अथ यॊ विजिगीषेत कषत्रियः कषत्रियं युधि कस तस्य धर्म्यॊ विजय एतत पृष्टॊ बरवीहि मे ॥ 1 ॥
स सहायॊ ऽसहायॊ वा राष्ट्रम आगम्य भूमिपः बरूयाद अहं वॊ राजेति रक्षिष्यामि च वः सदा ॥ 2 ॥
मम धर्म्यं बलिं दत्तकिं वा मां परतिपत्स्यथ ते चेत तम आगतं तत्र वृणुयुः कुशलं भवेत ॥ 3 ॥
ते चेद अक्षत्रियाः सन्तॊ विरुध्येयुः कथं चन सर्वॊपायैर नियन्तव्या वि कर्म सथा नराधिप ॥ 4 ॥
अशक्तं कषत्रियं मत्वा शस्त्रं गृह्णात्य अथापरः तराणायाप्य असमर्थं तं मन्यमानम अतीव च ॥ 5 ॥
अथ यः कषत्रियॊ राजा कषत्रियं परत्युपाव्रजेत कथं स परतियॊद्धव्यस तन मे बरूहि पिता मह ॥ 6 ॥
नासंनद्धॊ नाकवचॊ यॊद्धव्यः कषत्रियॊ रणे एक एकेन वाच्यश च विसृजस्व कषिपामि च ॥ 7 ॥
स चेत संनद्ध आगच्छेत संनद्धव्यं ततॊ भवेत स चेत स सैन्य आगच्छेत स सैन्यस तम अथाह्वयेत ॥ 8 ॥
स चेन निकृत्या युध्येत निकृत्या तं परयॊधयेत अथ चेद धर्मतॊ युध्येद धर्मेणैव निवारयेत ॥ 9 ॥
नाश्वेन रथिनं यायाद उदियाद रथिनं रथी वयसने न परहर्तव्यं न भीताय जिताय च ॥ 10 ॥
नेषुर लिप्तॊ न कर्णी सयाद असताम एतद आयुधम जयार्थम एव यॊद्धव्यं न करुध्येद अजिघांसतः ॥ 11 ॥
साधूनां तु मिथॊ भेदात साधुश चेद वयसनी भवेत सव्रणॊ नाभिहन्तव्यॊ नानपत्यः कथं चन ॥ 12 ॥
भग्नशस्त्रॊ विपन्नाश्वश छिन्नज्यॊ हतवाहनः चिकित्स्यः सयात सवविषये पराप्यॊ वा सवगृहान भवेत निर्व्रणॊ ऽपि च मॊक्तव्य एष धर्मः सनातनः ॥ 13 ॥
तस्माद धर्मेण यॊद्धव्यं मनुः सवायम्भुवॊ ऽबरवीत सत्सु नित्यं सतां धर्मस तम आस्थाय न नाशयेत ॥ 14 ॥
यॊ वै जयत्य अधर्मेण कषत्रियॊ वर्धमानकः आत्मानम आत्मना हन्ति पापॊ निकृतिजीवनः ॥ 15 ॥
कर्म चैतद असाधूनाम असाधुं साधुना जयेत धर्मेण निधनं शरेयॊ न जयः पापकर्मणा ॥ 16 ॥
नाधर्मश चरितॊ राजन सद्यः फलति गौर इव मूलान्य अस्य परशाखाश च दहन समनुगच्छति ॥ 17 ॥
पापेन कर्मणॊ वित्तं लब्ध्वा पापः परहृष्यति स वर्धमानः सतेयेन पापः पापे परसज्जति ॥ 18 ॥
न धर्मॊ ऽसतीति मन्वानः शुचीन अवहसन्न इव अश्रद्दधान भावाच च विनाशम उपगच्छति ॥ 19 ॥
स बद्धॊवारुणैः पाशैर अमर्त्य इव मन्यते महादृतिर इवाध्मातः सवकृतेन विवर्धते ॥ 20 ॥
ततः स मूलॊ हरियते नदीकूलाद इव दरुमः अथैनम अभिनिन्दन्ति भिन्नं कुम्भम इवाश्मनि तस्माद धर्मेण विजयं कामं लिप्सेत भूमिपः ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 96
Reach this point to mark the section finished.
Continue to अध्याय 97