वनस्पतीन भक्ष्यफलान न छिन्द्युर विषये तव बराह्मणानां मूलफलं धर्म्यम आहुर मनीषिणः ॥ 1 ॥
बराह्मणेभ्यॊ ऽतिरिक्तं च भुञ्जीरन्न इतरे जनाः न बराह्मणॊपरॊधेन हरेद अन्यः कथं चन ॥ 2 ॥
विप्रश चेत तयागम आतिष्ठेद आख्यायावृत्ति कर्शितः परिकल्प्यास्य वृत्तिः सयात सदारस्य नराधिप ॥ 3 ॥
स चेन नॊपनिवर्तेत वाच्यॊ बराह्मण संसदि कस्मिन्न इदानीं मर्यादाम अयं लॊकः करिष्यति ॥ 4 ॥
असंशयं निवर्तेत न चेद वक्ष्यत्य अतः परम पूर्वं परॊक्षं कर्तव्यम एतत कौन्तेय शासनम ॥ 5 ॥
आहुर एतज जना बरह्मन न चैतच छरद्दधाम्य अहम निमन्त्र्यश च भवेद भॊगैर अवृत्त्या चेत तदाचरेत ॥ 6 ॥
कृषिगॊरक्ष्य वाणिज्यं लॊकानाम इह जीवनम ऊर्ध्वं चैव तरयी विद्या सा भूतान भावयत्य उत ॥ 7 ॥
तस्यां परयतमानायां ये सयुस तत्परिपन्थिनः दस्यवस तद वधायेह बरह्मा कषत्रम अथासृजत ॥ 8 ॥
शत्रूञ जहि परजा रक्ष यजस्व करतुभिर नृप युध्यस्व समरे वीरॊ भूत्वा कौरवनन्दन ॥ 9 ॥
संरक्ष्यान पालयेद राजा यः स राजार्य कृत तमः ये के चित तान न रक्षन्ति तैर अर्थॊ नास्ति कश चन ॥ 10 ॥
सदैव राज्ञा बॊद्धव्यं सर्वलॊकाद युधिष्ठिर तस्माद धेतॊर हि भुञ्जीत मनुष्यान एव मानवः ॥ 11 ॥
अन्तरेभ्यः परान रक्षन परेभ्यः पुनर अन्तरान परान परेभ्यः सवान सवेभ्यः सर्वान पालय नित्यदा ॥ 12 ॥
आत्मानं सर्वतॊ रक्षन राजा रक्षेत मेदिनीम आत्ममूलम इदं सर्वम आहुर हि विदुषॊ जनाः ॥ 13 ॥
किं छिद्रं कॊ ऽनुषङ्गॊ मे किं वास्त्य अविनिपातितम कुतॊ माम आस्रवेद दॊष इति नित्यं विचिन्तयेत ॥ 14 ॥
गुप्तैश चारैर अनुमतैः पृथिवीम अनुचारयेत सुनीतं यदि मे वृत्तं परशंसन्ति न वा पुनः कच चिद रॊचेज जनपदे कच चिद राष्ट्रे च मे यशः ॥ 15 ॥
धर्मज्ञानां धृतिमतां संग्रामेष्व अपलायिनाम राष्ट्रं च ये ऽनुजीवन्ति ये च राज्ञॊ ऽनुजीविनः ॥ 16 ॥
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ये च तवाभिप्रशंसेयुर निन्देयुर अथ वा पुनः सर्वान सुपरिणीतांस तान कारयेत युधिष्ठिर ॥ 17 ॥
एकान्तेन हि सर्वेषां न शक्यं तात रॊचितुम मित्रामित्रम अथॊ मध्यं सर्वभूतेषु भारत ॥ 18 ॥
तुल्यबाहुबलानां च गुणैर अपि निषेविनाम कथं सयाद अधिकः कश चित स तु भुञ्जीत मानवान ॥ 19 ॥
ये चरा हय अचरान अद्युर अदंष्ट्रान दंष्ट्रिणस तथा आशीविषा इव करुद्धा भुजगा भुजगान इव ॥ 20 ॥
एतेभ्यश चाप्रमत्तः सयात सदा यत्तॊ युधिष्ठिर भारुण्ड सदृशा हय एते निपतन्ति परमाद्यतः ॥ 21 ॥
कच चित ते वणिजॊ राष्ट्रे नॊद्विजन्ते करार्दिताः करीणन्तॊ बहु वाल्पेन कान्तारकृतनिश्रमाः ॥ 22 ॥
कच चित कृषिकरा राष्ट्रं न जहत्य अति पीडिताः ये वहन्ति धुरं राज्ञां संभरन्तीतरान अपि ॥ 23 ॥
इतॊ दत्तेन जीवन्ति देवा पितृगणास तथा मनुष्यॊरगरक्षांसि वयांसि पशवस तथा ॥ 24 ॥
एषा ते राष्ट्रवृत्तिश च राष्ट्रगुप्तिश च भारत एतम एवार्थम आश्रित्य भूयॊ वक्ष्यामि पाण्डव ॥ 25 ॥
शान्तिपर्व · Shanti Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91