यदा राजा समर्थॊ ऽपि कॊशार्थी सयान महामते कथं परवर्तेत तदा तन मे बरूहि पिता मह ॥ 1 ॥
यथादेशं यथाकालम अपि चैव यथाबलम अनुशिष्यात परजा राजा धर्मार्थी तद धिते रतः ॥ 2 ॥
यथा तासां च मन्येत शरेय आत्मन एव च तथा धर्म्याणि सर्वाणि राजा राष्ट्रे परवर्तयेत ॥ 3 ॥
मधु दॊहं दुहेद राष्ट्रं भरमरान न विपातयेत वत्सापेक्षी दुहेच चैव सतनांश च न विकुट्टयेत ॥ 4 ॥
जलौका वत पिबेद राष्ट्रं मृदुनैव नराधिप वयाघ्रीव च हरेत पुत्रम अदष्ट्वा मा पतेद इति ॥ 5 ॥
अल्पेनाल्पेन देयेन वर्धमानं परदापयेत ततॊ भूयस ततॊ भूयः कामं वृद्धिं समाचरेत ॥ 6 ॥
दमयन्न इव दम्यानां शश्वद भारं परवर्धयेत मृदुपूर्वं परयत्नेन पाशान अभ्यवहारयेत ॥ 7 ॥
सकृत पाशावकीर्णास ते न भविष्यन्ति दुर दमाः उचितेनेव भॊक्तव्यास ते भविष्यन्ति यत्नतः ॥ 8 ॥
तस्मात सर्वसमारम्भॊ दुर लभः पुरुषव्रजः यथामुख्यान सान्त्वयित्वा भॊक्तव्य इतरॊ जनः ॥ 9 ॥
ततस तान भेदयित्वाथ परस्परविवक्षितान भुञ्जीत सान्त्वयित्वैव यथासुखम अयत्न तः ॥ 10 ॥
न चास्थाने न चाकाले करान एभ्यॊ ऽनुपातयेत आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥ 11 ॥
उपायान परब्रवीम्य एतान न मे माया विवक्षिता अनुपायेन दमयन परकॊपयति वाजिनः ॥ 12 ॥
पानागाराणि वेशाश च वेश परापणिकास तथा कुशीलवाः स कितवा ये चान्ये के चिद ईदृशाः ॥ 13 ॥
नियम्याः सर्व एवैते ये राष्ट्रस्यॊपघातकाः एते राष्ट्रे हि तिष्ठन्तॊ बाधन्ते भद्रिकाः परजाः ॥ 14 ॥
न केन चिद याचितव्यः कश चित किं चिद अनापदि इति वयवस्था भूतानां पुरस्तान मनुना कृता ॥ 15 ॥
सर्वे तथा न जीवेयुर न कुर्युः कर्म चेद इह सर्व एव तरयॊ लॊका न भवेयुर असंशयम ॥ 16 ॥
परभुर नियमने राजा य एतान न नियच्छति भुङ्क्ते स तस्य पापस्य चतुर्भागम इति शरुतिः तथा कृतस्य धर्मस्य चतुर्भागम उपाश्नुते ॥ 17 ॥
सथानान्य एतानि संगम्य परसङ्गे भूतिनाशनः कामप्रसक्तः पुरुषः किम अकार्यं विवर्जयेत ॥ 18 ॥
आपद्य एव तु याचेरन येषां नास्ति परिग्रहः दातव्यं धर्मतस तेभ्यस तव अनुक्रॊशाद दयार्थिना ॥ 19 ॥
मा ते राष्ट्रे याचनका मा ते भूयुश च दस्यवः इष्टादातार एवैते नैते भूतस्य भावकाः ॥ 20 ॥
ये भूतान्य अनुगृह्णन्ति वर्धयन्ति च ये परजाः ते ते राष्ट्रे परवर्तन्तां मा भूतानाम अभावकाः ॥ 21 ॥
दण्ड्यास ते च महाराज धनादान परयॊजनाः परयॊगं कारयेयुस तान यथाबलि करांस तथा ॥ 22 ॥
कृषिगॊरक्ष्य वाणिज्यं यच चान्यत किं चिद ईदृशम पुरुषैः कारयेत कर्म बहुभिः सह कर्मिभिः ॥ 23 ॥
नरश चेत कृषिगॊरक्ष्यं वाणिज्यं चाप्य अनुष्ठितः संशयं लभते किं चित तेन राजा विगर्ह्यते ॥ 24 ॥
धनिनः पूजयेन नित्यं यानाच छादनभॊजनैः वक्तव्याश चानुगृह्णीध्वं पूजाः सह मयेति ह ॥ 25 ॥
अङ्गम एतन महद राज्ञां धनिनॊ नाम भारत ककुदं सर्वभूतानां धनस्थॊ नात्र संशयः ॥ 26 ॥
पराज्ञः शूरॊ धनस्थश च सवामी धार्मिक एव च तपस्वी सत्यवादी च बुद्धिमांश चाभिरक्षति ॥ 27 ॥
तस्माद एतेषु सर्वेषु परीतिमान भव पार्थिव सत्यम आर्जवम अक्रॊधम आनृशंस्यं च पालय ॥ 28 ॥
एवं दण्डं च कॊशं च मित्रं भूमिं च लप्स्यसे सत्यार्जव परॊ राजन मित्र कॊशसमन्वितः ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90