धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 97

  1. नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः अधर्मविजयं लब्ध्वा कॊ ऽनुमन्येत भूमिपः ॥ 1 ॥

  2. अधर्मयुक्तॊ विजयॊ हय अध्रुवॊ ऽसवर्ग्य एव च सादयत्य एष राजानं महीं च भरतर्षभ ॥ 2 ॥

  3. विशीर्णकवचं चैव तवास्मीति च वादिनम कृताञ्जलिं नयस्तशस्त्रं गृहीत्वा न विहिंसयेत ॥ 3 ॥

  4. बलेनावजितॊ यश च न तं युध्येत भूमिपः संवत्सरं विप्रणयेत तस्माज जातः पुनर भवेत ॥ 4 ॥

  5. नार्वाक संवत्सरात कन्या सप्रष्टव्या विक्रमाहृता एवम एव धनं सर्वं यच चान्यत सहसाहृतम ॥ 5 ॥

  6. न तु वन्ध्यं धनं तिष्ठेत पिबेयुर बराह्मणाः पयः युञ्जीरन वाप्य अनडुहः कषन्तव्यं वा तदा भवेत ॥ 6 ॥

  7. राज्ञा राजैव यॊद्धव्यस तथा धर्मॊ विधीयते नान्यॊ राजानम अभ्यसेद अराजन्यः कथं चन ॥ 7 ॥

  8. अनीकयॊः संहतयॊर यदीयाद बराह्मणॊ ऽनतरा शान्तिम इच्छन्न उभयतॊ न यॊद्धव्यं तदा भवेत मर्यादां शाश्वतीं भिन्द्याद बराह्मणं यॊ ऽभिलङ्घयेत ॥ 8 ॥

  9. अथ चेल लङ्घयेद एनां मर्यादां कषत्रिय बरुवः अप्रशस्यस तद ऊर्ध्वं सयाद अनादेयश च संसदि ॥ 9 ॥

  10. या तु धर्मविपॊपेन मर्यादा भेदनेन च तां वृत्तिं नानुवर्तेत विजिगीषुर महीपतिः धर्मलब्धाद धि विजयात कॊ लाभॊ ऽभयधिकॊ भवेत ॥ 10 ॥

  11. सहसा नाम्य भूतानि कषिप्रम एव परसादयेत सान्त्वेन भॊगदानेन स राज्ञां परमॊ नयः ॥ 11 ॥

  12. भुज्यमाना हय अयॊगेन सवराष्ट्राद अभितापिताः अमित्रान पर्युपासीरन वयसनौघप्रतीक्षिणः ॥ 12 ॥

  13. अमित्रॊपग्रहं चास्य ते कुर्युः कषिप्रम आपदि संदुष्टाः सर्वतॊ राजन राजव्यसनकाङ्क्षिणः ॥ 13 ॥

  14. नामित्रॊ विनिकर्तव्यॊ नातिछेद्यः कथं चन जीवितं हय अप्य अति छिन्नः संत्यजत्य एकदा नरः ॥ 14 ॥

  15. अल्पेनापि हि संयुक्तस तुष्यत्य एवापराधिकः शुद्धं जीवितम एवापि तादृशॊ बहु मन्यते ॥ 15 ॥

  16. यस्य सफीतॊ जनपदः संपन्नः परिय राजकः संतुष्टभृत्यसचिवॊ दृढमूलः स पार्थिवः ॥ 16 ॥

  17. ऋत्विक पुरॊहिताचार्या ये चान्ये शरुतसंमताः पूजार्हाः पूजिता यस्य स वै लॊकजिद उच्यते ॥ 17 ॥

  18. एतेनैव च वृत्तेन महीं पराप सुरॊत्तमः अन्व एव चैन्द्रं विजयं वयजिगीषन्त पार्थिवाः ॥ 18 ॥

  19. भूमिवर्जं पुरं राजा जित्वा राजानम आहवे अमृताश चौषधीः शश्वद आजहार परतर्दनः ॥ 19 ॥

  20. अग्निहॊत्राण्य अग्निशेषं हविर भाजनम एव च आजहार दिवॊदासस ततॊ विप्रकृतॊ ऽभवत ॥ 20 ॥

  21. सराजकानि राष्ट्राणि नाभागॊ दक्षिणां ददौ अन्यत्र शरॊत्रिय सवाच च तापस सवाच च भारत ॥ 21 ॥

  22. उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर आसन राज्ञां पुराणानां सर्वं तन मम रॊचते ॥ 22 ॥

  23. सर्वविद्यातिरेकाद वा जयम इच्छेन महीपतिः न मायया न दम्भेन य इच्छेद भूतिम आत्मनः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 98

Previous: अध्याय 96