उपहारयेत ॥ 61 ॥

  62. अग्रदाताग्र भॊगी सयाद बलवर्णसमन्वितः तस्माद अग्रं परयच्छेत देवेभ्यः परतिपूजितम ॥ 62 ॥

  63. जवलत्य अहर अहॊ वेश्म याश चास्य गृहदेवताः ताः पूज्या भूतिकामेन परसृताग्र परदायिना ॥ 63 ॥

  64. इत्य एतद असुरेन्द्राय काव्यः परॊवाच भार्गवः सुवर्णाय मनुः पराह सुवर्णॊ नारदाय च ॥ 64 ॥

  65. नारदॊ ऽपि मयि पराह गुणान एतान महाद्युते तवम अप्य एतद विदित्वेह सर्वम आचर पुत्रक ॥ 65 ॥

Reach this point to mark the section finished.

Continue to अध्याय 102

Previous: अध्याय 100