धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 93

  1. कथं धर्मे सथातुम इच्छन राजा वर्तेत धार्मिकः पृच्छामि तवा कुरुश्रेष्ठ तन मे बरूहि पिता मह ॥ 1 ॥

  2. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ 2 ॥

  3. राजा वसु मना नाम कौसल्यॊ बलवाञ शुचिः महर्षिं परिपप्रच्छ वामदेवं यशॊ विनम ॥ 3 ॥

  4. धर्मार्थसहितं वाक्यं भगवन्न अनुशाधि माम येन वृत्तेन वै तिष्ठन न चयवेयं सवधर्मतः ॥ 4 ॥

  5. तम अब्रवीद वामदेवस तपस्वी जपतां वरः हेमवर्णम उपासीनं ययातिम इव नाहुषम ॥ 5 ॥

  6. धर्मम एवानुवर्तस्व न धर्माद विद्यते परम धर्मे सथिता हि राजानॊ जयन्ति पृथिवीम इमाम ॥ 6 ॥

  7. अर्थसिद्धेः परं धर्मं मन्यते यॊ महीपतिः ऋतां च कुरुते बुद्धिं स धर्मेण विरॊचते ॥ 7 ॥

  8. अधर्मदर्शी यॊ राजा बलाद एव परवर्तते कषिप्रम एवापयातॊ ऽसमाद उभौ परथममध्यमौ ॥ 8 ॥

  9. असत पापिष्ठ सचिवॊ वध्यॊ लॊकस्य धर्महा सहैव परिवारेण कषिप्रम एवावसीदति ॥ 9 ॥

  10. अर्थानाम अननुष्ठाता कामचारी विकत्थनः अपि सर्वां महीं लब्ध्वा कषिप्रम एव विनश्यति ॥ 10 ॥

  11. अथाददानः कल्याणम अनसूयुर जितेन्द्रियः वर्धते मतिमान राजा सरॊतॊभिर इव सागरः ॥ 11 ॥

  12. न पूर्णॊ ऽसमीति मन्येत धर्मतः कामतॊ ऽरथतः बुद्धितॊ मित्र तश चापि सततं वसुधाधिपः ॥ 12 ॥

  13. एतेष्व एव हि सर्वेषु लॊकयात्रा परतिष्ठिता एतानि शृण्वँल लभते यशः कीर्तिं शरियः परजाः ॥ 13 ॥

  14. एवं यॊ धर्मसंरम्भी धर्मार्थपरिचिन्तकः अर्थान समीक्ष्यारभते स धरुवं महद अश्नुते ॥ 14 ॥

  15. अदाता हय अनति सनेहॊ दण्डेनावर्तयन परजाः साहस परकृतीराजा कषिप्रम एव विनश्यति ॥ 15 ॥

  16. अथ पापं कृतं बुद्ध्या न च पश्यत्य अबुद्धि मान अकीर्त्यापि समायुक्तॊ मृतॊ नरकम अश्नुते ॥ 16 ॥

  17. अथ मानयितुर दातुः शुक्लस्य रसवेदिनः वयसनं सवम इवॊत्पन्नं विजिघांसन्ति मानवाः ॥ 17 ॥

  18. यस्य नास्ति गुरुर धर्मे न चान्यान अनुपृच्छति सुखतन्त्रॊ ऽरथलाभेषु नचिरं महद अश्नुते ॥ 18 ॥

  19. गुरु परधानॊ धर्मेषु सवयम अर्थान्ववेक्षिता धर्मप्रधानॊ लॊकेषु सुचिरं महद अश्नुते ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 94

Previous: अध्याय 92