धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 92

  1. कालवर्षी च पर्जन्यॊ धर्मचारी च पार्थिवः संपद यदैषा भवति सा बिभर्ति सुखं परजाः ॥ 1 ॥

  2. यॊ न जानाति निर्हन्तुं वस्त्राणां रजकॊ मलम रक्तानि वा शॊधयितुं यथा नास्ति तथैव सः ॥ 2 ॥

  3. एवम एव दविजेन्द्राणां कषत्रियाणां विशाम अपि शूद्राश चतुर्णां वर्णानां नाना कर्मस्व अवस्थिताः ॥ 3 ॥

  4. कर्म शूद्रे कृषिर वैश्ये दण्डनीतिश च राजनि बरह्मचर्यं तपॊ मन्त्राः सत्यं चापि दविजातिषु ॥ 4 ॥

  5. तेषां यः कषत्रियॊ वेद वस्त्राणाम इव शॊधनम शीलदॊषान विनिर्हन्तुं स पिता स परजापतिः ॥ 5 ॥

  6. कृतं तरेता दवापरश च कलिश च भरतर्षभ राजवृत्तानि सर्वाणि राजैव युगम उच्यते ॥ 6 ॥

  7. चातुर्वर्ण्यं तथा वेदाश चातुराश्रम्यम एव च सर्वं परमुह्यते हय एतद यदा राजा परमाद्यति ॥ 7 ॥

  8. राजैव कर्ता भूतानां राजैव च विनाशकः धर्मात्मा यः स कर्ता सयाद अधर्मात्मा विनाशकः ॥ 8 ॥

  9. राज्ञॊ भार्याश च पुत्राश च बान्धवाः सुहृदस तथा समेत्य सर्वे शॊचन्ति यदा राजा परमाद्यति ॥ 9 ॥

  10. हस्तिनॊ ऽशवाश च गावश चाप्य उष्ट्राश्वतर गर्दभाः अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ 10 ॥

  11. दुर बलार्थं बलं सृष्टं धात्रा मान्धातर उच्यते अबलं तन महद भूतं यस्मिन सर्वं परतिष्ठितम ॥ 11 ॥

  12. यच च भूतं स भजते भूता ये च तद अन्वयाः अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ 12 ॥

  13. दुर बलस्य हि यच चक्षुर मुनेर आशीविषस्य च अविषह्य तमं मन्ये मा सम दुर बलम आसदः ॥ 13 ॥

  14. दुर बलांस तात बुध्येथा नित्यम एवाविमानितान मा तवां दुर बलचक्षूंषि परदहेयुः स बान्धवम ॥ 14 ॥

  15. न हि दुर बलदग्धस्य कुले किं चित पररॊहति आमूलं निर्दहत्य एव मा सम दुर बलम आसदः ॥ 15 ॥

  16. अबलं वै बलाच छरेयॊ यच चाति बलवद बलम बलस्याबल दग्धस्य न किं चिद अवशिष्यते ॥ 16 ॥

  17. विमानितॊ हतॊत्क्रुष्टस तरातारं चेन न विन्दति अमानुष कृतस तत्र दण्डॊ हन्ति नराधिपम ॥ 17 ॥

  18. मा सम तात बले सथेया बाधिष्ठा मापि दुर बलम मा तवा दुर बलचक्षूंषि धक्ष्यन्त्य अग्निर इवाश्रयम ॥ 18 ॥

  19. यानि मिथ्याभिशस्तानां पतन्त्य अश्रूणि रॊदताम तानि पुत्रान पशून घनन्ति तेषां मिथ्याभिशासताम ॥ 19 ॥

  20. यदि नात्मनि पुत्रेषु न चेत पौत्रेषु नप्तृषु न हि पापं कृतं कर्म सद्यः फलति गौर इव ॥ 20 ॥

  21. यत्राबलॊ वध्यमानस तरातारं नाधिगच्छति महान दैवकृतस तत्र दण्डः पतति दारुणः ॥ 21 ॥

  22. युक्ता यदा जानपदा भिक्षन्ते बराह्मणा इव अभीक्ष्णं भिक्षुदॊषेण राजानं घनन्ति तादृशाः ॥ 22 ॥

  23. राज्ञॊ यदा जनपदे बहवॊ राजपूरुषाः अनयेनॊपवर्तन्ते तद राज्ञः किल्बिषं महत ॥ 23 ॥

  24. यदा युक्ता नयन्त्य अर्थान कामाद अर्थवशेन वा कृपणं याचमानानां तद राज्ञॊ वैशसं महत ॥ 24 ॥

  25. महावृक्षॊ जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति यदा वृक्षश छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति ॥ 25 ॥

  26. यदा राष्ट्रे धर्मम अग्र्यं चरन्ति; संस्कारं वा राजगुणं बरुवाणाः तैर एवाधर्मश चरितॊ धर्ममॊहात; तूर्णं जह्यात सुकृतं दुष्कृतं च ॥ 26 ॥

  27. यत्र पापा जयायमानाश चरन्ति; सतां कलिर विन्दति तत्र राज्ञः यदा राजा शास्ति नरान नशिष्यान; न तद राज्ञ्य वर्धते भूमिपाल ॥ 27 ॥

  28. यश चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपॊ नियुज्ञ्यात परवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्य अखिलां चिराय ॥ 28 ॥

  29. अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम समीक्ष्य पूजयन राजा धर्मं पराप्नॊत्य अनुत्तमम ॥ 29 ॥

  30. संविभज्य यदा भुङ्क्ते न चान्यान अवमन्यते निहन्ति बलिनं दृप्तं स राज्ञॊ धर्म उच्यते ॥ 30 ॥

  31. तरायते हि यदा सर्वं वाचा कायेन कर्मणा पुत्रस्यापि न मृष्येच च स राज्ञॊ धर्म उच्यते ॥ 31 ॥

  32. यदा शारणिकान राजा पुत्र वत परिरक्षति भिनत्ति न च मर्यादां स राज्ञॊ धर्म उच्यते ॥ 32 ॥

  33. यदाप्त दक्षिणैर यज्ञैर यजते शरद्धयान्वितः कामद्वेषाव अनादृत्य स राज्ञॊ धर्म उच्यते ॥ 33 ॥

  34. कृपणानाथ वृद्धानां यदाश्रु वयपमार्ष्टि वै हर्षं संजनयन नॄणां स राज्ञॊ धर्म उच्यते ॥ 34 ॥

  35. विवर्धयति मित्राणि तथारींश चापकर्षति संपूजयति साधूंश च स राज्ञॊ धर्म उच्यते ॥ 35 ॥

  36. सत्यं पालयति पराप्त्या नित्यं भूमिं परयच्छति पूजयत्य अतिथीन भृत्यान स राज्ञॊ धर्म उच्यते ॥ 36 ॥

  37. निग्रहानुग्रहौ चॊभौ यत्र सयातां परतिष्ठितौ अस्मिँल लॊके परे चैव राजा तत पराप्नुते फलम ॥ 37 ॥

  38. यमॊ राजा धार्मिकाणां मान्धातः परमेश्वरः संयच्छन भवति पराणान न संयच्छंस तु पापकः ॥ 38 ॥

  39. ऋत्विक पुरॊहिताचार्यान सत्कृत्यानवमन्य च यदा सम्यक परगृह्णाति स राज्ञॊ धर्म उच्यते ॥ 39 ॥

  40. यमॊ यच्छति भूतानि सर्वाण्य एवाविशेषतः तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत परजाः ॥ 40 ॥

  41. सहस्राक्षेण राजा हि सर्व एवॊपमीयते स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ 41 ॥

  42. अप्रमादेन शिक्षेथाः कषमां बुद्धिं धृतिं मतिम भूतानां सत्त्वजिज्ञासां साध्व असाधु च सर्वदा ॥ 42 ॥

  43. संग्रहः सर्वभूतानां दानं च मधुरा च वाक पौरजानपदाश चैव गॊप्तव्याः सवा यथा परजाः ॥ 43 ॥

  44. न जात्व अदक्षॊ नृपतिः परजाः शक्नॊति रक्षितुम भरॊ हि सुमहांस तात राज्यं नाम सुदुष्करम ॥ 44 ॥

  45. तद दण्डविन नृपः पराज्ञः शूरः शक्नॊति रक्षितुम न हि शक्यम अदण्डेन कलीबेनाबुद्धिनापि वा ॥ 45 ॥

  46. अभिरूपैः कुले जातैर दक्षैर भक्तैर बहुश्रुतैः सर्वा बुद्धीः परीक्षेथास तापसाश्रमिणाम अपि ॥ 46 ॥

  47. ततस तवं सर्वभूतानां धर्मं वेत्स्यसि वै परम सवदेशे परदेशे वा न ते धर्मॊ विनश्यति ॥ 47 ॥

  48. धर्मश चार्थश च कामश च धर्म एवॊत्तरॊ भवेत अस्मिँल लॊके परे चैव धर्मवित सुखम एधते ॥ 48 ॥

  49. तयजन्ति दारान पराणांश च मनुष्याः परतिपूजिताः संग्रहश चैव भूतानां दानं च मधुरा च वाक ॥ 49 ॥

  50. अप्रमादश च शौचं च तात भूतिकरं महत एतेभ्यश चैव मान्धातः सततं मा परमादिथाः ॥ 50 ॥

  51. अप्रमत्तॊ भवेद राजा छिद्रदर्शी परात्मनॊः नास्य छिद्रं परः पश्येच छिद्रेषु परम अन्वियात ॥ 51 ॥

  52. एतद वृत्तं वासवस्य यमस्य वरुणस्य च राजर्षीणां च सर्वेषां तत तवम अप्य अनुपालय ॥ 52 ॥

  53. तत कुरुष्व महाराज वृत्तं राजर्षिसेवितम आतिष्ठ दिव्यं पन्थानम अह्नाय भरतर्षभ ॥ 53 ॥

  54. धर्मवृत्तं हि राजानं परेत्य चेह च भारत देवर्षिपितृगन्धर्वाः कीर्तयन्त्य अमितौजसः ॥ 54 ॥

  55. स एवम उक्तॊ मान्धाता तेनॊतथ्येन भारत कृतवान अविशङ्कस तद एकः पराप च मेदिनीम ॥ 55 ॥

  56. भवान अपि तथा सम्यङ मान्धातेव महीपतिः धर्मं कृत्वा महीं रक्षन सवर्गे सथानम अवाप्स्यसि ॥ 56 ॥

Reach this point to mark the section finished.

Continue to अध्याय 93

Previous: अध्याय 91