अयुद्धेनैव विजयं वर्धयेद वसुधाधिपः जघन्यम आहुर विजयं यॊ युद्धेन नराधिप ॥ 1 ॥
न चाप्य अलब्धं लिप्सेत मूले नातिदृढे सति न हि दुर बलमूलस्य राज्ञॊ लाभॊ विधीयते ॥ 2 ॥
यस्य सफीतॊ जनपदः संपन्नः परिय राजकः संतुष्टपुष्टसचिवॊ दृढमूलः स पार्थिवः ॥ 3 ॥
यस्य यॊधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥ 4 ॥
पौरजानपदा यस्य सवनुरक्ताः सुपूजिताः सधना धान्यवन्तश च दृढमूलः स पार्थिवः ॥ 5 ॥
परभावकालाव अधिकौ यदा मन्येत चात्मनः तदा लिप्सेत मेधा वी परभूमिं धनान्य उत ॥ 6 ॥
भॊगेष्व अदयमानस्य भूतेषु च दया वतः वर्धते तवरमाणस्य विषयॊ रक्षितात्मनः ॥ 7 ॥
तक्षत्य आत्मानम एवैष वनं परशुना यथा यः सम्यग वर्तमानेषु सवेषु मिथ्या परवर्तते ॥ 8 ॥
न वै दविषन्तः कषीयन्ते राज्ञॊ नित्यम अपि घनतः करॊधं नियन्तुं यॊ वेद तस्य दवेष्टा न विद्यते ॥ 9 ॥
यद आर्य जनविद्विष्टं कर्म तन नाचरेद बुधः यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत ॥ 10 ॥
नैनम अन्ये ऽवजानन्ति नात्मना परितप्यते कृत्यशेषेण यॊ राजा सुखान्य अनुबुभूषति ॥ 11 ॥
इदं वृत्तं मनुष्येषु वर्तते यॊ महीपतिः उभौ लॊकौ विनिर्जित्य विजये संप्रतिष्ठते ॥ 12 ॥
इत्य उक्तॊ वामदेवेन सर्वं तत कृतवान नृपः तथा कुर्वंस तवम अप्य एतौ लॊकौ जेता न संशयः ॥ 13 ॥
शान्तिपर्व · Shanti Parva
अध्याय 95
Reach this point to mark the section finished.
Continue to अध्याय 96